Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala
View full book text
________________
सनातनजैनग्रंथमालायांस्वे मुक्तात्मनोपि तत्सैसर्गकारणत्वप्रसक्तेरिति मिथ्यादर्शनादीनि भावकर्माणि पुरुषपरिणामात्मकान्येव पुरुषस्य परिणामित्वोपपत्तेस्तस्यापरिणामित्वे वस्तुत्वविरोधान्निरन्वयविनश्वरक्षणिकचित्तवत् । द्रव्यकर्माणि तु पुद्गलपरिणामात्मकान्येव प्रधानस्य पुद्गलपर्यायत्वात्पुद्गलस्यैव प्रधानमिति नाम करणात्,नच प्रधानस्य पुद्गलपरिणामात्मकत्वमसिद्धं पृथिव्यादिपरिणामात्मकत्वात्पुरुषस्यापुद्गलद्रव्यस्यतदनुपलब्धिर्बुद्धयंहकारादिपरिणामात्मकत्वात् नहि प्रधाने वुद्धधादिपरिणामो घटते, तथाहि न प्रधान बुद्ध्यादिपरिणामात्मकं पृथिव्यादिपरिणामात्मकत्वाद्यत्तु बुद्ध्यादिपरिणामात्मकं तन्न पृथिव्यादि परिणामात्मकं दृष्टं यथा पुरुषद्रव्यं तथा च प्रधानं तस्मान्न बुद्ध्यादिपरिणामात्मकं । पुरुषस्य वुद्ध्यादिपरिणामात्मकस्वासिद्धेन वैधयदृष्टांततेति चेन्न तस्य तत्साधनात्तथाहि वुद्धयादिपरिणामात्मकः पुरुषश्चेतनत्वाद्यस्तु न वुद्ध्यादिपरिणामात्मकः स न चेतनोदृष्टो यथा घटादिश्चेतनश्च पुरुषः स्तस्माद्बुद्ध्यादिपरिणामात्मक इति सम्यगनुमानात्, तथाकाशपरिणामात्मकत्वमपि प्रधानस्य नः घटते मूर्तिमत्पृथिव्यादिपरिणामारमकस्यामूर्ताकाशपरिणामात्मकत्वविरोधाद्धटादिवत् । शब्दादि तन्मात्राणां तु पुद्गलद्रव्यपरिणामात्मकत्वमेव कर्मेंद्रियद्रव्यमनोवत् भावमनोबुद्धींद्रियाणां तु पुरुषप. रिणामात्मकत्वसाधनान्न जीवपुद्गलद्रव्यव्यतिरिक्तं. द्रव्यांतरमन्यत्र धर्माधर्माकाशकालद्रव्येभ्य इति न प्रधानं नाम तत्त्वांतरमस्ति सत्वरजस्तमसामपि द्रव्यभावरूपाणां पुद्गलद्रव्यपुरुषद्रव्यपरिणामत्वोपपत्तेरन्यथा तदघटनादिति द्रव्यकर्माणि पुद्गलात्मकान्येव सिद्धानि भावकर्मणां जीवपरिणामत्वसिद्धेस्तानि च द्रव्यकर्माणि पुद्गलस्कंधरूपाणि परमाणूनां कर्मत्वानुपत्तेस्तेषां जीवस्वरूपप्रतिबंधकत्वाभावादिति कर्मस्कंधसिद्धिस्ते च कर्मस्कंधा वहव इति कर्मस्कंधराशयः सिद्धास्ते च भूभृत इव भूभृत इतिः व्यपदिश्यते समाधिवचनात्तेषां कर्मभूभृतां भेदो विश्लेषणमेव न पुनरत्यंतसंक्षयः सतो द्रव्यस्यांत्यंत विनाशानुपपत्तेः प्रसिद्धत्वात्तत एव कर्मभूभृतां भेत्ता भगवान् प्रोक्तो न पुनर्विनाशयितेति निरवद्यमिदः भेत्तारं कर्मभूभृतां ज्ञातारं विश्वतत्त्वानामिति विशेषणद्वितयं. मोक्षमार्गस्य. नेतारमितिविशेषणवत् ।। कःपुनर्मोक्ष इत्याह ।
स्वात्मलाभस्ततोमोक्षः कृत्स्नकर्मक्षयात्मतः
निर्जरासंवराभ्यां तु सर्वसद्धादिनामिह ॥ ११६ ॥ यत एवं ततः स्वात्मलाभो जीवस्य मोक्षः कृत्स्नानां कर्मणामागामिनां संचितानां च संवरनिर्जरा-- भ्यां क्षयाद्विश्लेष सर्वसद्वादिनां मत इति सर्वेषामास्तिकानां मोक्षस्वरूपे विवादाभावं दर्शयति तेषामात्मस्वः रूपे कर्मस्वरूपे च विवादात्स च प्रागेव निरस्तानंतज्ञानादिचतुष्टयस्य सिद्धत्वस्य चात्मनः स्वरूपस्य प्रमा.. णप्रसिद्धत्वान्नह्यचेतनत्वमात्मनः स्वरूपं तस्य ज्ञानसमवायित्वविरोधादाकाशादितत्कारणादृष्टविशेषासंभवाच्च तद्वत्तस्यांतःकरणसंयोगस्यापि दुर्घटत्वात् प्रतीयते च ज्ञानमात्मनि ततस्तस्य नाचैतन्यं स्वरूपं ।। ज्ञानस्य चैतन्यस्यानित्यत्वात्कथमात्मनो नित्यस्य तत्स्वरूपमितिचेन्नानंतस्य ज्ञानस्यानादेश्वानित्यत्वैकांता-. भावात् । ज्ञानस्य नित्यत्वे न कदाचिद्ज्ञानमात्मनः स्यादितिचेन्न तदावरणोदये तदविरोधात् एतेन समस्तवस्तुविषयज्ञानप्रसंगोऽपि विनिवारितस्तद्धातिकर्मोदये सति संसारिणस्तदसंभवात्तत्क्षय तु केव-. लिनः सर्वद्रव्यपर्यायविषयस्य ज्ञानस्य प्रमाणतः प्रसिद्धः सर्वज्ञत्वस्य साधनात् । चैतन्यमात्रमेवात्मनः स्वरूपमित्यनेन निरस्तं ज्ञानस्वभावरहितस्य चेतनत्वविरोधाद्गगनादिवतः। प्रभास्वरमिदं चित्तमिति स्व-. संवेदनमात्रं चित्तस्या स्वरूपं वदन्नपि सकलार्थविषयज्ञानसाधनान्निरस्तः स्वसंविन्मात्रेण वेदनेन सर्वार्थसाक्षात्करणविरोधात् । तदेवं प्रतिवादिपरिकल्पितात्मस्वरूपस्य प्रमाणवाधितत्वात्स्याद्वादिनिगदित-- मेवानंतज्ञानादिस्वरूपमात्मनो व्यवतिष्ठते ततस्तस्यैव लाभो मोक्षः सिद्धयेन पुनः स्वात्मप्रहाणमितिप्रतिपद्येमहि प्रमाणसिद्धत्वात्तथा कर्मस्वरूपे च विप्रतिपतिः कर्मवादिनां कल्पनाभेदात्साच पूर्वनिर-. स्तेत्यलं विवादेन । ननु च संवरनिर्जरामोक्षाणां भेदाभावः काभावस्वरूपत्वाविशेषादितिचेन्न संवर

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182