________________
५२
सनातनजैन ग्रंथमालायां
तत्वानि प्रत्यक्षाण्यर्हतः साध्यंते न पुनरुपचारतो यतः सिद्धसाधनमनुमन्यते ॥ तथापि हतोर्विपक्षवृत्तेरनैकांतिकत्वमित्याशंकायामिदमाह -
हेतोर्न व्यभिचारोऽत्र दूरार्थेर्मंदरादिभिः ।
सूक्ष्मैर्वा परमाण्वाद्यैस्तेषां पक्षीकृतत्वतः ॥ ८९ ॥
नहि कानिचिद्देशांतरितानि कालांतरितानि वा तत्वानि पक्षबहिर्भूतानि संति यतस्तत्र वर्तमानः प्रमेयत्वादिति हेतुर्व्यभिचारी स्यात् तादृशां सर्वेषां पक्षीकरणात् । तथाहितत्त्वान्यंतरितानीह देशकालखभावतः ।
धर्मादीनि हि साध्यते प्रत्यक्षाणि जिनेशिनः ॥ ९० ॥
यथैवहि धर्माधर्मतत्त्वानि कानिचिदेशांतरितानि देशांतरितपुरुषाश्रयत्वात् । कानिचित्कालतरितानि कालांतरितप्राणिगणाधिकरणत्वात् । कानिचित्स्वभावांतरितानि देशकालाव्यवहितानामपि तेषां स्वभावतोऽतींद्रियत्वात् । तथा हिमवन्मंदरम कराकरादीन्यपि देशांतरितानि नष्टानुत्पन्नानंतपर्यायतत्त्वानि च कालांतरितानि, स्वभावांतरितानि च परमाण्वादीनि, जिनेश्वरस्य प्रत्यक्षाणि साध्यं न च पक्षीकृतैरेव व्यभिचारोद्भावनं युक्तं सर्वस्यानुमानस्य व्यभिचारित्वप्रसंगात् ॥ ननु माभूव्यभिचारी हेतुः दृष्टांतस्तु साध्यविकल इत्याशंकामपहर्तुमाह -
न चास्मादृक्समक्षाणामेवमर्हत्समक्षता ।
न सिध्येदिति मंतव्यमविवादाद्वयोरपि ॥ ९१ ॥
येह्यस्मादृशां प्रत्यक्षाः संबद्धा वर्तमानाश्चार्थास्ते कथमद्दतः पुरुषविशेषस्य प्रत्यक्षाः न स्युस्तद्देशकालवर्तिनः पुरुषांतरस्यापि तदप्रत्यक्षत्वप्रसंगात ततो न स्याद्वादिन इव सर्वज्ञाभाववादिनाऽप्यत्र विवदते । वादिप्रतिवादिनोरविवादाश्च साध्यसाधनधर्मयोदृष्टांतेन च न साध्यवैकल्यं साधनवैकल्यं वा यतोऽनन्वयहेतुः स्यात् ॥ नन्वतींद्रियप्रत्यक्षतोऽतरिततत्त्वानि प्रत्यक्षाण्यर्हतः साध्यंते किंचेंद्रिय - प्रत्यक्षत इति संप्रधार्य । प्रथमपक्षे साध्यविकलो दृष्टांतः स्यात् । अस्मादृक्प्रत्यक्षाणामर्थानामतींद्रियप्रत्यक्षतोऽर्हृत्प्रत्यक्षत्वासिद्धेः । द्वितीयपक्षे प्रमाणबाधितः पक्षः, इंद्रियप्रत्यक्ष तो धर्माधर्मादीनामंतरिततत्वानामत्प्रत्यक्षत्वस्य प्रमाणबाधितत्वात् । तथाहि नार्हदिद्रियप्रत्यक्षं धर्मादीन्यंतरिततत्वानि साक्षात्कर्तुं समर्थमिंद्रियप्रत्यक्षत्वादस्मदादींद्रियप्रत्यक्षवत् इत्यनुमानं पक्षस्य बाधकं न चात्र हेतोः सांजनचक्षुः प्रत्यक्षेणानैकांतिकत्वं । तस्यापि धर्माधर्मादिसाक्षात्कारित्वाभावात् नापीश्वरोंद्रियप्रत्यक्षेण तस्यासिद्धत्वात्स्याद्वादिनामिव मीमांसकानामपि तदप्रसिद्धेरितिच न चोद्यं । प्रत्यक्षसामान्यतोऽईत्यक्षत्वसाधनात् । सिद्धेवांतरितत्वानां सामान्यतोईत्प्रत्यक्षत्वे धर्मादिसाक्षात्कारिणः प्रत्यक्षस्य सामर्थ्यादतींद्रियप्रत्यक्षत्व सिद्धेः । तथा दृष्टांतस्य साध्यवैकल्य दोषानवकाशात् कथमन्यथाभिप्रेतानुमानेऽप्ययं दोषो न भवेत् । तथाहि नित्यः शब्दः प्रत्यभिज्ञायमानत्वात्पुरुषवदिति । अत्र कूटस्थनित्यस्वं साध्यते कालांतरस्थायिनित्यत्वं वा ? प्रथमकल्पनायामप्रसिद्धविशेषणः पक्षः कूटस्थनित्यत्वस्य कचिदन्यत्राप्र सिद्धेस्तत्र प्रत्यभिज्ञानस्यैवासंभवात् पूर्वापरपरिणामशून्यत्वात्प्रत्यभिज्ञानस्य पूर्वोत्तरपरिणाम व्यापिन्येक न वस्तुनि सद्भावात् । पुरुषे च कूटस्थनित्यत्वस्य साध्यस्याभावात्तस्य सातिशयत्वात् साध्यशून्यो दृष्टांतः द्वितीयकल्पनायां तु स्वमतविरोधः । शब्दे कालांतरस्थायिनित्यत्वस्यानभ्युपगमात् । यदि पुनर्नित्यत्वसामान्यं साध्यते सातिशयेतर नित्यत्वाविशेषस्य साधयितुमनुपक्रांतस्वादिति मतं तदांतरिततवानां प्रत्यक्ष सामान्यतोऽर्हत्प्रत्यक्षतायां साध्यायां न किंचिद्दोषमुत्पश्यामः इति नाप्रसिद्धविशेषणः पक्षः साध्यशून्यो वा दृष्टांतः प्रसज्यते । सांप्रतं हेतोः स्वरूपासिद्धत्वं प्रतिषेधयन्नाह -