________________
आप्तपरीक्षा ।
४१
ज्ञानात्कर्ममलावरणविगमेसति समाधिविशेषाद्विवेकख्यातेः सर्वज्ञत्वं मोक्षमार्गोपदेशित्वं जीवन्मुक्तदशायां विवेकख्यातेरपि निरोधे निर्बीजसमाधेर्मुक्तत्वमिति कापिला मन्यंते तदाऽयं पुरुषः परिकयमानो निष्फल एव स्यात् प्रधानेनैवं संसारमोक्षतत्कारणपरिणामतापर्याप्तत्वात् । ननु च सिद्धेऽपि प्रधाने संसारादिपरिणामानां कर्तरि भोग्ये, भोक्ता पुरुषः कल्पनीय एव भोग्यस्य भोक्तारमंतरेणानुपपत्तेरिति न मंतव्यं । तस्यैव भोक्तुरात्मनः कर्तृत्वसिद्धेः प्रधानस्य कर्तुः परिकल्पनानर्थक्यात् । नहि कर्तृत्वभोक्तृत्वयोः कश्चिद्विरोधोऽस्ति भोक्तुर्भुजिक्रियायामपि कर्तृत्वविरोधानुषंगात् । तथाच कर्तरि भोक्तृत्वानुपपत्तेर्भोक्तेति न व्यपदिश्यते । स्यान्मतं भोक्तेति कर्तरि शब्दयोगात्पुरुषस्य न वास्तवं कर्तृत्वं शब्दज्ञानानुपातिनः कर्तृत्वविकल्पस्य वस्तुशून्यत्वादिति । तदप्यसंबंद्धं । भोक्तृत्व दिधर्माणा - मपि पुरुषस्यावास्तवत्वापत्तेः । तथोपगमाश्चेतयत इति चेतनः पुरुषो न वस्तुतः सिद्ध्येत् । चेतन शब्दज्ञानानुपातिनो विकल्पस्य वस्तुशून्यत्वात् कर्तृत्वभोक्तृत्वादिशब्दज्ञानानुपातिविकल्पवत् । सकलशब्दविकल्पगोचरातिक्रांतत्वाश्चितिशक्तेः पुरुषस्यावक्तव्यत्वमिति चेन्न । तस्यावक्तव्यशब्देनापि वचनविरोधात् । तथाप्यवचने कथं परप्रत्यायनमिति संप्रधार्य कायप्रज्ञप्तेरपि शब्दाविषयत्वेन प्रवृस्ययोग त् । स्वयं च तथाविधं पुरुषं सकलवाग्गोचरातीतमकिंचित्करं कुतः प्रतिपद्येत । स्वसंवेदनादिति चेन्न । तस्य ज्ञानशून्ये पुंस्यसंभवात् स्वरूपस्य च स्वयं संचेतनायां पुरुषेण प्रतिज्ञायमानायां . बुद्ध्यवसितमर्थ पुरुषश्चेतयते इति व्याहन्यते स्वरूपस्य बुद्ध्यनवसितस्यापि तेन संवेदनात् । यथा च बुद्ध्यनवसितमात्मानमात्मा संचेतयते तथा बहिरर्थमपि संचेतयतां किमनया बुद्ध्या निष्कारणमुपकल्पितया । स्वार्थसंवेदकेन पुरुषेण तत्कृत्यस्य कृतत्वात् । यदि पुनरर्थसंवेदनस्य कादाचित्कत्वादुबुद्ध्यवसायस्तत्रापेक्ष्यते तस्य स्वकारणबुद्धिकादाचित्कतया कादाचित्कस्यार्थ संवेदनस्य कादाचित्कताहेतुत्वसिद्धे. । बुद्ध्यध्यवसायानपेक्षायां पुंसोऽर्थसंवेदने शश्वदर्थसंवेदनप्रसंगादिति मन्यध्वं तदार्थसंवेदिनः पुरुषस्यापि संचेतना कादाचित्का किमपेक्षास्यात् अर्थसंवेदनापेक्षयेति चेत् किमिदानीमर्थ संवेदनं पुरुषादन्यदभिधीयते ? तथाभिधाने स्वरूप संवेदनमपि पुंसोऽन्यत्प्राप्तं तस्य कादाचित्कतया शाश्वतिकत्वाभावात् तादृशस्वरुप संवेदनादात्मनोऽनन्यत्वे ज्ञान देवानन्यत्वमिष्यतां । ज्ञानस्यानित्यत्वात् ततोऽनन्यत्वे पुरुषस्यानित्यत्वप्रसंग इतिचेत् । स्वरुपसंवेदनादप्यनित्यत्वादात्मनोऽनन्यत्वे कथंचिदनित्यत्वप्रसंगो दुःपरिहार एव । स्वरुपसंवेदनस्य नित्यत्वेऽर्थसंवेदनस्यापि नित्यता स्यादेव परापेक्षातस्तस्यानित्यत्वे स्वरुपसंवेदनस्याप्यनित्यत्वमस्तु न चात्मनः कथंचिदनित्यत्वमयुक्तं । सर्वथा नित्यत्वे प्रमाणविरोधात् सोयं सांख्यः पुरुषं कादाचित्कार्थसंचेतनात्मकमपि निरतिशयं नित्य माचक्षाणो ज्ञानात्कादाचित्कादनन्यत्वमनित्यत्वभयान्न प्रतिपद्यत इति किमपि महाद्भुतं । प्रधानस्य चानित्यत्वाद्व्यक्तादनर्थातरभूतस्य नित्यतां प्रतीयन् पुरुषस्यापि ज्ञानादशाश्वतादनर्थातर भूतस्य नित्यत्वमुपैतु सर्वथा विशेषाभावात् केवलं ज्ञानपरिणामाश्रयस्य प्रधानस्यादृष्टस्यापि परिकल्पनायां ज्ञानात्मकस्य च पुरुषस्य स्वार्थव्यवसायिनो दृष्टस्य हानिः पापीयसी स्यात् । दृष्टहानिरदृष्टपरिकल्पना च पापीयसीति सकलप्रेक्षावतामभ्युपगमनीयत्वात् । ततस्तां परिजिहीर्षता पुरुषएव ज्ञानदर्शनो पयोगलक्षणः कश्चित्प्रक्षीणकर्मा सकलतत्त्वसाक्षात्कारी मोक्षमार्गस्य प्रणेता पुण्यशरीरः पुण्याति शयोदये सति सन्निहितोक्तपरिग्राहकविनेयमुख्यः प्रतिपत्तव्यस्तस्यैव मुमुक्षुभिः प्रेक्षावद्भिः स्तुत्य - तोपपत्तेः । प्रधानं तु मोक्षमार्गस्य प्रणेतृ ततोऽर्थातरभूत एवात्मा मुमुक्षुभिः स्तूयते इत्यकिंचित्करात्मवाद्येव ब्रूयान्न ततोऽन्य इत्यलं प्रसंगेन । योऽप्याह माभूत्कपिलो निर्वाणस्य प्रणेता महेश्वरवत् तस्य विचार्यमाणस्य तथा व्यवस्थापयितुमशक्तेः सुगतस्तु निर्वाणभागोंपदेशकोऽस्तु सकळवाधकप्रमाणाभावादिति तमपि निराकर्तुमुपक्रमते ॥
६