________________
आप्तपरीक्षा |
५१
प्रतिभासमात्रांतः प्रवेशाभावात् । स्वयं प्रतिभासमानज्ञानविषयतया प्रतिभासमानतोपचारात् स्वयंप्रतिभास्यमानत्वेन व्यवस्थानात् । न च प्रतिभासमात्रमेव तद्भेदं प्रतिभासं जनयति तस्य तदंत: प्रविष्टस्य जन्यत्वविरोधात् । प्रतिभासमात्रस्य च जनकत्वायोगात् । नैकं स्वस्मात्प्रजायत इत्यपि सूक्तं । तथा कर्मद्वैतस्य फलद्वैतस्य लोकद्वैतस्य च विद्याविद्याद्वयवद्वंधमोक्षद्वयवच्च प्रतिभासमानप्रमाणविषयतया व्यवस्थितेः प्रतिभासमानस्यापि प्रमेयतया व्यवस्थितेः प्रतिभासमात्रांत: प्रवेशानुपपत्तेरभावापादनं वेदांतवादिनामनिष्ट । सूक्तमेव समंतभद्रस्वामिभिः तथा, हेतोरद्वैतसिद्धिः यदि प्रतिभासमान्त्रव्यतिरेकिणः प्रतिभासमानादपि यदीष्यते तदा हेतुसाध्ययोद्वैतं स्यादित्यपि सूक्तमेव पक्षहेतुदृष्टांतानां कुतश्चित्प्रतिभासमानानामपि प्रतिभासमात्रानुप्रवेशासंभवात् । एतेन हेतुना विनोपनिषद्वाक्यविशेषात्पुरुषाद्वैत सिद्धौ बाङ्मात्रात्कर्मकांडप्रतिपादकवाक्या द्वैतसिद्धिरपि किं न भवेत् । तस्योपनिषद्वाक्यस्य परमब्रह्मणोऽतः प्रवेशा सिद्धेः । एतेन वैशेषिकादिभिः प्रतिज्ञातपदार्थभेदप्रतीत्या पुरुषाद्वैतं बाध्यत एव तद्भेदस्य प्रत्ययविशेषात्प्रतिभासमानस्यापि प्रतिभासमात्रात्मकत्वासिद्धेः । कुतः परमपुरुष एव विश्वतत्त्वानां ज्ञाता मोक्षमार्गस्य प्रणेता व्यवतिष्ठते । तदेवमीश्वर कपिलसुगतब्रह्मणां विश्वतत्वज्ञतापायान्निर्वाणमार्गप्रणयनानुपपत्तेर्यस्य विश्वतत्त्वज्ञता कर्मभूभृतां भेत्तृता मोक्षमार्गप्रणेतृता च प्रमाणबलात्सिद्धा ।
सोऽन्नेव मुनींद्राणां वंद्यः समवतिष्ठते ।
तत्सद्भावे प्रमाणस्य निर्बाध्यस्य विनिश्वयात् ॥८७॥
किं पुनस्तत्प्रमाणमित्याह
ततोंतरिततत्त्वानि प्रत्यक्षाण्यर्हतोऽजसा । प्रमेयत्वाद्यथास्मादृक् प्रत्यक्षार्थाः सुनिश्चिताः ॥ ८८ ॥
कानि पुनरंतरिततत्त्वानि देशाद्यंतरिततत्त्वानां सत्त्वे प्रमाणाभावान् ॥ नह्यस्मदादिप्रत्यक्षं तत्र प्रमाणं देशकालस्वभावाव्यबहित वस्तुविषयत्वात् । सत्संप्रयोग पुरुषस्योंद्रियाणां यद्बुद्धिजन्म तत्प्रत्यक्षमिति वचनात् ॥ नाप्यनुमानं तत्र प्रमाणं तदविनाभाविनो लिंगस्याभावात् ॥ नाप्यागमस्तदस्ति त्वे प्रमाणं तस्यापौरुषेयस्य स्वरूपे प्रामाण्यसंभवात् । पौरुषेयस्यासर्वज्ञप्रणीतस्य प्रामाण्यासंभवात् । पौरुषेयस्य सर्वज्ञप्रणीतस्य तु सर्वज्ञसाधनात्पूर्वमासिद्धेः ।। नाप्यर्थापत्तिः देश । द्यंतरिततत्वैर्विनाऽनुपपद्यमानस्य कस्यचिदर्थस्य प्रमाणषट्कप्रसिद्धस्यासंभवात् ॥ नचोपमानमंतरिततत्त्वास्तित्वे प्रमाणं तत्सदृशस्य कस्यचिदुपमानभूतस्यार्थस्यासिद्धेरुपमेयभूतांतरिततत्त्ववत् । तदुपलंभकप्रमाणपंचकाभावे च कुतोऽतरिततत्त्वानि सिध्येयुर्यतो धर्म्यसिद्धिर्न भवेत् ? धर्मिणश्चासिद्धौ हेतुराश्रयासिद्ध इति केचित् तेऽत्र न परीक्षकाः । केषांचित्स्फटिकाद्यंतरितार्थानामस्मदादिप्रत्यक्षतोऽस्तित्व सिद्धेः परेषां कुड्यादिदेशव्यवहितानामग्न्यादीनां तदविनाभाविनो धूमादिलिंगादनुमानात् कालांतरितानामपि भविष्यतां वृष्ट्यादीनांविशिष्टमेघोन्नतिदर्शनादस्तित्वसिद्धेः । अतीतानां पावकादीनां भस्मादिविशेषदर्शनात्प्रसिद्धेः । स्वभावांतरितानां तु करणशक्त्यादीनामर्थापत्त्या स्तित्वसिद्धेः । धर्मिणामंतरिततत्त्वानां प्रसिद्धत्वाद्धेतो श्वाश्रयासिद्धत्वानुपपत्तेः ॥ नन्वेवं धर्मिसिद्धावपि हेतोश्चाश्रयासिद्धत्वाभावेऽपि पक्षोऽप्रसिद्धविशेषणः स्यात् ॥ अर्हत्प्रत्यक्षत्वस्य साध्यधर्मस्य कचिदप्रसिद्धेरिति न मंतव्यं पुरुषविशेषस्याईतः संबद्धवर्तमानार्थेषु प्रत्यक्षत्वप्रवृत्तेरविरोधादईत्प्रत्यक्षस्य विशेषणस्य सिद्धौ विरोधाभावात् । तद्विराधे काचजैमिन्यादिप्रत्यक्ष विरोधापत्तेः ॥ ननु च संवृत्त्यांतरिततत्वान्यर्हतः प्रत्यक्षाणीति साधने सिद्धसाधनमेव निपुणप्रज्ञे तथोपचारप्रवृत्तेर निवारणादित्यपि नाशंकनीयमंजसेति वचनात् । परमार्थतोहांतरित