________________
सनातनजैनग्रंथमालायांनाप्येकदेशन दिग्भागभेदेन षड्भिः परमाणुभिरेकस्य परमाणोः संसृष्टमानस्य षडंशतापत्तेः ततएवा संसृष्टाः परमाणवः प्रत्यक्षेणालंब्यंत इति चेत् कथमत्यासन्नास्ते विरोधादविष्टदेशव्यवधानाभावादत्यासन्नास्त इति चेन्न । समीपदेशव्यवधानोपगमप्रसंगात् । तथा च समीपदेशव्यवधायकं वस्तु व्यवधी यमानपरमाणुभ्यां संसृष्टं व्यवहितं वा स्यात् गत्यंतराभावात् । न तावत्संसृष्टं तत्संसर्गस्य सर्वात्मनै कदेशेन वा विरोधात् । नापि व्यवहितं व्यवधायकांतरपरिकल्पनानुषंगात् व्यवधायकांतरमपि व्यवधीयमानाभ्यां संसृष्टं व्यवहितं चेति पुनः पर्यनुयोगेऽनवस्थानादिति कात्यासन्नाऽसंसृष्टरुपाः परमाणवो बहिः संभवेयुः । ये प्रत्यक्षविषयाः स्युस्तेषां प्रत्यक्षाविषयत्वे न कार्यलिंग स्वभावलिंगं वा परमाण्वात्मकं प्रत्यक्षतः सिध्येत् परमाण्वात्मकसाध्यवत् कचित्तदसिद्धौ च न कार्यकारणयोप्प्यव्यापकयोर्वा तद्भावः सिध्येत् प्रत्यक्षानुपलंभव्यतिरेकेण तत्साधनासंभवात् तदसिद्धौ च न स्वार्थानुमानमुदियात् । तस्य लिंगदर्शनसंबंधस्मरणाभ्यामेवोदयप्रसिद्धः। तदभावे तदनुपपत्तेः । स्वार्थानुमानानुपपत्ती च न परार्थानुमानरुपं श्रुतमिति क श्रुतमयी चिंतामयी च भावना स्यात् यतस्तत्प्रकर्षपर्यंत योगिप्रत्यक्ष मुररीक्रियते ततो न विश्वतत्त्वज्ञता सुगतस्य तत्त्वतोऽस्ति येन संपूर्ण गतः सुगतः शोभनं गतः सुगतः सुष्ठु गत इति सुशब्दस्य संपूर्णाद्यर्थत्रयमुदाहृत्य सुगतशब्दस्य निर्वचनत्रयमुपवर्ण्यते । सकलाविद्यातृष्णा प्रहाणाच्च सर्वार्थज्ञानवैतृष्ण्यसिद्धेः सुगतस्य जगद्धितैषिणः प्रमाणभूतस्य सर्वदावस्थितस्य विधूत कल्पनाजालस्यापि धर्मविशेषाद्विनेयजनसंमततत्त्वोपदेशप्रणयनं संभाव्यते सौत्रांतिकमते विचार्य माणस्य परमार्थतोऽर्थस्यं व्यवस्थापनायोगादिति सूक्तं सुगतोऽपि निर्वाणमार्गस्य न प्रतिपादक स्तत्त्वतो विश्वतत्त्वज्ञतापायात्कपिलादिवदिति । येऽपि ज्ञानपरमाणव एव प्रतिक्षणविशरारवः परमार्थ संतो न वहिरर्थपरमाणवः प्रमाणाभावादवयव्यादिवदिति योगाचारमतानुसारिणः प्रतिपद्यते तेषामपि न संवित्परमाणवः स्वसंवेदनप्रत्यक्षतः प्रसिद्धास्तत्र तेषामनवभासनादंतरात्मन एव सुख दुःखाद्यनेकविवर्तव्यापिनः प्रतिभासनात् तथा परप्रतिभासोऽनाद्यविद्यावासनाबलात्समुपजायमानो भ्रांतएवेति चेन्न । बाधकप्रमाणाभावात् । नन्वेकः पुरुषः क्रमभुवः सुखादिपर्यायान् सहभुवश्च गुणान् किमेकेन स्वभावेन व्याप्नोत्यनेकेन वा । न तावदकेन तेषामेकरूपतापत्तेः । नाप्यनेकेन तस्याप्यनेक. स्वभावत्वात् भेदप्रसंगादेकत्वविरोधादित्यपि न वाधकं वेद्यवेदकाकारैकज्ञानेन तस्यापसारितत्वात् संवेदनं ह्येकं वेद्यवेदकाकारी स्वसंवित्स्वभावेनकेन व्याप्नोति न च तयोरेकरूपता, संविद्रूपेणैकरूपतैवेति चेत् तात्मा सुखदुःखज्ञानादीन् स्वभावेनेरेनात्मत्वेन व्याप्नोति तेषामात्मरूपतयैकत्वाविरोधात् कथमेवं सुखादिभिन्नाकारः प्रतिभास इतिचेद्वद्यादिमित्राकारः प्रतिमासः कथमेकत्र संवेदने स्यादिति सम: पर्यनुयोगः । वेद्यादिवासनाभेदादितिचेत् सुखादिपर्याप्परिणामभेदादेकत्रात्मनि सुखादिभिन्नाकारः प्रतिभासः किं न भवेत् । वेद्याद्याकारप्रतिमासभेदेऽप्येकं संवेदनमशक्यविवचनत्वादिति वदन्नपि सुखाद्यनेकाकारप्रतिभासेऽप्येक एवात्मा शश्वदशक्यविवेचनात्वारिति वदंतं कथं प्रत्याचक्षीत यथैव हि संवेदनस्यैकस्य वेद्याद्याकारा: संवेदनांतरं नेतुमशक्यत्वादशक्यविरेचना: संवेदनमेकं तथा स्मनः सुखाद्याकाराः शश्वदात्मांतरं नेतुमशक्यत्वादशक्यविवेचना: कथमेक एवारपा न भवेत् । यद्यथा प्रतिभासते तत्तथैव व्यवहर्तव्यं यथा वेद्याद्याकारात्मकैकसंवेदनरूपतया प्रतिभापमानं संवदनं तथा च सुखज्ञानाद्यनेकाकारैकात्मरूपतया प्रतिभासमानश्चात्मा तस्मात्तथा व्यवहर्तव्य रति नातः सुखाद्यनेकाकारात्मा प्रतिभासमानो निराकर्तुं शक्यते । यदि तु वेद्यवेदकाकारयोधीतत्वात्तद्विविक्त मेव संवदनमात्रं परमार्थसदिति निगद्यते तदा तत्प्रचयरूपमेकपरमाणुरूपं वा । न तावत्प्रचय रूपं बहिरर्थपरमाणूनामिव संवेदनपरमाणूनामपि प्रचयस्य विचार्यमाणस्यासंभवात् ॥ नाप्येक परमाणुरूपं सकृदपि तस्य प्रतिभासाभावाद्वहिरर्थंकपरमाणुवत् । ततोऽपि न संवित्परमाणुरूपोऽपि सगतः सकलसंतानसंवित्परमाणुरूपाणि चतुरार्यसत्यानि दुःखादीनि परमार्थतः संवेदयते वेद्य वेदकभावप्रसंगादिति न तत्त्वतो विश्वतत्त्वज्ञः स्यात् , येनासौ निर्वाणमार्गस्य प्रतिपादकः समनुम