Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 65
________________ आप्तपरीक्षा | ५१ प्रतिभासमात्रांतः प्रवेशाभावात् । स्वयं प्रतिभासमानज्ञानविषयतया प्रतिभासमानतोपचारात् स्वयंप्रतिभास्यमानत्वेन व्यवस्थानात् । न च प्रतिभासमात्रमेव तद्भेदं प्रतिभासं जनयति तस्य तदंत: प्रविष्टस्य जन्यत्वविरोधात् । प्रतिभासमात्रस्य च जनकत्वायोगात् । नैकं स्वस्मात्प्रजायत इत्यपि सूक्तं । तथा कर्मद्वैतस्य फलद्वैतस्य लोकद्वैतस्य च विद्याविद्याद्वयवद्वंधमोक्षद्वयवच्च प्रतिभासमानप्रमाणविषयतया व्यवस्थितेः प्रतिभासमानस्यापि प्रमेयतया व्यवस्थितेः प्रतिभासमात्रांत: प्रवेशानुपपत्तेरभावापादनं वेदांतवादिनामनिष्ट । सूक्तमेव समंतभद्रस्वामिभिः तथा, हेतोरद्वैतसिद्धिः यदि प्रतिभासमान्त्रव्यतिरेकिणः प्रतिभासमानादपि यदीष्यते तदा हेतुसाध्ययोद्वैतं स्यादित्यपि सूक्तमेव पक्षहेतुदृष्टांतानां कुतश्चित्प्रतिभासमानानामपि प्रतिभासमात्रानुप्रवेशासंभवात् । एतेन हेतुना विनोपनिषद्वाक्यविशेषात्पुरुषाद्वैत सिद्धौ बाङ्मात्रात्कर्मकांडप्रतिपादकवाक्या द्वैतसिद्धिरपि किं न भवेत् । तस्योपनिषद्वाक्यस्य परमब्रह्मणोऽतः प्रवेशा सिद्धेः । एतेन वैशेषिकादिभिः प्रतिज्ञातपदार्थभेदप्रतीत्या पुरुषाद्वैतं बाध्यत एव तद्भेदस्य प्रत्ययविशेषात्प्रतिभासमानस्यापि प्रतिभासमात्रात्मकत्वासिद्धेः । कुतः परमपुरुष एव विश्वतत्त्वानां ज्ञाता मोक्षमार्गस्य प्रणेता व्यवतिष्ठते । तदेवमीश्वर कपिलसुगतब्रह्मणां विश्वतत्वज्ञतापायान्निर्वाणमार्गप्रणयनानुपपत्तेर्यस्य विश्वतत्त्वज्ञता कर्मभूभृतां भेत्तृता मोक्षमार्गप्रणेतृता च प्रमाणबलात्सिद्धा । सोऽन्नेव मुनींद्राणां वंद्यः समवतिष्ठते । तत्सद्भावे प्रमाणस्य निर्बाध्यस्य विनिश्वयात् ॥८७॥ किं पुनस्तत्प्रमाणमित्याह ततोंतरिततत्त्वानि प्रत्यक्षाण्यर्हतोऽजसा । प्रमेयत्वाद्यथास्मादृक् प्रत्यक्षार्थाः सुनिश्चिताः ॥ ८८ ॥ कानि पुनरंतरिततत्त्वानि देशाद्यंतरिततत्त्वानां सत्त्वे प्रमाणाभावान् ॥ नह्यस्मदादिप्रत्यक्षं तत्र प्रमाणं देशकालस्वभावाव्यबहित वस्तुविषयत्वात् । सत्संप्रयोग पुरुषस्योंद्रियाणां यद्बुद्धिजन्म तत्प्रत्यक्षमिति वचनात् ॥ नाप्यनुमानं तत्र प्रमाणं तदविनाभाविनो लिंगस्याभावात् ॥ नाप्यागमस्तदस्ति त्वे प्रमाणं तस्यापौरुषेयस्य स्वरूपे प्रामाण्यसंभवात् । पौरुषेयस्यासर्वज्ञप्रणीतस्य प्रामाण्यासंभवात् । पौरुषेयस्य सर्वज्ञप्रणीतस्य तु सर्वज्ञसाधनात्पूर्वमासिद्धेः ।। नाप्यर्थापत्तिः देश । द्यंतरिततत्वैर्विनाऽनुपपद्यमानस्य कस्यचिदर्थस्य प्रमाणषट्कप्रसिद्धस्यासंभवात् ॥ नचोपमानमंतरिततत्त्वास्तित्वे प्रमाणं तत्सदृशस्य कस्यचिदुपमानभूतस्यार्थस्यासिद्धेरुपमेयभूतांतरिततत्त्ववत् । तदुपलंभकप्रमाणपंचकाभावे च कुतोऽतरिततत्त्वानि सिध्येयुर्यतो धर्म्यसिद्धिर्न भवेत् ? धर्मिणश्चासिद्धौ हेतुराश्रयासिद्ध इति केचित् तेऽत्र न परीक्षकाः । केषांचित्स्फटिकाद्यंतरितार्थानामस्मदादिप्रत्यक्षतोऽस्तित्व सिद्धेः परेषां कुड्यादिदेशव्यवहितानामग्न्यादीनां तदविनाभाविनो धूमादिलिंगादनुमानात् कालांतरितानामपि भविष्यतां वृष्ट्यादीनांविशिष्टमेघोन्नतिदर्शनादस्तित्वसिद्धेः । अतीतानां पावकादीनां भस्मादिविशेषदर्शनात्प्रसिद्धेः । स्वभावांतरितानां तु करणशक्त्यादीनामर्थापत्त्या स्तित्वसिद्धेः । धर्मिणामंतरिततत्त्वानां प्रसिद्धत्वाद्धेतो श्वाश्रयासिद्धत्वानुपपत्तेः ॥ नन्वेवं धर्मिसिद्धावपि हेतोश्चाश्रयासिद्धत्वाभावेऽपि पक्षोऽप्रसिद्धविशेषणः स्यात् ॥ अर्हत्प्रत्यक्षत्वस्य साध्यधर्मस्य कचिदप्रसिद्धेरिति न मंतव्यं पुरुषविशेषस्याईतः संबद्धवर्तमानार्थेषु प्रत्यक्षत्वप्रवृत्तेरविरोधादईत्प्रत्यक्षस्य विशेषणस्य सिद्धौ विरोधाभावात् । तद्विराधे काचजैमिन्यादिप्रत्यक्ष विरोधापत्तेः ॥ ननु च संवृत्त्यांतरिततत्वान्यर्हतः प्रत्यक्षाणीति साधने सिद्धसाधनमेव निपुणप्रज्ञे तथोपचारप्रवृत्तेर निवारणादित्यपि नाशंकनीयमंजसेति वचनात् । परमार्थतोहांतरित

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182