________________
आप्तपरीक्षा। न्यते ॥ स्यान्मतं संवृत्त्या वेद्यवेदकभावस्य सद्भावात्सुगतो विश्वतत्त्वानां ज्ञाता श्रेयोमार्गस्य चोपदेष्टा स्तूयते तत्त्वतस्त दसंभवादिति तदप्यज्ञचेष्टितमिति निवेदयति
"संवृत्त्या विश्वतत्त्वज्ञः श्रेयोमार्गोपदेश्यपि ।
बुद्धो वन्द्यो न तु स्वप्नस्ताहगित्यज्ञचेष्टितं" ॥ ७५ ॥ ___ ननु च संवृतत्वाविशेषेऽपि सुगतस्वप्नसंवेदनयोः सुगतएव वंद्यस्तस्य भूतस्वभावत्वाद्विपर्ययैर बाध्यमानत्वादर्थक्रियाहेतुत्वाच्च । नतुस्वप्नसंवेदनं धंद्यं तस्य संवृत्त्यापि बाध्यमानत्वात् भूतार्थ त्वाभावादर्थक्रियाहेतुत्वाभावाच्चेति चेन्न भूतत्वसांवृतत्वयोर्विप्रतिषेधात् । भूतं हि सत्यं सांवृतमसत्यं तयोः कथमेकत्र सकृत्संभवः । संवृतिः सत्यं भूतमितिचेन्न । तस्य विपर्ययैरबाध्यमानत्वायोगात् स्वप्नसंवेदनादविशेषात् । ननु च संवृतिरपि द्वेधा सादिरनादिश्च । सादिः स्वतसंवेदनादिः । सा वाध्यते सुगतसंवेदनाऽनादिः सा न वाध्यते संवृतित्वाविशेषेऽपीति चेन्न । संसारस्याबाध्यत्वप्रसङ्गात् सानादिरेवानाद्यविद्यावासनाहेतुत्वात् प्रवाध्यते मुक्तिकारणसामर्थ्यात् । अन्यथा कस्यचित् संसाराभावाप्रसिद्धः । संवृत्या सुगतस्य बंद्यत्वे च परमार्थतः किंनाम वंद्यं स्यात् संवेदनाद्वैतमिति चेन्न तस्य स्वतोऽन्यतोवा प्रतिपत्त्यभावादित्याह
यत्तु संवेदनाद्वैतं पुरुषाद्वैतवन्न तत् ।
सिद्धयेत्स्वतोऽन्यतोवापि प्रमाणात्स्वेष्टहानितः ॥ ८६ ॥ तद्धि संवेदनाद्वतं न तावत्स्वतः सिध्यति पुरुषाद्वैतवत् । स्वरूपस्य स्वतोगतेरभावात् । अन्यथा कस्यचित्तत्र विप्रतिपत्तेरयोगात् पुरुषाद्वैतस्यापि प्रसिद्धरिष्टहानिप्रसंगाच्च । ननु च पुरुषाद्वैतं न स्वतोऽवसीयते तस्य नित्यस्य सकलकालकलापव्यापितया सर्वगतस्य च सकलदेशप्रतिष्ठित तया वाऽनुभवाभावादिति चेन्न । संवेदनाद्वैतस्यापि क्षणिकस्यैकक्षणस्थायितया निरंशस्यैकपर. माणुरूपतया सकृदप्यनुभवाभावाविशेषात् । यदि पुनरन्यतः प्रमाणात्संवेदनाद्वैतसिद्धिः स्यात् तदापि स्वेष्टहानिरवश्यंभाविनी साध्यसाधनयोरभ्युपगमे द्वैतसिद्धिप्रसंगात् । यथा चानुमाना संवेदनाद्वैत साध्यते । यत्संवेद्यते तत्संवेदनमेव । यथा संवेदनस्वरूप संवेद्यन्ते च नीलसुखादीनि । तथा पुरुषाद्वैतमपि वेदांतवादिभिः साध्यते । प्रतिभासएवेदं सर्व प्रतिभासमानत्वात, यद्यत्प्रतिभासमानं तत्तत्प्रतिभासएव यथा प्रतिभासस्वरूपं प्रतिभासमानं चेदं जगत्तस्मात्प्रतिभास एवे त्यनुमानात् । नपत्र जगतः प्रतिभासमानत्वमसिद्धं साक्षादसाक्षाच्च तस्याऽप्रतिभासमानत्वे सकल शब्दविकल्पवाग्गोचरातिक्रांततया वक्तुमशक्तेः प्रतिभासश्च चिद्रूपएव अचिद्रूपस्य प्रतिभासत्व विरोधात् । चिन्मानं च पुरुषाद्वैतं तस्य च देशकालाकारतो विच्छेदानुपलक्षणत्वात् । नित्यत्वं सर्वगतत्वं निराकारत्वं च व्यवतिष्ठते । नहि स कश्चित्कालोऽस्ति यश्चिन्मात्रप्रतिभासशून्यः प्रतिभासविशेषस्यैव विच्छेदान्न लसुखादिप्रतिभासविशेषवत् । सह्येकदा प्रतिभासमानोऽन्यदा न प्रतिभासते प्रतिभासांतरेण विच्छेदात्प्रतिभासमात्रं तु सकलप्रतिभासविशेषकालेऽप्यस्तीति न कालतोविच्छिन्नं नापि देशतः कचिदशे प्रतिभासविशेषस्य देशांतरप्रतिभासविशेषेण विच्छेदेऽपि प्रतिभासमात्रस्या विच्छेदादिति न देशविच्छन्नं प्रतिभासमात्रं नाप्याकारविच्छिन्नं केनचिदाकारेण प्रतिभासविशेषस्यैवाकारांतरप्रतिभासविशेषेण विच्छेदोपलब्धेः प्रतिभासमात्रस्य सर्वाकारप्रतिभासविशेषषु सद्भावादाकारेणाप्यविच्छिन्नं तत्, प्रतिभासविशेषाश्च देशकालाकारैर्विच्छिद्यमानाः यदि न प्रतिभासंते तदा न तद्व्यवस्थाऽतिप्रसंगात् प्रतिभासन्ते चेत्प्रतिभासमात्रांत:प्रविष्टा एव प्रतिभासस्वरूपवत् । नहि प्रतिभासमानं किंचित्प्रतिभासमात्रांत:प्रविष्टं नोपलब्धं येनानैकांतिकं प्रतिभासमानत्वं स्यात् तथा देशकालाकारभेदाश्च परैरभ्युपगम्यमाना यदि न प्रतिभासंते कथमभ्युपगमार्हाः स्वयमप्रति.