________________
आप्तपरीक्षा ।
तैनाविनाभावनियमनिश्चयात् न पुनस्तद्विलक्षणस्यात्प्रत्यक्षस्य धर्मादि सूक्ष्माद्यर्थविषयत्वाभावः साधयितुं शक्यस्तस्य तद्गमकत्वादविनाभावनियमनिश्चयानुपपत्तेः शब्दसाम्येऽप्यर्थभेदात्, कथमन्यथा विषाणिनी वाग् गोशब्दवाच्यस्वात्पशुवदित्यनुमानं गमकं न स्यात् । यदि पुनर्गोशब्दवाच्यस्वस्याविशेषेऽपि पशेोरेव विषाणित्वं ततः सिध्यति तत्रैव तत्साधने तस्य गमकत्वान्न पुनर्वागादौ तस्य तद्विलक्षणत्वादितिमतं तदा प्रत्यक्ष शब्दवाच्यत्वाविशेषेऽपि नाईत्प्रत्यक्षस्य सूक्ष्माद्यर्थविषयत्वासिद्धिरर्थभेदात् । अक्ष्णोति व्याप्नोति जानावीत्यक्षः आत्मा तमेव प्रतिगतं प्रत्यक्षमिति हि भिन्नार्थमेवेंद्रियप्रत्यक्षात् तस्याशेषार्थगोचरत्वात् मुख्यप्रत्यक्षत्वसिद्धेः । तथाहि विवादाध्यसितमर्हत्प्रत्यक्षं मुख्यं निःशेषद्रव्यपर्यायविषयत्वात् यत्तु न मुख्यं तन्न तथा यथाऽस्मदादिप्रत्यक्षं, सर्वद्रव्यपर्यायविषयं चार्हत्प्रत्यक्षं तस्मान्मुख्यं । नचेदमसिद्धं साधनं । तथाहि सर्वद्रव्यपर्यायविषयमईत्प्रत्यक्षं क्रमातिक्रांतस्वात् क्रमातिक्रांतं तन्मनोक्षानपेक्षत्वान्मनोक्षानपेक्षं तत्सकलकलंक विकलत्वात् सकलाप्रशमाज्ञानादर्शनावीर्य लक्षणकलंकविकलं तत्, प्रक्षीणकारणमोहज्ञानदर्शनावरणवीर्यातरायत्वात् । यन्नेत्थं तन्नैवं यथाऽस्मदादिप्रत्यक्षं । इत्थं च तत्तस्मादेवमिति हेतुसिद्धिः । ननु च प्रक्षीणमोहादिचतुष्टयत्वं कुतो - Sईतः सिद्धं ? तत्कारणप्रतिपक्ष प्रकर्षदर्शनात् । तथाहि मोहादिचतुष्टयं क्वचिदत्यंतं प्रक्षीयते तत्कारणप्रतिपक्षप्रकर्षसद्भावात् । यत्र यत्कारणप्रतिपक्षप्रकर्षसद्भावस्तत्र तदत्यंत प्रक्षीयमाणं दृष्टं यथा चक्षुषि तिमिरं तथाच केवलिनि मोहादिचतुष्टयस्य कारणप्रतिपक्षप्रकर्षसद्भावः तस्मादत्यंतं प्रक्षीयते । किं पुनः कारणं मोहादिचतुष्टयस्येति चेदुच्यते । मिध्यादर्शनमिथ्याज्ञानमिथ्याचारित्रत्रयं तस्य तद्भाव एव भावात् यस्य यद्भाव एव भावस्तस्य तत्कारणं यथा श्लेष्मविशेषस्तिमिरस्य, मिथ्यादर्शनादित्रयसद्भाव एव भावश्च मोहादिचतुष्टयस्य तस्मात्तत्कारणं । कः पुनस्तस्य प्रतिपक्ष इति चेत् सम्यग्दर्शनादित्रयं तत्प्रकर्षे तदपकर्षदर्शनात् । यस्य प्रकर्षे यदपकर्षस्तस्य स प्रतिपक्षो यथा शीतस्याभिः । सम्यग्दर्शनादित्रयप्रकर्षेऽपकर्षश्च मिथ्यादर्शनादित्रयस्य तस्मात्तस्य प्रतिपक्षः । कुतः पुनस्तत्प्रतिपक्षस्य सम्यग्दर्शनादित्रयस्य प्रकर्षपर्यंतगमनं प्रकृष्यमाणत्वात् यत्प्रकृष्यमाणं तत्कचित्प्रकर्षपर्यंतं गच्छति यथा परिमाणमापरमाणोः प्रकृष्यमाणं नभसि प्रकृष्यमाणं च सम्मग्दर्शनादित्रयं तस्मात्कचित्प्रकर्षपर्यंतं गच्छति यत्र यत्प्रकर्षगमनं तत्र तत्प्रतिपक्षमिध्यादर्शनादित्रयमत्यंतं प्रक्षीयते यत्र यत्प्रक्षयः, तत्र तत्कार्यस्य मोहादिकर्मचतुष्टयात्यंतिक: क्षय इति तत् कार्याप्रशमादिकलंक चतुष्टयवैकल्यात्सिद्धं सकलकलंकविकलत्वमर्हत्प्रत्यक्षस्य मनोक्षनिरपेक्षत्वं साधयति । तच्चाक्रमवत्वं तदपि सर्वद्रव्यपर्यायविषयत्वं ततोमुख्यं तत्प्रत्यक्षं प्रसिद्धं । सांव्यवहारिकं तु मनोक्षापेक्षं वैशद्यस्य देशतः सद्भावात् इति न प्रत्यक्षशब्दवाच्यत्वसाधर्म्यमात्रात् धर्मादिसूक्ष्माद्यर्थाविषयत्वं विवादाध्यासितस्य प्रत्यक्षस्य सिध्यति यतः पक्षस्यानुमानबाधितत्वात्कालात्ययापदिशष्टो हेतुः स्यात् तदेवं निरवद्याद्धेतोर्विश्वतत्त्वानां ज्ञाताऽईन्नेवावतिष्ठते सकलबाधकप्रमाणरहितत्वाश्च तथाहि ।
प्रत्यक्षमपरिच्छिंदत्त्त्रिकालं भुवनत्रयं ।
रहितं विश्वत्वज्ञैर्नहि तद्वाधकं भवेत् ॥ ९७ ॥ नानुमानोपमानार्थापत्त्यागमबलादपि । विश्वज्ञाभावसंसिद्धिस्तेषां सद्विषयत्वतः ॥ ९८ ॥ नार्हन्निःशेषतत्वज्ञोवक्तृत्वपुरुषत्वतः ।
ब्रह्मादिवदिति प्रोक्तमनुमानं न बाधकं ॥ ९९ ॥
५५