________________
५८
सनातनजैन ग्रंथमालायांख्याता प्रतिज्ञायते तदा स एव पुरुषविशेषः सर्वज्ञः किमिति न क्षम्यते वेदार्थानुष्ठानपरायण एवं वीतरागद्वेषः पुरुषोऽभ्युपगम्यते वेदार्थव्याख्यानविषय एव रागद्वेषाभावात् न पुनर्वीतसकलविषय रागद्वेषःकश्चित् कस्यचित्कचिद्विषयवीतरागद्वेषस्यापि विषयांतरे रागद्वेषदर्शनात्तथावेदार्थविषय एवं चीतमोहपुरषस्तव्याख्याताऽभ्यनुज्ञायते न सकलविषये कस्यचित्कचित्सातिशयज्ञानसद्भावेऽपि विष. यांतरेषु अज्ञानदर्शनात् न च सकलविषयरागद्वेषप्रक्षयो ज्ञानप्रकर्षो वा वेदार्थ व्याचक्षाणस्योपयोगी यो हि यड्याचष्टे तस्य तद्विषयरागद्वेषाज्ञानाभावः प्रेक्षावद्भिरन्विष्यते रागादिमतोविप्रलंभसंभवात् न पुनः सर्वविषये कस्यच्छिास्त्रांतरे यथार्थव्याख्याननिर्णयविरोधात् तथापि तदन्वेषणे च सर्वज्ञवीतराग एव सर्वस्य शास्त्रस्य व्याख्याताभ्युपगंतव्य इत्यसर्वज्ञशास्त्रव्याख्यानव्यवहारो निखिलजन्प्रसिद्धोऽपि न भवेत् । नचैद युगीनशास्त्रव्याख्याता कश्चित्प्रक्षीणाशेषरागद्वेषः सर्वज्ञः प्रतीयते इति नियतविषय शास्त्रार्थपरिज्ञानं तद्विषयरागद्वेषरहितत्वं च यथार्थव्याख्याननिबंधनं तद्व्याख्यातुरभ्युपगंतव्यं तच्चवेदार्थव्याचक्षाणस्यापि ब्रह्मप्रजापतिमनुप्रमुखजैमिन्यादेर्विद्यते एव तस्य वेदार्थविषयाज्ञानरागद्वेषविकलत्वादन्यथा तव्याख्यानस्य शिष्टपरम्परया परिग्रहविरोधात तोवेदस्य व्याख्याता तदर्थज्ञ एव न पुनः सर्वज्ञः तद्विषयरागद्वेषरहित एव न पुनः सकलविषयरागद्वेषशून्यो यतः सर्वज्ञो वीतरागश्च पुरुषविशेषः क्षम्यते इति केचित्तेऽपि न मीमांसका, सकलसमयव्याख्यानस्य यथार्थभावानुषंगात् । स्यान्मतं समयांतराणां व्याख्यानं न यथाथै बाधकप्रमाणसद्भावात् प्रसिद्धमिथ्योपदेशव्याख्यानवत् इति तदपि न विचारक्षम वेदव्याख्यानस्यापि बाधकसद्भावात् यथैव हि सुगतकपिलादिसमयांतराणां परस्परविरुद्धार्थाभिधायित्वं बाधकं तथा भावनानियोगविधिधात्वर्थादिवेदवाक्यार्थव्याख्यानाना मपि तत्प्रसिद्धमेव । न चैतेषां मध्ये भावनामात्रस्य नियोगमात्रस्य वा वेदवाक्यार्थस्यान्ययोगव्यवच्छे. देन निर्णयः कर्तुं शक्यते सर्वथा विशेषाभावात् तत्राक्षेपसमाधानानां समानस्वादिति देवागमालंकृती तत्त्वार्थालंकारे विद्यानन्दमहोदये च विस्तरतो निर्णीतं प्रतिपत्तव्यं ततो न केनचित्पुरुषेण व्याख्याताद्वेदाद्धर्माद्युपदेशः समवतिष्ठते, नाप्यव्याख्यातात्, तस्य स्वयं स्वार्थप्रतिपादकत्वेन तदर्थविप्रतिपत्त्यभावप्रसंगात् । दृश्यते च तदर्थविप्रतिपत्तिर्वेदवादिनामिति न वेदाद्धर्माद्युपदेशस्य संभवः । पुरुषविशेषादेव सर्वज्ञवीतरागात्तस्य संभवात्ततो न धर्माद्युपदेशासंभवः पुरुषविशेषस्य सिद्धेः यः सर्वज्ञरहितं जगसाधयेदिति कुतोऽर्थापत्तिः सर्वज्ञस्य बाधिका । यदि पुनरागमः सर्वज्ञस्य बाधकः तदाप्यसावपौरुषेयः पौरुषेयो वा, न तावदपौरुषेयस्तस्य कार्यादर्थादन्यत्र परैः प्रमाण्यानिष्टरन्यथानिष्टसिद्धिप्रसंगात्, नापि पौरुषेयस्तस्यासर्वज्ञपुरुषप्रणीतस्य प्रमाण्यानुपपत्तेः सर्वज्ञप्रणीतस्य तु परेषामसिद्धरन्यथा सर्वज्ञसिद्धेः ततस्तदभावायोगादिति न प्रभाकरमतानुसारिणां प्रत्यक्षादिप्रमाणानामन्यतममपि प्रमाणं सर्वज्ञाभावासाधनायालं यतः सर्वज्ञबाधकमभिधीयते । भट्टमतानुसारिणामपि सर्वज्ञस्याभावसाधनमभावप्रमाणं नोपपद्यत एव तद्धि सदुपलंभप्रमाणपंचकनिवृत्तिरूपं साच सर्वज्ञविषयसदुपलं भकप्रमाणपंचकनिवृत्तिरात्मनः परिणामो वा विज्ञानं वान्यवस्तुनि स्याद्गत्यंतराभावात् । न तावसर्वज्ञविषयप्रत्यक्षादिप्रमाणरूपेणात्मनः परिणामः सर्वज्ञस्याभावसाधकः सत्यपि सर्वज्ञे तत्संभवात् तद्विषयस्य ज्ञानस्यासंभवात्तस्यातींद्रियत्वात्परचेतोवृत्तिविशेषवत् । नापि निषेध्यात्सर्वज्ञादन्यवस्तुनि विज्ञानं, तदेकज्ञानसंसर्गिणः कस्यचिद्वस्तुनोऽभावात् घटैकज्ञानसंसर्गिभूतलवत् न हि यथा घटभूतलयोश्चाक्षुषेकज्ञानसंसर्गात् केवलभूतले प्रतिषेध्याद् घटादन्यत्र वस्तुनि विज्ञानं घटाभावव्यवहारं साधयति तथा प्रतिषेध्यात्सर्वज्ञादन्यत्र वस्तुनि विज्ञानं न तदभावसाधनसमर्थ संभवति सर्वज्ञ स्यातींद्रियत्वात्तद्विषयज्ञानस्यासंभवात्तदेकज्ञानसंसर्गिणोऽस्मदादिप्रत्यक्षस्यकस्यचिद्वस्तुनोऽनभ्युपगमादनुमानाद्येकज्ञानेन सर्वज्ञतदन्यवस्तुनोः संसर्गात्सर्वजैकज्ञानसंसर्गिणि क्वचिदनुमेयेऽर्थेऽनु
१ भाडाः। २ प्राभाकराः। ३ वेदान्तिनः ।