________________
आप्तपरीक्षा ।
विषयादविकल्पज्ञानात्तत्त्वविषयस्य ज्ञानस्यानुपलब्धेः । कामशोकभयोन्माद चोर स्वप्नाद्युपप्लुतज्ञानेभ्यः कामिनीमृतेष्टजनशत्रुसंघाता नियतार्थगोचराणां पुरतोऽवस्थितानामिव दर्शनस्याप्यभूतार्थविषयतया तस्त्वविषयत्वाभावात् । तथा चाभ्यधायि " कामशोकभयोन्माद चोरस्खप्राद्युपप्लुताः । अभूतानपि पश्यंति पुरतोऽवस्थितानि वे” ति ॥ ननु च कामादिभावनाज्ञानादभूतानामपि कामिन्यादीनां पुरतोSवस्थितनामिव स्पष्टं साक्षाद्दर्शनमुपलभ्यते किमंग पुनः श्रुतानुमानभावनाज्ञानात्परमप्रकर्ष प्राप्तातुरार्य सत्यानां परमार्थसतां दुःखसमुदयनिरोधमार्गाणां योगिनः साक्षाद्दर्शनं न भवतीत्ययमर्थोऽस्य श्लोकस्य सौगतैर्विवक्षितः । स्पष्टज्ञानस्य भावनाप्रकर्षोत्पत्तौ कामिन्यादिषु भावनाप्रकर्षस्य तद्विषयस्पष्टज्ञानजनकस्य दृष्टांततया प्रतिपादनात् । न च श्रुतानुमानभावना ज्ञानमतत्वविषयं ततस्तत्वस्य प्राप्यत्वात् । श्रुतं हि परार्थानुमानं त्रिरूपलिंगप्रकाशकं वचनं चिंता च स्वार्थानुमानं साध्याविनाभावि त्रिरूपलिंगज्ञानं तस्य विषयो द्वेधा प्राप्यश्वालंबनीयश्च तत्रालंब्यमानस्य साध्यसामान्यस्य तद्विषयस्यावस्तुत्वादतत्वविषयत्वेऽपि प्राप्यस्वलक्षणापेक्षया तत्वविषयत्वं व्यववस्थाप्यते वस्तुविषयं प्रामाण्यं द्वयोरपि प्रत्यक्षानुमानयोरिति वचनात् । यथैव हि प्रत्यक्षादर्थे परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां न विसंवाद्यत इत्यर्थक्रियाकारि स्वलक्षणवस्तुविषयं प्रत्यक्षं प्रतीयते तथा परार्थानुमानात्स्वार्थातुमानापार्थ परिरच्छिद्य प्रवर्तमानोर्थक्रियायां न विसंवाद्यत इत्यर्थक्रियाकारि चतुरार्यसत्यवस्तुविषयमनुमान मास्थीयत इत्युभयोः प्राप्यवस्तुविषयं प्रमाण्यं सिद्धं प्रात्यक्षस्येवानुमानस्यार्थासंभवे संभवाभाव साधनात् । तदुक्तं । " अर्थस्यासंभवेऽभावात्प्रत्यक्षेऽपि प्रमाणता । प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्वय" मिति । तदेवं श्रुतानुमानभावनाज्ञानात्प्रकर्षपर्यंत प्राप्ताश्चतुरार्य सत्यज्ञानस्य स्पष्टतमस्योत्पत्तेरविरोधात् । सुगतस्य विश्वतत्वज्ञता प्रसिद्धैव परमवैतृष्ण्यवत् । संपूर्ण गतः सुगत इति नि वचनात् सुकलशवत् । सुशब्दस्य संपूर्णवाचित्वात् संपूर्ण हि साक्षाच्चतुरार्यसत्यज्ञानं संप्राप्तः सुगत इष्यते । तथा शोभनं गतः सुगत इति सुशब्दस्य शोभनार्थत्वात् सुरूपकन्यावत् निरुच्यते । शोभा विद्यातृष्णाशून्यो ज्ञानसंतानस्तस्याशोभनाभ्यामविद्यातृष्णाभ्यां व्यावृतत्वात्संप्राप्तः सुगत इति निराश्रवचित्तसंतानस्य सुगतत्ववर्णनात् । तथा सुष्ठु गतः सुगत इति पुनरनावृत्यागत इत्युच्यते । सुशब्दस्य पुनरनावृत्यर्थत्वात् सुनष्टज्वरवत् । पुनरविद्यातृष्णाक्रांतचित्तसंतानावृत्तेरभावात् निराश्रव चित्तसंतानसद्भावाश्च " तिष्ठत्येव पराधीना येषां तु महती कृपति " वचनात् ॥ कृपा हि त्रिविधा सत्त्वालंबना पुत्रकलत्रादिषु । धर्मालंबना संघादिषु निरालंबना संपुटसंदष्टमंडूकोद्धरणादिषु ! तत्र महती निरालंवना कृपा गतानां सत्त्वधर्मापेक्षत्वादिति ते तिष्ठत्येव न कदाचिन्निर्वाति धर्मदेशनया जगदुपकारनिरतत्वाज्जगतश्चानंतत्वात् 'ब्रदो भवेयं जगत हिताये' ति भावनया बुद्धत्व संवर्तकस्य धर्मविशेषस्योत्पत्तेर्धर्मदेशनाविरोधाभावाद्विवक्षामंतरेणापि विधूतकल्पनाजालस्य बुद्धस्य मोक्षमार्गोपदेशिन्या वाचो धर्मविशेषादेव प्रवृत्तेः स एव निर्वाणमार्गस्य प्रतिपादकः समवतिष्ठते विश्वतत्त्वज्ञत्त्वात् कात्स्ये तो वितृष्णत्वाश्चेति । केचिदात्रक्षते सौत्रांतिक मतानुसारिणः सौगतास्तेषां तत्त्वव्यवस्थामेव न संभावयामः । किं पुनर्विश्वतत्त्वज्ञः सुगतः स च निर्वाणमार्गस्थ प्रतिपादक इत्यसंभाव्यमानं प्रमाणविरुद्धं प्रतिपद्येमहि । तथाहि प्रतिक्षणविनश्वरा वहिरर्थाः परमाणव प्रत्यक्षतो नानुभूता नानुभूयंते स्थिरस्थूलसाधारणःकारस्य प्रत्यक्षबुद्धौ घटादेरर्थस्य प्रतिभासनात् यदि पुनरस्यासन्नाऽसंस्पृष्टरूपां परमाणवः प्रत्यक्षबुद्धौ प्रतिभासते प्रत्यक्ष पृष्टभाविनी तु कल्पना संवृत्तिः स्थिरस्थूलसाधारणाकारमात्मन्यविद्यमानमारोपयतीति वातालंबना: पंच विज्ञानकाया इति निगद्यते । तदा निरंशानां क्षणिकपरंमाणूनां का नामात्या - सन्नतेति विचार्य । व्यवधानाभाव इति चेत् तर्हि सजातीयस्य विजातीयस्य च व्यवधायकस्याभावात्तेषां व्यवधानाभावः संसर्ग एवोक्तः स्यात् स च सर्वात्मना न संभवत्येवैकपरमाणुमात्रप्रचयप्रसंगात् ।
१ रूपं, वेदना, विज्ञान, संज्ञा संस्कार इति दुःखं दुखं, सुलक्षणं सुलक्षणम्, क्षणिकं क्षणिकम्, शून्यं शन्यम् । इति चतुराय सत्यानाम् ।
४३