________________
सनातनजैनग्रंथमालायांभासमानस्यापि कस्यचिदभ्युपगमेऽतिप्रसंगानिवृत्तेः प्रतिभासमानास्तु तेऽपि प्रतिभासमात्रांत:प्रविष्टा एवति कथं तैः प्रतिभासमात्रस्य विच्छंदः स्वरुपेणास्वरुपेण स्वस्य विच्छेदानुपपत्तेः सन्नपि देशकाला कारैविच्छेदः प्रतिभासमात्रस्य प्रतिभासते न वा ? प्रतिभासते चेत्प्रतिभासस्वरूपमेव तस्य च विच्छेद इति नामकरणे न किंचिदनिष्ठं । न प्रतिभासतेचेत्कथमस्ति न प्रतिभासते चास्तिवेतिविप्रतिषेधात् । ननु च देशकालस्वभावविप्रकृष्टाः कथंचिदप्रतिभासमाना अपि संतः सद्भिर्बाधकाभावादिष्यंत एवेति चेन्न । तेषामपि शब्दज्ञानेनानुमानज्ञानेन वा प्रतिभासमानत्वात् । तत्राप्यप्रति भासमानानां सर्वथाऽस्तित्वव्यवस्थानुपपत्तेः ।। नन्वेवं शब्दविकल्पज्ञाने प्रतिभासमानाः परस्परविरुद्धार्थप्रवादाः शशविषाणादयश्च नष्ठानुत्पनाश्च रावणशंखचक्रवर्त्यादयः कथमपाक्रियते तेषामनपाकरणे कथं पुरुषाद्वैतसिद्धिरिति चेन्न । तेषामपि प्रतिभासमात्रांत:प्रविष्टत्वसाधनात् । एतेन यदुच्यते के श्चत् "अद्वैतैकांतपक्षेऽपि दृष्टोभेदो विरुध्यते। कारकाणां क्रियायाश्च नैकं स्वस्मात्प्रजायते । कर्मद्वैत फलद्वैतं लोकद्वैतं च नो भवेत् । विद्याविद्याद्वयं न स्याद्वधमाक्षद्वयं तथेति "। तदपि प्रत्याख्यातं क्रियाणां कारकाणां च दृष्टस्य भेदस्य प्रतिभासमानस्य पुण्यपापकर्मद्वैतस्य तत्फलद्वैतस्य च सुखदुःख लक्षणस्य लोकद्वैतस्येह परलोकविकल्पस्य विद्याविद्याद्वैतस्य च सत्येतरज्ञानभेदस्य बंधमोक्षद्वयस्य च पारतंत्र्यस्वभावस्य प्रतिभासमात्रांत:प्रविष्टत्वाद्विरोधकत्वासिद्धेः स्वयमप्रतिभासमानस्य च विरोधकत्वं दुरुपपादं स्वेष्टतत्त्वस्यापि सर्वेषामप्रतिभासमानेन विरोधकेन विरोधापत्तेन किंचित्त त्त्वमविरुद्धं स्यात् । यदप्यभ्यधायि " हेतोरद्वैतसिद्धिश्चैवैतं स्याद्वेतुसाध्ययोः । हेतुना चे द्विना सिद्धिद्वैतं वाङ्मावतो न किं" इति । तदपि न पुरुषाद्वैतवादिनः प्रतिक्षेपक (प्रतिभासमानत्वस्य हेतोः सर्वस्य प्रतिभासमात्रांतःप्रविष्टत्वसाधनस्य स्वयं प्रतिभासप्रतिभासमात्रांतः प्रविष्टत्वसिद्धेद्वैतसिद्धि निबंधनत्वाभावात् । हेतुना विना चोपनिषद्वाक्यमात्रात्पुरुषाद्वैतसिद्धौ न वाङ्मात्रादद्वैतसिद्धिः प्रसज्यते न चोपनिषद्वाक्यमपि परमपुरुषादन्यदेव तस्य प्रतिभासमानस्य परमपुरुषस्वभावत्वसिद्धेः) यदपि कैश्चिनिगद्यते पुरुषाद्वैतस्यानुमानात्प्रसिद्धौ पक्षहेतुदृष्टांतानामवश्यंभावात् तैर्विनाऽनुमानस्यानुदयात्कुतः पुरुषाद्वैतं सिध्येत् ? पक्षादिभेदस्य सिद्धेरिति तदपि न युक्तिमत् । पक्षादीनामपि प्रतिभासमानानां प्रतिभासांतःप्रतिष्टानां प्रतिभासमात्राबाधकत्वादनुमानवत् । तेषामप्रतिभास मानानां तु सद्भावाप्रसिद्धेः कुतः पुरुषाद्वैतविरोधित्वं । यदप्युच्यते कैश्चित्पुरुषाद्वैतं तत्त्वं परेण प्रमा णेन प्रतीयमानं प्रमेयं तत्त्वं तत्परिच्छित्तिश्च प्रमितिः प्रमाता च यदि विद्यते तदा कथं पुरुषाद्वैवं प्रमाणप्रमेयप्रमातृप्रमितीनां तात्त्विकीनां सद्भावात्तत्त्वचतुष्टयप्रसिद्धिरिति । तदपि न विचारक्षमं । प्रमाणादिचतुष्टयस्यापि प्रतिभासमानस्य प्रतिभासमात्रात्मनः परमब्रह्मणो बहिर्भावाभावात् । तद्बहिभूर्तस्य द्वितीयत्वायोगात् । एतेन षोडशपदार्थप्रतीत्या प्रागभावादिप्रतीत्या च पुरुषाद्वैतं वाध्यत इति वदन्निवारितः । तैरपि प्रतिभासमानैर्द्रव्यादिपदार्थैरिव प्रतिभासमात्रादबहिर्भूतैः पुरुषाद्वैतस्य बाधनायोगात् । स्वयमप्रतिभासमानस्तु सद्भावव्यवस्थामप्रतिपद्यमानस्तस्य वाधने शशविषाणादिभिरपि स्वेष्टपदार्थनियमस्य बाधनप्रसंगात् ॥ एतेन सांख्यादिपरिकल्पितैरपि प्रकृत्यादितत्त्वैः पुरुषाद्वैतं न बाध्यते इति निगदितं बोद्धव्यं । न चात्रं पुरुषाद्वैते यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टौ योगांगानि योगो वा संप्रज्ञातोऽसंप्रज्ञातश्च योगफलं च विभूतिकैवल्यलक्षणं विरुध्यते प्रतिभासमात्रात्तद्वहिर्भावाभावात् प्रतिभासमानत्वेन तथा भाव प्रसिद्धेः । येऽप्याहुः प्रतिभासमानस्यापि वस्तुनः प्रतिभासाद्भेदप्रसिद्धेः न प्रतिभासांतःप्रविष्टत्वं प्रतिभासो हि ज्ञानं स्वयं न प्रतिभासते स्वात्मनि क्रियाविरोधात्तस्य ज्ञानांतरवेद्यत्वसिद्धेर्नापि तद्विषयभूतं वस्तु स्वयं प्रतिभासमानं तस्य ज्ञेयत्वात् । ज्ञानेनैव प्रतिभासत्वसिद्धेरिति स्वयं प्रतिभास मानत्वं साधनमसिद्धं न कस्यचित्प्रतिभासांतःप्रविष्टत्वं साधयेत् । परतः प्रतिभासमानत्वं तु विरुद्धं प्रतिभासबहिर्भावसाधनत्वादिति तेऽपि स्वदर्शनपक्षपातिन एव ज्ञानस्य स्वयमप्रतिभासने ज्ञानांत