________________
भाप्तपरीक्षा। नचासिद्धं प्रमेयत्वं कात्य॑तो भागतोपि वा। सर्वथाप्यप्रमेयस्य पदार्थस्याव्यवस्थितेः ॥९२॥ यदि षड्भिः प्रमाणःस्यात्सर्वज्ञः केन वार्यते । इति ब्रुवन्नशेषार्थप्रमेयत्वमिहेच्छति ॥९३॥ चोदनातश्च निःशेषपदार्थज्ञानसंभवे ।
सिद्धमंतरितार्थानां प्रमेयत्वं समक्षवत् ॥९४॥ सोऽयं मीमांसकः प्रमाणवलात्सर्वस्यार्थस्य व्यवस्थामभ्युपयन् षड्भि प्रमाणैः समस्तार्थना वा निवारयन् चोदनातो हि भूतं भवंतं भविष्यतं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवं जातीयकमर्थमवगमयितुमलमिति स्वयं प्रतिपाद्यमान: सूक्ष्मांतरितदूरार्थानां प्रमेयत्वमस्मत्प्रत्यक्षार्थानामिव कथमपळुवीत यतः साकल्येन प्रमेयत्वं पक्षव्यापकमसिद्धं ब्रूयात् । ननु च प्रमातर्यात्मनि, करणे च ज्ञाने, फले च प्रमितिक्रियालक्षणे, प्रमेयत्वासंभवात् कर्मतामापन्नेष्वेवार्थेषु प्रमेयेषु भावाद्भागासिद्धं साधनं पक्षाव्यापकत्वादिति चेन्नैतदेव प्रमातुरात्मनः सर्वथाप्यप्रमेयत्वे प्रत्यक्षत इवानुमानादपि प्रमीयमाणत्वाभावप्रसंगात् प्रत्यक्षेण हि कर्मतयाऽऽत्मा न प्रतीयते इति प्रभाकरदर्शनं । न पुनः सर्वेणापि प्रमाणेन, तब्यवस्थापनविरोधात् । करणज्ञानं च प्रत्यक्षतः कर्मत्वेनाप्रतीयमानमपि घटाद्यर्थपरिच्छित्त्यन्यथानुपपत्यानुमीयमानं न सर्वथाप्यप्रमेयं ज्ञातेत्यनुमानादवगच्छति बुद्धिमिति भाष्यकारसंबरवचनविरोधात् फलज्ञानं च प्रमितिलक्षणं स्वसंवेदनप्रत्यक्षमिच्छतः कार्यानुमेयं च कथमप्रमेयं सिद्ध्येत् । एतेन करणज्ञानस्य फलज्ञानस्य च परोक्षत्वमिच्छतोऽपि भट्टस्यानुमेयत्वं सिद्धं बोद्धव्यं । घटाद्यर्थप्राकट्येनानुमीयमानस्य सर्वस्य ज्ञानस्य कथंचित्प्रमेयत्वसिद्धेः । ततो नांतरिततत्त्वेषु धर्मिषु प्रमेयत्वं साधनमसिद्धं । वादिन इव प्रतिवादिनोऽपि कथंचित्तत्र प्रमेयत्वप्रसिद्धेः संदिग्धव्यतिरेकमप्येतन्न भवतीत्याह
यन्नार्हतःसमक्षं तन्नप्रमेयं बहिर्गतः ।
मिथ्यकांतो यथेत्येवं व्यतिरेकोपि निश्चितः ॥९५॥ मिथ्र्यकांतज्ञानानि हि निःशेषाण्यपि परमागमानुमानाभ्यामस्मदादीनां प्रमेयाणि च प्रत्यक्षाणि चाईत इति न विपक्षतां भजते तद्विषयास्तु परैरभिमन्यमानाः सर्वथैकांता निरन्वयक्षणिकत्वादयो नाहत्प्रत्यक्षा इति ते विपक्षा एव नच ते कुतश्चित्प्रमाणात्प्रमीयत इति न प्रमेयास्तेषामसत्त्वात् । ततो ये नाईतः प्रत्यक्षास्ते न प्रमेया यथा सर्वथैकांतज्ञानविषया इति साध्यव्यावृत्तौ साधनव्यावृत्तिनिश्चया निश्चितव्यतिरेकं प्रमेयत्वं साधनं निश्चितान्वयं च प्रमेयत्वं समर्थितं ततो भवत्येव साध्यसिद्धिरित्याह
सुनिश्चितान्वयाखेतोः प्रसिद्धव्यतिरेकतः।
ज्ञाताईन् विश्वतत्त्वानामेवं सिध्येदबाधितः ॥९६॥ ननु च सूक्ष्मांतरितदूरार्थानां विश्वतत्त्वानां साक्षात्कर्ताऽहन्न सिद्ध्यत्येवास्मादनुमानात् पक्षस्य प्रमाणबाधितत्वाद्धेतोश्च वाधितविषयत्वात् । तथाहि देशकालस्वभावांतरितार्था धर्माधर्मादयोऽर्हतः प्रत्यक्षा इति पक्षः स चानुमानेन बाध्यते धर्मादयो न कस्यचित्प्रत्यक्षाः शश्वदत्यंतपरोक्षत्वात् ये तु कस्यचित्प्रत्यक्षास्ते नात्यंतपरोक्षाः यथा घटादयोऽर्थाः अत्यंतपरोक्षाश्च धर्मादयस्तरस्मान्न कस्यचित्प्रत्यक्षा इति । न तावदत्यतपरोक्षत्वं धर्मादीनामसिद्धं कदाचित्कचित्कथञ्चित्कस्यचित्प्रत्यक्षत्वासिद्धेः सर्वस्य प्रत्यक्षस्य तद्विषयत्वाभावात् । तथाहि विवादाध्यासितं प्रत्यक्षं न धर्माचर्थविषयं प्रत्यक्षशब्दवाच्य