________________
आप्तपरीक्षा ।
ज्ञत्वेन हि विरुद्धम सर्वज्ञत्वं तेन च व्याप्तं वक्तृत्वमिति । एतेन पुरुषत्वोपलब्धिर्विरुद्धव्याप्तोपलब्धिरुक्ता सर्वज्ञत्वेन हि विरुद्धमसर्वज्ञत्वं तेन च व्याप्तं पुरुषत्वमिति । तथाच सर्वज्ञो यदि वक्ताऽभ्युपगम्यते यदि वा पुरुषस्तथापि वक्तृत्वपुरुषत्वाभ्यां तदभावः सिध्यतीति केचिदाचक्षते ? तदेतदप्यनुमानद्वितयं त्रितयं वा परैः प्रोक्तं न सर्वज्ञस्य बाधकमविनाभावनियमनिश्चयस्यासंभवात । हेतोर्विपक्षेबाधकप्रमाणाभावादसर्वज्ञे हि साध्ये तद्विपक्ष: सर्वज्ञ एव तत्र च प्रकृतस्य हेतोर्न बाधकमस्ति । विरोधो बाधक इति चेन्न सर्वज्ञस्य वक्तृत्वेन विरोधासिद्धः । तस्य तेन विरोधो हि सामान्यतो विशेषतो वा स्यात् । न तावत्सामान्यतो वक्तृत्वेन सर्वज्ञत्वं विरुध्यते, ज्ञानप्रकर्षे वक्तृत्वस्यापकर्षप्रसंगात् । यद्धि येन विरुद्धं तत्प्रकर्षे तस्यापकर्षो दृष्टो यथा पावकस्य प्रकर्षे तद्विरोधिनो हिमस्य । नच ज्ञानप्रकर्षे वक्तृत्वस्यापकर्षो दृष्टस्तस्मान्न तत्तद्विरुद्धं वक्ता च स्यात्सर्वज्ञश्च स्यादिति संदिग्धविपक्षव्या वृत्तिको हेतुर्न सर्वज्ञाभावं साधयेत् । यदि पुनर्वक्तृत्वविशेषेण सर्वज्ञस्य विरोधोऽभिधीयते, तदा हेतुरसिद्धएव नहि परमात्मनो युक्तिशास्त्रविरुद्धो वक्तृत्वविशेषः संभवति यः सर्वज्ञविरोधी तस्ब युक्तिशास्त्राविरुद्धार्थवक्तृत्वनिश्चयात् । नच युक्तिशास्त्र विरोधि वक्तृत्वं ज्ञानातिशयमंतरेण दृष्टं ततः सकलार्थविषयं वक्तृत्वं युक्तिशास्त्राविरोधि सिद्ध्यत्सकलार्थवोदित्वमेव साधयेत् इति वक्तृत्वविशेषो विरुद्धो हेतुः साध्यविपरीतसाधनात् । तथा पुरुषत्वमपि सामान्यतः सर्वज्ञाभावसाधनायोपादीयमानं संदिग्धविपक्षव्यावृत्तिकमेव साध्यं न साधयेत् विपक्षेण विरोधासिद्धेः पुरुषश्च स्यात्कश्चित्सर्वज्ञश्चेति । नहि ज्ञानातिशयेन तत्पुरुषत्वं विरुध्यते कस्यचित्सातिशयज्ञानस्य महापुरुषत्वसिद्धेः । पुरुषत्वविशेषो हेतुश्चेत् स यद्यज्ञानादिदोषदूषितपुरुषत्वमुच्यते तदा हेतुरसिद्धः परमेष्ठिनि तथाविधपुरुषत्वासंभवात् । अथ निर्दोषपुरुषत्वविशेषो हेतुस्तदा विरुद्धः साध्यविपर्ययसाधनात् सकलाज्ञानादिदोषविकलपुरुषत्वं हि परमात्मनि सिध्यत् सकलज्ञानादिगुणप्रकर्षापर्यंतगमनमेव साधयेत् तस्य तेन व्याप्तत्वादिति नानुमानं