Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 82
________________ पत्रपरीक्षा। मुपलब्धं न पुनरसति यतः सत्सदित्यत्र सर्वनामप्रयोगाभावेऽपि संक्षेपतस्तत्सिद्ध्येत् धर्मिणश्चावचैनमिहायुक्तं अग्निरैत्रधूमादित्यादिषु धर्मिवचनदर्शनादिति कश्चित् सोऽप्यनालोचितवचनपथः सामर्थ्याद्गम्यमानस्य सर्वनाम्नो प्रयोगे विरोधंवैधुर्यात् पंचावयववादिनः साधावयवव्याख्यानादर्थतोगम्यमानानां वैधावयवानामिव कचिदवश्यं तत्प्रयोगे पंचावयववचने न्यूनानुषंगात् अवयववादिनां बौद्धानां त्र्यंशस्य हेतोभीषणात् सामर्थ्यतो गम्यमानानां प्रतिज्ञादीनामिव तत्प्रयोगे स्वयमसाधनांगवचनस्य निग्रहाधिकरणस्य तैरभिधानात् तत एव धर्मिणोऽप्यवचनमिति संक्षिप्तपत्रवाक्येन विरुद्ध्यते तस्य परीक्षादक्षैरझूणतयोपलक्षितत्वात् तदुक्तं वैधावयवा यद्वत्पंचावयववादिनः । साधावयवाख्यानाद्गम्यतेऽर्थादभाषिताः ॥ १॥ प्रतिज्ञायाश्च केषांचिद्धेतोस्त्र्यंशस्य भाषणात् । सामर्थ्याद्गम्यमानत्वान्न प्रयोज्या यथैव तु ॥२॥ तथा सामर्थ्यगम्यत्वात्सर्वनाम्नोप्यभाषणं । कचिदिष्टं परीक्षायां दक्षद्धर्मिण एव च ॥ ३॥ नन्वेवं क्वचिदपि प्रतिज्ञादिप्रयोगे न स्याद्वादिनां युक्तरूपोभवेत् तस्य सामर्थ्याद्गम्यमानत्वात्सर्वनामवदिति न मनीषिभिर्मनसि निधेयं तेषां प्रतिपाद्यानुरोधेन प्रयोगोपगमात् यथैव हि कस्यचित्प्रतिबोध्यस्यानुरोधेन साधनवाक्ये संधाभिधीयते दृष्टांतादिकमपि न चैवं साधनस्यैकलेक्षणत्वं स्वयं परीक्षितमपक्षिप्यते ततोऽन्यांशानां सतामपि तल्लक्षणत्वापायात्साधनाभासेपि तत्संभवासाधारणताविरहात् तथैव हि कुमारनंदिभट्टारकैरपि स्ववादन्याये निगदितत्वात्तदाह प्रतिपाद्यानुरोधेन प्रयोगेषु पुनर्यथा । प्रतिज्ञा प्रोच्यते तज्जैस्तथोदाहरणादिकं ॥ १ ॥ न चैवं साधनस्यैकलक्षणत्वं विरुध्यते । हेतुलक्षणतापायादन्यांशस्य तथोदितं ॥२॥ अन्यथानुपपत्त्येकलक्षणं लिंगमैग्यते । प्रयोगपरिपाटी तु प्रतिपाद्यानुरोधतः ॥ ३॥ . ननु चातिसंक्षिप्तपत्रवाक्ये हेतुरेव प्रयोक्तव्यः तावन्मात्रात्साध्यमवबोद्धुं समर्थान् नरान्प्रति साध्याभिधानस्य निरर्थकत्वात् प्रपंचतारतम्यात् साध्यं निश्चेतुमीशान् प्रति द्वौ चावयवौ प्रयोक्तव्यौ पक्षो हेतुश्चेति त्रयश्चावयवाः कश्चन प्रतिपक्षो हेतुर्दृष्टांतश्चेति । चत्वारो वा तएवावयवाः सोपनयाः परानुग्रहप्रवणैः सद्भिः प्रयोक्तव्याः । पंच वौ प्रतिज्ञाहेतूदाहरणोपनयनिगमनभेदात् । अन्यथा तत्प्रतिपत्तेरयोगादित्यैन्ये प्राहुः तदाह हेतुरेव प्रयोक्तव्यस्तावन्मात्रात्प्रवेदितुं । सैंमर्थान्प्रतिबोध्यान् नृन् साध्यं संक्षेपतो नैनु ॥ १ ॥ द्वौ च त्रयश्च चत्वारः पंच चावयवाः परे । प्रयोक्तव्याः |पंचेन सद्भिरित्यपरे विदुः ॥२॥ तेऽप्येवं पृष्टव्याः हेतुस्तावत्केर्वेलः प्रयुज्यमानः कथं प्रयुज्यत इति यदि प्रथमांतः सत्सदित्येव तदास्य कुतः साध्यत्वव्यवच्छेदः साध्यलक्षणवैकल्यात् सत्सत्त्वस्य प्रसिद्धत्वात् साध्यस्याप्रसिद्धलक्षणत्वात् किं पुनः सत्सदित्युच्यते यतस्तत्सकलजनप्रसिद्ध साध्यव्यवच्छेदेन साधनत्वेनैव बुद्ध्यामहे न पुनः साध्यनिर्देशत्वेनै शंकामहे सैत्सदिति चेत् ईमे ब्रूमहे सैदनं सदिति प्रमा यतोऽौभिप्रेता सर्वैर्गत्यर्थत्वात् गत्यर्थस्य च सर्वमनेकांतात्मकमुत्पादव्ययध्रौव्ययुक्तं सत्सत्सत्वादित्यर्थः । २ अप्रतिपादनं । ३ पर्वतादौ नाम्नः । ४ विरोधविरोधात् । ५ साधावयवपंचकस्यैव वचेन । ६ हीनं अन्यतमेन न्यूनमिति निग्रहस्थानानुषंगात । ७ यत्र पंचावयव. प्रयोगे । ८ परिपूर्णतया । ९ पक्षधर्मवसपक्षेसत्वविपक्षाद्यावृत्तिरूपस्य । १० प्रतिज्ञा संधा प्रतिज्ञाः, मर्यादेत्यमरः। ११ उपनयनिगमनयोर्ग्रहणं । १२ इति पराशंकां मनसि कृत्वा निराकृतवान् जैनः । १३ अन्यथानुपपत्तिः। १४ प्रतिज्ञादीनां विशेषरूपत्वरहितत्वात् । १५ तदेव विवृणोति। १६ प्रवक्ष्यमाणं वर्तते। १७ अंगीक्रियते । १८ जैनान्प्रति । १९ सांख्यान प्रति । २० मीमांसकान्प्रति । २१ योगान्प्रति । २२ उक्तविपर्यये एवं न प्रयुज्यते चेत् । २३ सौगताः। २४ प्रपंचेन साध्यं प्रवेदितं समर्थान् नन् प्रति । २५ अहो। २६ प्रमेयांतः। २७ केन प्रकारेण | २८ व्यावृति: । २९सत्सदितिलिंग ३० प्रतिपादनत्वेन । ३१ सत्सदिति तद्धेतुरित्यर्थः । ३२ बौद्धाः। ३३ युट् प्रत्ययोऽत्र ज्ञातव्यः। ३४ कारणात् । ३५ अनुमाने ।

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182