________________
आप्तपरीक्षा ।
३ल
वा-संसारी चात्मा, कर्मभूभृतामभेत्ता च शिवः परैरुपेयते तस्मान्न सर्वविनष्टमोह इति साक्षान्मोक्षमार्गोपदेशस्य कर्ता न भवेत् निरस्तं च पूर्व विस्तरतस्तस्यशश्वत्कर्मभिरस्पृष्टत्वं पुरुषविशेषस्येत्यलं विस्तरेण प्रागुक्तार्धस्यैवात्रोपसंहारात् । यथा चेश्वरस्य मोक्षमार्गोपदेशित्वं न प्रतिष्ठामियर्ति तथा कपिलस्यापीत्यतिदिश्यते ।
एतेनैव प्रतिव्यूढः कपिलोऽप्युपदेशकः । ज्ञानादर्थांतरत्वस्याऽविशेषात्सर्वथा स्वतः ॥ ७७ ॥ ज्ञानसंसर्गतो ज्ञत्वमज्ञस्यापि न तत्त्वतः । व्योमवच्चेतनस्यापि नोपपद्येत मुक्तवत् ॥ ७८ ॥
कपिल एवं मोक्षमार्गस्योपदेशकः क्लेश कर्मविपाकाशयानां भेत्ता रजस्तमसोस्तिरस्करणात् । समस्ततत्त्वज्ञानवैराग्यसंपन्नो धर्मविशेषैश्वर्ययोगी च प्रकृष्टसत्त्वस्याविर्भावात् विशिष्टदेहत्वाश्च । न पुनरीश्वर, स्तस्याकाशस्यवाऽशरीरस्य ज्ञानेच्छा क्रियाशक्त्यसंभवात् मुक्तात्मवत् । सदेहस्यापि सदा कुंशकर्मविपाकाशयैरपरामृष्टत्वविरोधात् । धर्मविशेषसद्भावे च तस्य तत्साधनसमाधिविशेषस्यावश्यंभावात् तन्निमित्तस्यापि ध्यानधारणाप्रत्ययाहारप्राणायामासनयमनियमलक्षणस्य योगांगस्याभ्युपगमनीयत्वात् । अन्यथा समाधिविशेषासिद्धेर्धर्मविशेषानुत्पत्तेर्ज्ञानाद्यतिशय लक्षणैश्वर्यीयोगादनीश्वरत्वप्रसंगात् । सत्त्वप्रकर्षयोगित्वे च कस्यचित्सदामुक्तस्यानुपायसिद्धस्य साधकप्रमाणाभावादिति निरीश्वर सांख्यवादिनः प्रचक्षते । तेषां कपिलोऽपि तीर्थकरत्वेनाभिप्रेतः प्रकृतेनैवेश्वरस्य मोक्षमार्गोपदेशित्वनिराकरणेनैव प्रतिव्यूढः प्रतिपत्तव्यः स्वतस्तस्यापि ज्ञानादर्थातरत्वाविशेषात्सर्वज्ञत्वायोगात् सर्वार्थज्ञानसंसर्गात्तस्य सर्वज्ञत्व परिकल्पनमपि न युक्तमाकाशांदेरपि सर्वज्ञत्वप्रसंगात् । तथाविध ज्ञानपरिणामाश्रयप्रधानसंसर्गस्याविशेषात् । तदविशेषेऽपि कपिल एव सर्वज्ञश्चेतनत्वान्न पुनर का - शादिरित्यपि न युज्यते । तेषां (. कपिलानां मते) मुक्तात्मनश्चेतनत्वेऽपि ज्ञानसंसर्गतः सर्वज्ञत्वानभ्युपगमात् । सबीजसमाधिसंप्रज्ञातयोगकालेऽपि सर्वज्ञत्वविरोधात् । स्यान्मतं, न मुक्तस्य ज्ञानसंसर्गः संभवति तस्य संप्रज्ञातयोगकाले एव विनाशात् । " तदा द्रष्टुः ( पुरुषस्य) स्वरूपेऽवस्थानमिति" वचनान् । मुक्तस्य तु संस्कारविशेषस्यापि विनाशात् । असंप्रज्ञातस्यैव संस्कारविशेषतावचनात् । चरिता*न ज्ञानादिपरिणामशून्येन प्रधानेन संसर्गमात्रेऽपि तन्मुक्तात्मानं प्रति तस्य नष्टत्वात् । संसार्यात्मानमेव प्रत्यनष्टत्ववचनात् न कपिलस्य चेतनस्य स्वरूपस्य ज्ञानसंसर्गात्सर्वज्ञत्वाभावसाधने मुक्तात्मोदाहरणं तत्र ज्ञानसंसर्गस्यासंभवादिति । तदप्यसारं । प्रधानस्य सर्वगतस्यानंतस्य संसर्गविशेषानुपपत्तेः । कपिलेन सह तस्य संसर्गे सर्वात्मना संसर्गप्रसंगात् । कस्यचिन्मुक्तिविरोधान्मुक्तात्मनो वा प्रधानेनासंसर्गे कपिलस्यापि तेनासंसर्गप्रसक्तेः । अन्यथा विरुद्धधर्माध्यासात्प्रधानभेदोपपत्तेः । ननु व प्रधानमेकं निरवयवं सर्वगतं न केनचिदात्मना संस्पृष्टमपरेणासंस्पृष्टमिति विरुद्धधर्माऽध्यासीष्यते येन तद्भेदोपपत्तेः । किं तार्ह ? सर्वदा सर्वात्मसंसर्ग केवलं मुक्तात्मानं प्रतिनष्टमपीतरात्मानं प्रत्यनष्टं निवृत्ताधिकारत्वात् प्रवृत्ताधिकारत्वाच्चेति चेन्न विरुद्धधर्माध्यासस्य तदवस्थत्वात् । प्रधानस्य भेदानिवृत्तेः नह्येकमेव निवृत्ताधिकारित्वप्रवृत्ताधिकारत्वयोर्युगपदधिकरणंयुक्तं नष्टत्वानष्टत्वयोरिव विरोधात् । विषयभेदान्न तयोर्विरोधः कश्चित्कचित् पितृत्वपुत्रत्वधर्मवत् तयोरेकविषययोरेव विशेधात् । निवृत्ताधिकारत्वं हि मुक्तपुरुषविषयं प्रवृत्ताधिकारत्वं पुनरमुक्तपुरुषविषयमिति । भिन्न पुरुषापेक्षया भिन्नविषयत्वं । नष्टत्वा नष्टत्वधर्मयोरपि मुक्तात्मानमेव प्रति विरोधः स्यादमुक्तात्मानं प्रत्येव वा । न चैवं मुक्तात्मापेक्षया प्रधानस्य नष्टधर्मत्ववचनात् अमुक्तापेक्षया चानष्टत्वप्रतिज्ञानादिति कश्चित्सोऽपि न विरुद्धधर्माध्यासान्मुच्यते प्रधानस्यैकरूपत्वात् येनैव हि रूपेण प्रधानं मुक्तात्मानं प्रतिचरिताधिकारं नष्टं च