सर्वज्ञस्य बाधकं बुध्यामहे । नाप्युपमानं तस्योपमानोपमेयग्रहणपूर्वकत्वात् प्रसिद्धे हि गोगवययोरुपमानोपमेयभूतयोः सादृश्ये दृश्यमानाद्गोर्गवये विज्ञानमुपमानं सादृश्योपाध्युपमेयविषयत्वात् । तथोक्तम् । " दृश्यमानाद्यदन्यत्र विज्ञानमुपजायते । सादृश्योपाधितः कैश्चिदुपमानमिति स्मृतं ” । न चोपमानभूतानामस्मदादीनामुपमेयभूतानां चासर्वज्ञत्वेन साध्यानां पुरुषविशेषाणां साक्षात्करणं संभवति । नच तेष्वसाक्षात्करणेषु तत्सादृश्यं प्रसिध्यति । न चाप्रसिद्धतत्सादृश्यः सर्वज्ञाभाववादी सर्वेऽप्यसर्वज्ञाः पुरुषाः कालांतरदेशांतरवर्तिनो यथास्मदादय इत्युपमानं कर्तुमुत्सहते जात्यंध इव दुग्धस्य बकोपमानं तत्साक्षात्करणे वा स एव सर्वज्ञ इति । कथमुपमानं तदभावसाधनायालं । तथार्थापत्तिरपि न सर्वज्ञरहितं जगत्सर्वदा साधयितुं क्षमा क्षीणत्वात्तस्याः साध्याविनाभावनियमाभावात् सर्वज्ञेन रहितं जगत्तत्कृतधर्माद्युपदेशासंभवान्यथानुपपत्तेरित्यर्थापत्तिरपि न साधीयखी सर्वज्ञकृतधर्माद्युपदेशासंभवस्यार्थापत्त्युत्थापकस्यार्थस्य प्रत्यक्षाद्यन्यतमप्रमाणेन विज्ञातुमशक्तेः । नन्वपौरुषाद्वेदादेव धर्माद्युपदेशसिद्धेः । धर्मे चोदनैव प्रमाणमिति वचनान्न धर्मादिसाक्षात्करी कश्चित्पुरुषः संभवति यतोऽसौ धर्माद्युपदेशकारी स्यात् । ततः सिद्ध एव सर्वज्ञकृतधमाद्युपदेशासंभव इति चेन्न । वेदादपौरुषेयाद्धर्माद्युपदेशनिश्चयायोगात् सहि वेदः केनचिद्व्याख्यातो धर्मस्य प्रतिपादकः स्यादव्याख्यातो वा ? प्रथमपक्षे तद्व्याख्याता रागादिमान् विरागो वा ? रागादिमांश्चन्न तद्व्याख्यानाद्वेदार्थनिश्चयस्तदसत्यत्वस्य संभवात् । व्याख्याता हि रागादुद्वेषादज्ञानाद्वा वितथार्थमपि व्याचक्षाणो दृष्ट इति वेदार्थ वितथमपि व्याचक्षीत, अवितथमपि व्याचक्षीत नियामकाभावात् । गुरुपर्वक्रामायात वेदार्थवेदी महाजनो नियामक इति चेन्न तस्यापि रागादिमत्वे यथार्थवेदित्वनिर्णयानुपपत्तेः गुरुपर्वक्रमायातस्य वितथार्थस्यापि वेदे संभाव्यमानत्वादुपनिषद्वाक्यार्थवदीश्वराद्यर्थवद्वा नहि स गुरुपर्वक्रमायातो न भवति वेदार्थों वा न चावितथः प्रतिपद्यते मीमांसकैस्तद्वदग्निष्टोमेन यजेत स्वर्गकाम इत्यादि बेदवाक्यस्याष्यर्थः कथं वितथः पुरुषव्याख्यानान्न शक्येत वक्तुं । यदि पुनर्वीतरागद्वेषमोहो वेदस्य व्या
८
५७