________________
४७
आप्तपरीक्षा। रादपि प्रतिभासनविरोधात् प्रतिभासत इति प्रतिभासैकतया स्वातंत्रण प्रतीतिविरोधात् प्रतिभास्यत इत्येवं प्रत्ययप्रसंगात् ॥ तस्य परेण ज्ञानेन प्रतिभासमानत्वात् परस्य ज्ञानस्य च ज्ञानांतराप्रतिभासने प्रतिभासतइति संप्रत्ययो न स्यात् ॥ संवेदनांतरेण प्रतिभास्यत्वात् । तथा चानवस्थानान किंचित्संवेदनं व्यवतिष्ठते । नच ज्ञानं प्रतिभासत इति प्रतीतिभ्रीता वाधकाभावात् । स्वात्मनि क्रिया बिरोधो बाधक इति चेत्का पुनः स्वात्मनि क्रिया विरुध्यते ज्ञप्तिरुत्पत्तिर्वा ? न तावत्प्रथमकल्पना स्वात्मनि शप्तेविरोधाभावात् स्वयं प्रकाशनं हि ज्ञप्तिः । तच्च सूर्यालोकनादौ स्वात्मनि प्रतीयत एव, सूर्यालोकः प्रकाशते' 'प्रदीपः प्रकाशते' इति प्रतीतेः। द्वितीयकल्पना तु न वाधकारिणी, स्वात्मन्युत्पत्तिलक्षणायाः क्रियायाः परैरनभ्युपगमात् । न हि किंचित्स्वस्मादुत्पद्यते इति प्रेक्षावताऽनुमन्यते । संवेदनं स्वस्मादुत्पद्यत इति तु दूरात्सारितमेव । ततः कथं स्वात्मनि क्रियाविरोधो वाधकःस्यात् ? न च सर्वा क्रिया वस्तुनः स्वात्मनि विरुध्यत इति प्रतीतिरस्ति तिष्ठत्यास्तेभवतीति धात्वर्थलक्षणायाः क्रियायाः स्वात्मन्येव प्रतीतेः । तिष्ठत्यादेर्धातोरकर्मकत्वात्कर्मणि क्रियानुत्पत्तेः । स्वात्मन्येव कर्तरि स्थानादि क्रियेतिचेत्तार्ह भासते तद्धातोरकर्मकत्वात्कणि क्रियाविरोधात् कर्तर्येव प्रतिभासनक्रियाऽस्तु ज्ञानं प्रतिभासत इति प्रतीतेः । सिद्धच ज्ञानस्य स्वयं प्रतिभासमानत्वे सकलस्य वस्तुनः स्वतः प्रतिभासमानत्वं सिद्धमेव । सुखं प्रतिभासते रूपं प्रतिभासत इत्यंतर्बहिर्वस्तुनः स्वातंत्र्येण कर्तृतामनु भवतः प्रतिभासनक्रियाधिकरणस्य प्रतिभासमानस्य निराकर्तुमशक्तेः ॥ ततो नासिद्धं साधनं यतः पुरुषाद्वैतं न साधयेत् । नापि विरुद्धं परतः प्रतिभासमानत्वाप्रतीतेः, कस्यचित्प्रतिभासादर्हिर्भाव साधनात् । एतेन परोक्षज्ञानवादिनः संवेदनस्य स्वय प्रतिभासमानत्वमसिद्धमाचक्षाणाः सकल शेयस्य ज्ञानस्य च ज्ञानात्प्रतिभासमानत्वात्साधनस्य विरुद्धतामभिदधानाः प्रतिध्वस्ताः ज्ञान प्रकाशते बहिर्वस्तु प्रकाशत इति प्रतीत्या स्वयं प्रतिभासमानत्वस्य साधनस्य व्यवस्थापनात् । येत्वात्मा स्वयं प्रकाशत फलज्ञान चेत्यावेदयंति तेषामात्मनि फलज्ञाने वा स्वयं प्रतिभासमानत्वं सिद्धं सर्वस्य वस्तुनः प्रतिभासमानत्वं साधयत्येव । तथाहि विवादाध्यासितं वस्तु स्वयं प्रतिभासते प्रतिभास मानत्वात् । यद्यत्प्रतिभासमानं तत्तत्स्वयं प्रतिभासते यथा भट्टमतानुसारिणामात्मा प्रभाकरमतानु सारिणां वा फलज्ञानं । प्रतिभासमानं चांतर्बहिर्वस्तु ज्ञानज्ञेयरूपं विवादाध्यासितं तस्मात्स्वयं प्रतिभासते । न तावदत्र प्रतिभासमानत्वमसिद्धं सर्वस्य वस्तुनः सर्वथाऽप्यप्रतिभासमानस्य सद्भावविरोधात् । साक्षादसाक्षाच्च प्रतिभासमानस्य तु सिद्धं प्रतिभासमानत्वं ततो भवत्येव साध्यासिद्धिः । साध्याविनाभावनियमनिश्चयादिति निरवा पुरुषाद्वैतसाधन संवेदनाद्वैतवादिनोऽभीष्टहानये भवत्येव नहि कार्यकारणग्राह्यप्राहकवाच्यवाचकसाध्यसाधकबाध्यबाधकविशेषणीवशष्यभावनिराकरणात् संवेदनाद्वैतं व्यवस्थापयितुं शक्यं कार्यकारणभावादीनां प्रतिभासमानत्वात् । प्रतिभासमात्रांतःप्रविष्टानां निराकर्तुमशक्तेः स्वयमप्रतिभासमानानां तु संभवाभावात्संवृत्यापि व्यहारविरोधात् सकलविकल्पवाग्गोचरातिक्रांततापत्तेः । संवदनमात्रंचैकक्षणस्थायि यदि किंचित्कार्य न कुर्यात्तदा वस्त्वेव न स्यात् । वस्तुनोऽर्थक्रियाकारित्वलक्षणत्वात् । करोति चेत्कार्य कारणभावः सिध्येत् । तस्य हेतुमत्वेच स एवकार्यकारणभावः कारणरहितत्वे तु नित्यतापत्तिः । संवेदनस्य सतोऽकारणवतो नित्यत्वप्रसिद्धेरिति प्रतिभासमानात्मनः पुरुषतत्वस्यैव सिद्धिः स्यात् ।। किंच क्षणिकसंवेदनमात्रस्य गाह्यग्राह्यकवैधुर्य यदि केनचित्प्रमाणेन गृह्यते । तदा ग्राह्यग्राहकभावः कथं निराक्रियेत । न गृह्यते चेत्कुतो ग्राह्यग्राहकवैधुर्यसिद्धिः ? स्वरूपसंवेदनादेवेति चेत्तर्हि संवेदनाद्वैतस्य स्वरूपसंवेदनं ग्राहकं ग्राह्यग्राहकवैधुर्य तु ग्राह्यमिति स एव ग्राह्यग्राहकभावः ॥ स्यान्मतं " नान्योऽनुभाव्योबुध्द्याऽस्ति तस्यानानुभवोऽपरः ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशत " इति वचनान्न बुद्धेः किंचग्राह्यमस्ति नापि बुद्धिः कस्यचिद्माह्या स्वरूपेऽपि ग्राह्यग्राहकभावाभावात ‘स्वरूपस्य स्वतोगति' रित्येतस्यापि संवृत्याभिधानात् परमार्थतस्तु बुद्धिः स्वयं प्रकाशते चकास्ती