________________
सनातननग्रंथमालायांहेतोरस्य विपक्षेण विरोधाभावनिश्चयात् । वक्तृत्वादेप्रकर्षेपि ज्ञानानिहाँससिद्धितः॥ १० ॥ नोपमानमशेषाणां नृणामनुपलभतः । उपमानोपमेयानां तद्वाधकमसंभवात् ॥ १०१ ॥ नापत्तिरसर्वज्ञं जगत्साधयितुं क्षमा । क्षीणत्वादन्यथाभावाभावात्तत्तदबाधिका ॥ १०२ ॥ नागमोऽपौरुषेयोऽस्ति सर्वज्ञाभावसाधनः । तस्य कार्ये प्रमाणत्वादन्यथाऽनिष्टसिद्धितः ॥ १०३ ॥ पौरुषेयोऽप्यसर्वज्ञप्रणीतो नास्य बाधकः। तत्र तस्याप्रमाणत्वाद्धर्मादाविव तत्त्वतः ॥ १०४ ॥ अभावोऽपि प्रमाणं ते निषेध्याधारवेदने। निषेध्यस्मरणे च स्यान्नास्तिता ज्ञानमंजसा ॥ १०५ ॥ नचाशेषजगज्ज्ञानं कुतश्चिदुपपद्यते । नापि सर्वज्ञसंवित्तिः पूर्व तत्स्मरणं कुतः ॥ १०६ ॥ येनाशेषजगत्यस्य सर्वज्ञस्य निषेधनं । परोपगमतस्तस्य निषेधे वेष्टबाधनं ॥ १०७ ॥ मिथ्र्यकांतनिषेधस्तु युक्तोऽनेकांतसिद्धितः । नासर्वज्ञजगत्सिद्धेः सर्वज्ञप्रतिषेधनं ॥ १०८ ॥ एवं सिद्धः सुनिर्णेतासंभवद्वाधकत्वतः । सुखवद्विश्वतत्त्वज्ञः सोऽर्हन्नेव भवानिह ॥ १०९ ॥ स कर्मभूभृतां भेत्ता तद्विपक्षप्रकर्षतः।
यथा शीतस्य भेत्तेहकश्चिदुष्णप्रकर्षतः ॥ ११० ॥ यस्य धर्मादिसूक्ष्माद्यर्थाः प्रत्यक्षा भगवतोऽर्हतः सर्वज्ञस्यानुमानसामर्थ्यात्तस्य बाधक प्रमाण प्रत्यक्षादीनामन्यतमं भवेत् गत्यंतराभावात् तत्र न तावदस्मदादिभिःप्रत्यक्षं सर्वत्र सर्वदा सर्वज्ञस्य बाधकं तेन त्रिकालभुवनत्रयस्य सर्वज्ञरहितस्यापरिच्छेदात् तत्परिच्छेदे तस्यास्मदादिप्रत्यक्षत्वविरोधात् नापि योगिप्रत्यक्षं तद्बाधकं तस्य तत्साधकत्वात्सर्वज्ञाभाववादिनां तदनभ्युपगमाच्च । नाप्यनुमानोपमानार्थापत्त्यागमानां सामर्थ्यात्सर्वज्ञस्याभावसिद्धिः तेषां सद्विषयत्वात् प्रत्यक्षवत् । स्यान्मतं नाहन्नि: शेषतत्त्ववेदी वक्तृत्वात्पुरुषत्वात् ब्रह्मादिवदित्याद्यनुमानात्सर्वज्ञत्वनिराकृतिः सिध्यत्येव सर्वज्ञविरुद्धस्यासर्वज्ञस्य कार्य वचनं हि तदभ्युपगम्यमानं स्वकारणं किंचिज्ज्ञत्वं साधयति तच्च सिध्यत्स्वविरुद्धं निःशेषज्ञानं निवर्तयतीति विरुद्धकार्योपलब्धिः शीताभावे साध्ये धूमवद्विरुद्धव्याप्तोपलब्धिर्वा सर्व