________________
सनातनजैनग्रंथमालायांत्वाद्यदित्थं तदित्थं यथास्मदादिप्रत्यक्षं प्रत्यक्षशब्दवाच्यं च विवदाध्यासितं तत्प्रत्यक्षं तस्मान्न धर्माद्यर्थविषयं इत्यनुमानेन धर्माद्यर्थविषयस्य प्रत्यक्षस्य निराकरणात् न चेदमस्मदादिप्रत्यक्षागोचरविप्रकृष्टार्थप्राहि गृद्धवराहपिपीलिकादिचक्षुःश्रोत्रघ्राणप्रत्यक्षर्व्यभिचारि साधनं तेषामपि धर्मादिसूक्ष्माद्यर्थाविषयत्वादस्मदादिप्रत्यक्षविषयसजातीयार्थग्रहणानतिक्रमात्स्वविषयस्यैवेंद्रियेण ग्रहणादिद्रियांतरविषयस्यापरिच्छित्तेः । ननु च प्रज्ञामेधास्मृतिश्रुत्यूहापोहप्रबोधशक्तीनां प्रतिपुरुषमतिशयदर्शनात्कस्यचित्सातिशयं प्रत्यक्षं सिध्यत्परां काष्ठामापद्यमानं धर्मादिसूक्ष्माद्यर्थसाक्षात्कारि संभाव्यतएव । इत्यपि न मंतव्यं । प्रज्ञामेधादिभिः पुरुषाणां स्तोकस्तोकांतरत्वेन सातिशयस्वदर्शनात् । कस्यचिदतींद्रियार्थदर्शनानुपलब्धः । तदुक्तं भट्टेन “येऽपि सातिशया दृष्टाः प्रज्ञामेधादिभिर्नराः । स्तोकस्तोकांतरत्वन न त्वतींद्रियदर्शनादिति” । ननु च कश्चित्प्रज्ञावान्पुरुषः शास्त्रविषयान् सूक्ष्मानानुपलब्धुं प्रभुरुपलभ्यते तद्वत्प्रत्यक्षताऽपि धर्मादिसक्ष्मानर्थान् साक्षात्कत क्षमः किमिति न संभाव्यते ? ज्ञानातिशयानां नियमयितुमशक्तरित्यपि न चेतसि निधेयं । तस्य स्वजात्यनतिक्रमेणैव निरतिशयोपपत्तेः । नहि सातिशयं व्याकरणमति दूरमपि जानानो नक्षत्रग्रहचक्रातिचारादिनिर्णयेन ज्योतिःशास्त्रविदोऽतिशेते तद्बुद्धेः शब्दापशब्दयोरेव प्रकर्षापपत्तेः । वैयाकरणांतरातिशायनस्यैव संभवात् । ज्योतिर्विदोऽपि चंद्रार्कग्रहणादिषु निर्णयेन प्रकर्ष प्रतिपद्यमानस्यापि न भवत्यादिशब्दसाधुत्वज्ञानातिशयेन वैयाकरणातिशायित्वमुत्प्रेक्षते तथा वेदेतिहासादिज्ञानाविशयवतोऽपि कस्यचिन्न स्वर्गदेवताधर्माधर्मसाक्षात्करणमुपपद्यते एतदभ्यधायि “एकशास्त्रपरिज्ञाने दृश्यतेऽतिशयो महान् । नतु शास्त्रांतरज्ञानं तन्मात्रेणैव लभ्यते । ज्ञात्वा व्याकरणं दूरं बुद्धिः शब्दापशब्दयोः । प्रकृष्यते न नक्षत्रतिथिग्रहणनिर्णये । ज्योर्तिविच्च प्रकृष्टोऽपि चंद्रार्कग्रहणादिषु । न भवत्यादिशब्दानां साधुत्वं ज्ञातुमर्हति । तथावदेतिहासादिज्ञानातिशयवानपि । न स्वर्गदेवताऽपूर्वप्रत्यक्षीकरणे क्षम" इति । एतेन यदुक्तं सर्वज्ञवादिना ज्ञानं कचित्पर काष्ठां प्रतिपद्यते