Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 73
________________ आसपरीक्षा। मानज्ञानं संभवत्येवेति चेन्नः तथा कचित्सर्वज्ञस्य सिद्धिप्रसंगात् सर्वत्र सर्वदा सर्वस्य सर्वज्ञस्याभावे कस्यचिद्वस्तुनस्तेनैकज्ञानसंसर्गायोगात्तदन्यवस्तुविज्ञानलक्षणादभावप्रमाणात्सर्वज्ञाभावसाधनविरोधात्। किंच गृहीत्वा निषेध्याधारवस्तुसद्भावं स्मृत्वा च तत्प्रतियोगिनं निषेध्यमर्थ नास्तीति ज्ञानं मानसमक्षानपेक्षं जायत इति येषां दर्शनं तेषां निषेध्यसर्वज्ञाधारभूतं त्रिकालं भुवनत्रयं च कुतश्चित्प्रमाणाद्ग्राह्यं तत्प्रतियोगी च प्रतिषेध्यः सर्वज्ञः स्मर्त्तव्य एवान्यथा तत्र नास्तिताज्ञानस्य मानसस्यानुपपत्तेन च निषेध्याधारत्रिकालजगत्रयसद्भावग्रहणं कुतश्चित्प्रमाणान्मीमांसकस्यास्ति नापि प्रतिषेध्यसर्वज्ञस्य स्मरणं तस्य प्रागननुभूतत्वात्पूर्व तदनुभवे वा कचित्सर्वत्र सर्वदा सर्वज्ञा-- भावसाधनविरोधात्, ननु च पराभ्युपगमात्सर्वज्ञः सिद्धस्तदाधारभूतं च त्रिकालं भुवनत्रयं सिद्धं, तत्र श्रुतसर्वज्ञस्मरणनिमित्तं तदाधारवस्तुग्रहणनिमित्तं च सर्वज्ञे नास्तिताज्ञानं मानसमक्षानपेक्षं युक्तमेवेतिचेन्न । स्वेष्टवाधनप्रसंगात् पराभ्युपगमस्य हि प्रमाणसिद्धत्वे तेन सिद्धं सर्वज्ञं प्रतिषेधतोऽभाव प्रमाणस्य तद्वाधनप्रसंगात् तस्याप्रमाणत्वे न ततोनिषेध्याधारवस्तुग्रहणं निषेध्यसर्वज्ञस्मरणं वा तथ्यं स्यात्तभावे तत्रं सर्वज्ञेऽभावप्रमाणं न प्रादुर्भवेदिति तदेव स्वेष्टवाधनं दुरिमायातं । नन्वेवं मिथ्यकांतस्य प्रतिषेधः स्याद्वादिभिः कथं विधीयते तस्य कचित्कथंचित्कदाचिदनुभवाभावे स्मरणा संभवात् तस्याननुस्मर्यमाणस्य प्रतिषेधायोगात्कचित्कदाचित्तदनुभवे वा सर्वथा तत्प्रतिषेधविरोधात पराभ्युपगमात्प्रसिद्धस्य मिथ्र्यकांतस्य स्मर्यमाणस्य प्रतिषेधेऽपि संपराभ्युपगमः प्रमाणमप्रमाणं वा, यदि प्रमाणं तदा तेनैव मिथ्यकांतस्याभावसाधनाय प्रवर्तमानं प्रमाणं बाध्यते इति स्याद्वादिनामपिखेष्टबाधनं, यदि पुनरप्रमाणं पराभ्युपगमस्तदापि ततः सिद्धस्य मिथ्यकांतस्य स्मर्यमाणस्य नास्तीतिज्ञानं प्रजायमानं मिथ्यैव स्यादिति तदेवस्वेष्टवाधनं परेषामिवेति न मंतव्यं स्याद्वादिनामनेकांतसिद्धेरेव मिथ्र्यकांतनिषेधनस्य व्यवस्थानात् प्रमाणतः प्रसिद्ध हि वहिरंतर्वा वस्तुन्यनेकांतात्मनि तत्राध्यारोप्यमाणस्य मिथ्र्यकांतस्य दर्शनमोहोदयाकुलितचेतसां बुद्धौ विपरीताभिनिवेशस्य प्रतिभासमानस्य प्रतिवेधः क्रियते प्रतिषेधव्यवहारो वा प्रवर्त्तते विप्रतिपन्नप्रत्यायनाय सन्नयोपन्यासात् । न चैवमसर्वज्ञअगसिद्धेरेव सर्वज्ञप्रतिषेधो युज्यते तस्याः कुतश्चित्प्रमाणादसंभवस्य समर्थनात्तदेवमभावप्रमाणस्या पि सर्वज्ञवाधकस्य सदुपलंभकप्रमाणपंचकवदसंभवाद्देशांतरकालांतरपुरुषांतरापेक्षयाऽपि तद्वाधकशं-- कानवकाशासिद्धः सुनिर्णीतासंभवद्वाधकप्रमाणः सर्वज्ञः स्वसुखादिवत्सर्वत्र वस्तुसिद्धौ सुनिर्णीता-- संभवद्वाधकप्रमाणत्वमंतरेणाश्वासनिबंधनस्य कस्यचिदभावात् । स च विश्वतत्वानां ज्ञाताहन्नेव परमे.. श्वरादेर्विश्वतत्वज्ञतानिराकरणादेवावसीयते । स एव कर्मभूभृतां भेत्ता निश्चीयतेऽन्यथा तस्य विश्वतत्व ज्ञतानुपपत्तेः । स्यादाकूतं कर्मणां कार्यकारणसंतानेन प्रर्वतमानानामनादित्वाद्विनाशहेतोरभावात्कथं कर्मभूभृतां भेत्ता विश्वतत्त्वज्ञोऽपि कश्चिद्व्यवस्थाप्यते इति तदप्यसत् विपक्षप्रकर्षपर्यंतगमनात्कर्मणां संतानरूपतयानादित्वेऽपि प्रक्षयप्रसिद्धेः नानादिसंततिरपि शीतस्पर्शः कचिद्विपक्षस्योष्णस्पर्शस्य प्रकर्षपर्यंतगमनान्निर्मूलं प्रलयमुपब्रजन्नोपलब्धो नापि कार्यकारणरूपतया बीजांकुरसंतानो वानादिरपि प्रति पक्षभूतदहनान्निर्दग्धवीजो निर्दग्धांकुरो का न प्रतीयत इति वक्तुं शक्यं, यतः कर्मभूभृतां संतानोनादिरपि कचित्प्रतिपक्षसात्मीभावान प्रक्षीयते ततो यथा शीतस्योष्णस्पर्शप्रकर्षविशेषेण कश्चिद्धेत्ता तथा कर्मभूभृतां तद्विपक्षप्रकर्षविशेषण भेत्ता भगवान् विश्वतत्वज्ञ इति सुनिश्चितं नश्चेतः कः पुनः कर्मभूभृता विपक्ष इति चेदुच्यते । तेषामागामिनां तावद्विपक्षः संवरोमतः तपसा संचितानां तु निर्जरा कर्मभूभृतां ॥ १११ ॥ द्विविधा हि कर्मभूभृतः केचिदागामिनः परे पूर्वभवसंतानसंचितास्तत्रागामिनां कर्मभूभृतां विपक्षसावत्संवरस्तस्मिन्सति तेषामनुत्पत्तेः संवरो हि कर्मणामाश्रवनिरोधः: सचाश्रवो मिथ्यादर्शनाविरति

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182