________________
४०
सनातन जैन ग्रंथमालायां
प्रतिज्ञायते तेनैवामवसिताधिकारमनष्टममुक्तात्मानं प्रतीति कथं न विरोधः प्रसिध्येत् । यदि पुनारूपांतरेण तथेष्यते तदा न प्रधानमेकरूपं स्यात् रूपद्वयस्य सिद्धेः । तथाचैकमनैकरूपं प्रधानं सिध्येत् सर्वमनेकांतात्मकं वस्तु साधयेत् । स्यादाकूतं न परमार्थतः प्रधानं विरुद्धयोर्धर्मयोरधिकरणं तयोः शब्दज्ञांनानुपातिना वस्तुशून्येन विकल्पेनाध्यारोपितत्वात्पारमार्थिकत्वे धर्मयोरपि धर्मांतरपरिकल्पनायामनवस्थानात् । सुदूरमपि गत्वा कस्यचिदारोपितधर्माभ्युपगमे प्रधानस्याप्यारोपितावेव नष्टत्वानष्टत्वधर्मौ स्यातामवसितानवसिताधिकारत्वधर्मौ च तदपेक्षानिमित्तं स्वरूपद्वयं च ततोनैकमनेकरूपं प्रधानं सिध्येत् । यतः सर्वे वस्त्वेकानेकात्मकं साधयेदिति । तदपि न विचारसहं । मुक्तामुक्तत्वयोरपि पुंसामपारमार्थिकत्वप्रसंगात् । सत्यमेतत् । न तत्त्वतः पुरुषस्य मुक्तत्वं संसारित्वं वा धर्मोऽस्ति प्रधानस्यैव संसारित्वप्रसिद्धेः । तस्यैव च मुक्तिकारणतत्त्वज्ञानवैराग्यपरिणामान्मुक्तित्वोपपत्तेः । तदेवं मुक्तेः पूर्वं निःश्रेयसमार्गस्योपदेशकं प्रधानमिति परमतममूद्य दूषयन्नाह ।
प्रधानं ज्ञत्वतो मोक्षमार्गस्याऽस्तूपदेशकं । तस्यैव विश्ववेदित्वाद्धेतृत्वात्कर्मभूभृतां ॥ ७९ ॥ इत्यसंभाव्यमेवास्याऽचेतनत्वात्पटादिवत् । तदसंभवतोनूनमन्यथानिष्फलः पुमान् ॥ ८० ॥ भोक्तामा चेत्स एवास्तु कर्ता तदविरोधतः । विरोधे तु तयोर्भोक्तुः स्याद्भुजौ कर्तृता कथं ॥ ८१ ॥ प्रधानं मोक्षमार्गस्य प्रणेतृ स्तूयते पुमान् । मुमुक्षुभिरिति ब्रूयात्कोऽन्योऽकिंचित्करात्मनः ॥ ८२ ॥
प्रधानमेवास्तु मोक्षमार्गस्योपदेशकं ज्ञत्वात् । यस्तु न मोक्षमार्गस्योपदेशकः स न ज्ञो दृष्टो यथा घटादि: मुक्तात्माच, ज्ञं च प्रधानं तस्मान्मोक्षमार्गस्योपदेशकं । न च कपिलादिपुरुषसंसर्गभाजः प्रधानस्य ज्ञत्वमसिद्धं विश्ववेदित्वात् । यस्तु न ज्ञः स न विश्ववेदी यथा घटादिः । विश्ववेदिच प्रधानं ततो ज्ञमेव च विश्ववेदि च तत्सिद्धं सकलकर्मभूभृद्भेतृस्वात् । तथा हि-कपिलात्मना संस्पृष्टं प्रधानं विश्ववेदि कर्मराशिविनाशित्वात् । यत्तु न विश्ववेदि तन्न कर्मराशिविनाशीष्टं दृष्टं वा यथा व्योमादि । कर्मराशिविनाशि च प्रधानं तस्माद्विश्ववेदि । न वाऽस्य कर्मराशिविनाशित्वमसिद्धं रजस्तमोविवर्तशुद्धकर्मनिकरस्य संप्रज्ञातयोगबलात्प्रध्वंस सिद्धेः सत्त्वप्रकर्षाश्चि संप्रज्ञातयोगघटनान् । तत्र सर्वज्ञवादिनां विवादाभावात् इति सांख्यानां दर्शनं । तदप्यसंभाव्यमेव । स्वयमेव प्रधानस्याचेतनत्वाभ्युपगमात् । तथा हि न प्रधानं कर्मराशिविनाशि स्वयमचेतनत्वात् । यत्स्वयमचेतनं तन्न कर्मराशिविनाशि दृष्टं यथा वस्त्रादि । स्वयमचेतनं च प्रधानं तस्मान्न कर्मराशिविनाशि । चेतनसंसर्गात्प्रधानस्य चेतनत्वोपगमादसिद्धसाधनमिति चेन्न । स्वयमिति विशेषणात् । स्वयं हि प्रधानमचेतनमेव चेतनसंसर्गात्तूपचारादेव तञ्चेतनमुच्यते स्वरूपतः पुरुषस्यैव चेतनत्वापगमात् “चैतन्यं पुरुषस्य स्वरूपमिति” वचनात् । ततः सिद्धमेवेदं साधनं कर्मराशिविनाशित्वाभावं साधयति तस्माच्च विश्ववेदित्वाभावः कर्मराशिविनाशित्वाभावे कस्यचिद्विश्ववेदित्वविरोधात् । ततश्च न प्रधानस्य ज्ञत्वं स्वयमचेतनस्य ज्ञत्वानुपलब्धेः । नचाज्ञस्य मोक्षमार्गस्योपदेशकत्वं संभाव्यत इति । प्रधानस्य सर्वमसंभाव्यमेव स्वयमचेतनस्य संप्रज्ञातसमाधेरपि दुर्घटत्वात् । बुद्धिसत्त्वप्रकर्षस्यासंभवाद्रजस्तमोमलावरणविगमस्यापि दुरुपपादत्वात् । यदि पुनरचेतनस्यापि प्रधानस्य विपर्ययाद्वेधसिद्धेः संसारित्वं तत्त्व