________________
आप्तपरीक्षा ।
पुल स्यापि वस्तुत्वसिद्धेः । नहि यो यद्देशतया प्रतिभासविशेषः स तद्देशतां व्यभिचरति । अन्यथा भ्रांतत्वप्रसंगात् । शाखा देशतया चंद्रप्रतिभासवत् ॥ नापि यो यत्कालतया प्रतिभासविशेषः स तत्कालतां व्यभिचरति । तद्व्यभिचारिणोऽसत्यत्वव्यवस्थानान्निशि मध्यंदिनतया स्वप्नप्रतिभासविशेषबत् । नापि यो यदाकारतया प्रतिभासविशेषः स तदाकारतां विसंवदति तद्विसंवादिनो मिथ्याज्ञानत्वसिद्धेः । कामलाद्युपहतचक्षुषः शुले शंखे पीत । कारतः प्रतिभासविशेषवत् । न च वितथैर्देशकालाकारव्यभिचारिभिः प्रतिभासविशेषैः सदृशा एव देशकालाकाराव्यभिचारिणः प्रतिभासविशेषाः प्रतिलक्षयितुं युज्यंते यत इदं वेदांतवादिनां वचनं शोभेत “आदावंते च यन्नास्ति वर्तमानेऽपि तत्तथा । वितथैः सदृशाः संतोऽवितथा एव लक्षिताः” इति तेषामवितथानामादावंते वासत्वेऽपि वर्तमाने सत्त्वप्रसिद्धेर्बाधकप्रमाणाभावात् ॥ नहि यथा स्वप्नादिभ्रांत प्रतिभासविशेषेषु तत्कालेऽपि बाधकं प्रमाणमुदेति तथा जामद्दशायामभ्रांतप्रतिभासविशेषेषु तत्र साधकप्रमाणस्यैव सद्भावात् । सभ्यङ्मया तदा दृष्टोऽर्थोऽर्थक्रियाकारित्वात् तस्य मिध्यात्वेऽर्थक्रियाकारित्वविरोधात् इंद्रजालादिपरि दृष्टार्थवदिति नच भ्रांतेतरव्यवस्थायां चांडालादयोऽपि विप्रतिपद्यते तथा चोक्तमकलंकदेवैः "इंद्रजालादिषु भ्रांत मीरयंति न चापरं । अपि चांडालगोपालबाललोलविलोचना " इति ॥ किंच सत्प्रतिभासमान्त्रं सामान्यरूपं द्रव्यरूपं वा ? प्रथमपक्षे सत्तामात्रमेव स्यात् तस्यैव परसामान्यरूप तया प्रतिष्ठानात् तस्य स्वयं प्रतिभासमानत्वे प्रतिभासमात्रमेव तस्वमन्यथा तद्व्यवस्थितेरितिचेन्न सत्सदित्यन्चयज्ञानविषयत्वात् सत्तासामान्यस्य व्यवस्थितेः स्वयं प्रतिभासमानत्वासिद्धेः । प्रतिभासत इति तु विषये विषयिधर्मस्योपचारात् प्रतिभासमानं हि विषयिणो ज्ञानस्य धर्मः स विषये सत्तासामान्येऽघ्यारोप्यते तदध्यारोपनिमित्तं तु प्रतिभासमानं क्रियाधिकरणत्वं । यथैव हि संविप्रतिभासते इति कर्तृस्था प्रतिभासनक्रिया तथा तद्विषयस्थाप्युपचर्यते सकर्मकस्य धातोः कर्तृकर्म स्थ क्रियार्थत्वात् यथोदनं पचतीति पचनक्रिया पाचकस्था पाच्यमानस्था च प्रतीयते तद्वदकर्मकस्य धातोः कर्तृस्थक्रियामान्घ्रार्थत्वात् परमार्थतः कर्मस्थक्रियाऽसंभवात्कर्तृस्था क्रिया कर्मण्युपचर्यते ॥ ननु च सति मुख्ये स्वयं प्रतिभासमाने कस्यश्चित् प्रमाणतः सिद्धे परत्र तद्विषये तदुपचारकल्पना युक्ता यथाSH दाहपाकाद्यर्थकियाकारिणि तद्धर्मदर्शनान्माणवके तदुपचारकल्पनाऽग्निर्माणवक इति । न च किंचित्संवेदनं स्वयं प्रतिभासनं सिद्धं संवेदनांतरसंवेद्यत्वात् । संवेदनस्य क्वचिदवस्थानाभावात् । सुदूरमपि गत्वा कस्यचित्संवेदनस्य स्वयं प्रतिभासमानस्यानभ्युपगमात् कथं तद्धर्मस्योपचारस्तद्विषये घटेतेति कच्चित् । सोऽपे ज्ञानांतरवेद्यज्ञानवादिनमुपालभतां परोक्षज्ञानवादिनं वा ॥ ननु च परोक्ष ज्ञानवादी भट्टस्तावन्नोपलं भाईः स्वयंप्रतिभासनानस्यात्मनस्तेनाभ्युपगमात् तद्धर्मस्य प्रतिभासमानस्य विषयेषूपचारघटनात् ॥ घटः प्रतिभासते, घटादयः प्रतिभांसत इति घटपटादिप्रतिभासनाम्यथानुपपत्या च करणभूतस्य परोक्षस्यापि ज्ञानस्य प्रतिपत्तेरविरोधात् रूपप्रतिभासनाच्चक्षुः प्रतिपत्तिवत् ॥ तथा करणज्ञानमात्मानं चाप्रत्यक्षं वदन् प्राभाकरोऽपि नोपालंभमईति फलज्ञानस्य स्वयं प्रतिभासमानस्य सेन प्रतिज्ञानात् तद्धर्मस्य विषयेषूपचारस्य सिद्धेः । फलज्ञानं च कर्तृकरणाभ्यां विना नोपपद्यत इति । तदेव कर्तारं करणज्ञानं च प्रत्यक्षमपि व्यवस्थापयति यथा रूपे प्रतिभासनक्रिया फलरूपा चक्षुष्मंतं चक्षुश्च प्रत्यापयतीति केचिन्मन्यते तेषामपि भट्टमतानुसारिणामात्मनः स्वरूपपरिच्छेदेऽर्थपरिच्छेदस्यापि सिद्धेः । स्वार्थपरिच्छेदकपुरुषप्रसिद्धौ ततोऽन्यस्य परोक्षज्ञानस्य कल्पना न किंचिदर्थे पुष्णाति । प्रभाकरमतानुसारिणां फलज्ञानस्य स्वार्थपरिच्छित्तिरूपस्य प्रसिद्धौ करणज्ञानकल्पनावत् । कर्तुः करणमंत रेण क्रियायां व्यापारानुपपत्तेः परोक्षज्ञानस्य करणस्य कल्पनानानार्थकेति चेन्न मनसश्चक्षुरादेश्चांतर्बहि:परिच्छित्तौ करणस्य सद्भावात् ततो बहिर्भूतस्य करणांतरस्य कल्पनायामनवस्थाप्रसंगात् ततः खार्थ परिच्छेदकस्य पुंसः फलज्ञानस्य वा स्वार्थपरिच्छित्तिस्वभावस्य प्रसिद्धौ स्याद्वादिदर्शनस्यैव प्रसिद्धेः । स्वयं प्रतिभासमानस्यात्मनो ज्ञानस्य वा धर्मः कचित्तद्विषये कथंचिदुपचर्य्यत इति सत्तासामान्यं प्रति