प्रकृष्यमाणत्वात् यद्यत्प्रकृष्यमाणं तत्तत्कचित्पराकाष्टी प्रतिपद्यमानं दृष्टं यथा परिमाणमापरमाणोः प्रकृष्यमाण नभसि, प्रकृष्यमाणं च ज्ञानं तस्मात्कचित्परां काष्ठां प्रतिपद्यत इति । तदपि प्रत्याख्यातं ज्ञानं हि धर्मिस्वेनोपादीयमानं प्रत्यक्षज्ञानं, शास्त्रार्थज्ञानमनुमानादिज्ञानं, वा भवेद्गत्यंतराभावात् तत्रंद्रियप्रत्यक्षं प्रतिप्राणिविशेष प्रकृष्यमाणमपि स्वविषयानतिक्रमेणैव परां काष्टा प्रतिपद्यते गृवराहादींद्रियप्रत्यक्षज्ञानवत । न पुनरतींद्रियार्थविषयत्वेनेति प्रतिपादनात् । शास्त्रार्थज्ञानमपि व्याकरणादि विषयं प्रकृष्यमाणं परां काष्ठामुपव्रजन्न शास्त्रांतरविषयतया धर्मादिसाक्षात्कारितया वा तामास्तिध्नुते तथाऽनुमानादिज्ञानमपि प्रकृष्यमाणमनुमेयादिविषयतया पराकाष्ठामास्कंदेत् । न पुनस्तद्विषयसक्षाकारितया । एतेन ज्ञानसामान्यं धर्म कचित्परमप्रकर्षमियति प्रकृष्यमाणस्वात् परमाणुवदिति वदन्नपि निरस्तः । प्रत्यक्षादिज्ञानव्यक्तिध्वन्यतमज्ञानव्यक्तेरेव परमप्रकर्षगमनसिद्धेस्तव्यतिरेकेण ज्ञानसामान्यस्य प्रकर्षगमनानुपपत्तेस्तस्य निरतिशयत्वात् । यद्यपि केनचिदभिधीयते श्रुतज्ञानमनुमानज्ञानं वाऽभ्यस्यमानमभ्याससात्मीभावे तदर्थसाक्षात्कारितया परांदशामासदयति तदपि स्वकीयमनोरथमात्रं कचिदभ्याससहस्रेणापि ज्ञानस्य स्वविषयपारोच्छित्तौ विषयांतरपरच्छित्तेरनुपपत्तेनहि गगनसलोत्प्लवनमभ्यस्यतोऽपि कस्यचित्पुरुषस्य योजनशतसहस्रोप्लवनं लोकांतोत्प्लवनं वा संभाव्यते तस्या दशहस्तांतरीत्प्लवनमात्रदर्शनात्तदप्युक्तं “दशहस्तांतरं ब्योनि योनामोस्लुत्य गच्छति न योजनमसौ गन्तुं शक्तोऽभ्यासशतैरपि” इत्यत्राभिधीयते यत्तावदुक्तं विवादाध्यासितं च प्रत्यक्षं न धर्मादि सक्ष्माद्यर्थविषयं प्रत्यक्षशब्दवाच्यत्वादस्मदादिप्रत्यक्षवदिति तत्र किमिदं प्रत्यक्षं, सत्संप्रयोगे पुरुषस्येंद्रियाणां बुद्धिजन्मप्रत्यक्षमिति चेत्तार्ह विवादाध्यासितस्य प्रत्यक्षस्यैतत्प्रत्यक्षविलक्षणत्वात् प्रत्यक्षशब्दवाच्यत्वेऽपि न धर्मादिसूक्ष्माद्यर्थविषयत्वाभावःसिध्यति यादृशं हींद्रियप्रत्यक्षं प्रत्यक्षशब्दवाच्यं धर्माद्यर्थासाक्षात्कारि दृष्टं तादृशमेव देशांतरे कालांतरे च विवादाध्यासितं प्रत्यक्षं तथा साधयितुं युक्तं तथाविधप्रत्यक्षस्यैव धर्माद्यविषयत्वस्य साधने प्रत्यक्षशब्दवाच्यस्य हेतोर्गमकत्वोपपत्तेः । तस्य