________________
सनातनजैन ग्रंथमालायांभासते प्रतिभासविषयो भवतीत्युच्यते न चैवं प्रतिभासमात्रे तस्यानुप्रवेशः सिध्येत् परमार्थतः संवे. दनस्यव स्वयं प्रतिभासमानत्वात् ।। स्यान्मतं न सत्तासामाम्यं प्रतिभासमात्रं तस्य द्रव्यादिमात्रव्यापक. त्वात् सामान्यादिषु प्रागभावादिषु चाभावात् किं तार्ह सकलभावाभावव्यापकं प्रतिभाससामान्यं प्रतिभासमात्रमभिधीयते इति । तदपि न सम्यक् प्रतिभाससामान्यस्य प्रतिभासविशेषनांतरीयकत्वात्प्रतिभासाद्वैतविरोधात् संतोऽपि प्रतिभासविशेषाः सत्यतां न प्रतिपद्यते संवादकत्वाभावात्स्वप्नादिप्रतिभासविशेषवदिति चेन्न प्रतिभाससामान्यस्याप्यसत्यत्वप्रसंगात् शक्यं हि वक्तुं प्रतिभाससामान्यमसत्यं विसंवाद. कत्वात् स्वप्नादिप्रातिभाससामान्यवदिति ।। न हि स्वप्नादिप्रतिभासविशेषाएव विसंवादिनो न पुनः प्रतिभाससामान्यं तव्यापकमिति वक्तुं युक्तं शशविषाणगगनकुसुमकूर्मरोमादीनामसत्वेऽपि तद्व्यापक सामान्यस्य सत्त्वप्रसंगात् । कथमसतां व्यापकं कित्सित्स्यादितिचत्कथमसत्यानां प्रतिभासविशेषाणां व्यापकं प्रतिभाससामान्यं सत्यमिति समो वितर्कः । तस्य सर्वत्र सर्वदा सर्वथा वा विच्छेदात् सत्यं तदितिचेन्न एवं देशकालाकारविशिष्टस्यैब तस्य सत्यत्वसिद्धः । सर्वदेशविशेषरहितस्य सर्वकाल विशेषरहितस्य च सर्वाकारविशेषरहितस्यैव सर्वत्र सर्वथा सर्वदेति विशेषयितुमशक्तेः । तथा च प्रतिभाससामान्यं सकलदेशकालाकारविशेषविशिष्टमभ्युपगच्छन्नेव वेदांतवादी स्वयमेकद्रव्यमनंतपर्यायं पारमार्थिकमितिप्रतिपत्तुमर्हति प्रमाणबलायातत्वात् तदेवास्तु परमपुरुषस्यैव बोधमयप्रकाश. विशदस्य मोहान्धकारापहस्यांतर्यामिनः सुनिर्णीतत्वात् तत्र संशयानां प्रतिघातात्सकललोकोद्योतनसमथस्य तेजोनिधेरंशुमालिनोऽपि तस्मिन् सत्येव प्रतिभासनात्, असति चाप्रतिभासनादिति कश्चित् तदुक्तं " यो लोकान् ज्वलयत्यनल्पमहिमा सोऽप्येष तेजोनिधिर्यस्मिन्सत्यवभाति नासति पुनर्देवोंऽशुमाली स्वयं । तस्मिन्बोधमयप्रकाशविशदे मोहांधकारापहे येऽतयामिनि पूरुषे प्रतिहताः संशरते ते हताः ॥ इति । तदपि न पुरुषाद्वैतव्यवस्थापनपरमाभासते तस्यांतर्यामिनः पुरुषस्य बोधमयप्रकाश विशदस्यैव बोध्यमयप्रकाश्यस्यासंभवानुपपत्तेः । यदि पुनः सर्व बोध्यं बोधमयमेव प्रकाशमानत्वा. द्वोधस्वात्मवदिति मन्यते तदा बोधस्यापि बोध्यमयत्वापत्तिरिति पुरुषाद्वैतमिच्छतो बोध्याद्वैतसिद्धिः । बोधाभावे कथं बोध्यसिद्धिरिति चेद्वोध्याभावेऽपि बोधसिद्धिः कथं ? बोध्यनांतरीयकत्वाद्बोधस्य । स्वप्नंद्रजालादिषु बोध्याभावेऽपि बोधसिद्धेन बोध्यनांतरीयकोबोध इति चेन्न तत्रापि बोध्यसामान्यसद्भाव एव बोधोपपत्तः । न हि संशयस्वप्नादिबोधोऽपि बोध्यसामन्यं व्याभिचरति बोध्यविशेषेस्वेव तस्य व्यभिचाराद्धांतत्वसिद्धेः । न च सर्वस्य बोध्यस्य स्वयंप्रकाशमानं सिद्धं स्वयं प्रकाशमानबोधविषय तया तस्य तथोपचारात्स्वयं प्रकाशमानांशुमालिप्रभाभारविषयभूतानां लोकानां प्रकाशमानोपचारवत् ततो यथा लोकानां प्रकाश्यानामभावे न तानंशुमाली ज्वलयितुमलं तथा बोध्यानां नीलसुखादीनामभावे न बोधमयप्रकाशविशदोंऽतर्यामी तान् प्रकाशयितुमीश इति प्रतिपत्तव्यं । तथाचांत: प्रकाशमानानंतपर्यायैकपुरुषद्रव्यवत्, बहिःप्रकाश्यानंतपर्यायैकाचेतनद्रव्यमपि प्रतिज्ञातव्यमिति चेतनाचेतनद्रव्यद्वैतसिद्धिः । न पुरुषाद्वैतसिद्धिः संवेदनाद्वैतसिद्धिवत् । चेतनद्रव्यस्य च सामान्यादेशादेकत्वेऽपि विशेषादेशादनेकत्वं संसारिमुक्तविकल्पात् । सर्वथैकत्वे सकृतद्विरोधात् । अचेतनद्रव्यस्य सर्वथैकत्वे मूर्तामूर्तद्रव्यविरोधवत् । मूर्तिमदचेतनद्रव्यं हि पुद्गलद्रव्यमनेकभेदं परमाणुस्कंधविकल्पात् पृथिव्यादिविकल्पाच्च धर्माधर्माकाशकालविकल्पममूर्तिमद्रव्यं चतुर्धा चतुर्विधकार्यविशेषानुमेयमिति द्रव्यस्य षड्विधस्य प्रमाणबलात्तत्वार्थालंकारैः समर्थनात् । तत्पर्यायाणां चातीतानागतवर्तमानानंतार्थव्यंजनविकल्पानां सामान्यतः सुनिश्चितासंभवद्भाधकप्रमाणात्परमागमात्प्रसिद्धेः । साक्षात्केवलज्ञानविषयत्वाच्च न द्रव्यकांतसिद्धिः पर्यायैकांतसिद्धिर्वा । नचैतेषां सर्वद्रव्यपर्यायाणां केवलज्ञाने प्रतिभासमानानामपि प्रतिभासमात्रांतः प्रवेशः सिध्यत् विषयविषयिभेदाभावे सर्वाभावप्रसंगात् निर्विषयस्य प्रतिभासस्यासंभवान्निःप्रतिभासस्य विषयस्य वाऽव्यवस्थानात् । ततश्चाद्वैतकांत कारकाणां कर्मादीनां क्रियाणां परिस्पंदुलक्षणानां धात्वर्थलक्षणानां च दृष्टो भेदो विरुध्यत एव तस्य प्रतिभासमानस्यापि