Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 68
________________ सनातनजैनग्रंथमालायांत्वाद्यदित्थं तदित्थं यथास्मदादिप्रत्यक्षं प्रत्यक्षशब्दवाच्यं च विवदाध्यासितं तत्प्रत्यक्षं तस्मान्न धर्माद्यर्थविषयं इत्यनुमानेन धर्माद्यर्थविषयस्य प्रत्यक्षस्य निराकरणात् न चेदमस्मदादिप्रत्यक्षागोचरविप्रकृष्टार्थप्राहि गृद्धवराहपिपीलिकादिचक्षुःश्रोत्रघ्राणप्रत्यक्षर्व्यभिचारि साधनं तेषामपि धर्मादिसूक्ष्माद्यर्थाविषयत्वादस्मदादिप्रत्यक्षविषयसजातीयार्थग्रहणानतिक्रमात्स्वविषयस्यैवेंद्रियेण ग्रहणादिद्रियांतरविषयस्यापरिच्छित्तेः । ननु च प्रज्ञामेधास्मृतिश्रुत्यूहापोहप्रबोधशक्तीनां प्रतिपुरुषमतिशयदर्शनात्कस्यचित्सातिशयं प्रत्यक्षं सिध्यत्परां काष्ठामापद्यमानं धर्मादिसूक्ष्माद्यर्थसाक्षात्कारि संभाव्यतएव । इत्यपि न मंतव्यं । प्रज्ञामेधादिभिः पुरुषाणां स्तोकस्तोकांतरत्वेन सातिशयस्वदर्शनात् । कस्यचिदतींद्रियार्थदर्शनानुपलब्धः । तदुक्तं भट्टेन “येऽपि सातिशया दृष्टाः प्रज्ञामेधादिभिर्नराः । स्तोकस्तोकांतरत्वन न त्वतींद्रियदर्शनादिति” । ननु च कश्चित्प्रज्ञावान्पुरुषः शास्त्रविषयान् सूक्ष्मानानुपलब्धुं प्रभुरुपलभ्यते तद्वत्प्रत्यक्षताऽपि धर्मादिसक्ष्मानर्थान् साक्षात्कत क्षमः किमिति न संभाव्यते ? ज्ञानातिशयानां नियमयितुमशक्तरित्यपि न चेतसि निधेयं । तस्य स्वजात्यनतिक्रमेणैव निरतिशयोपपत्तेः । नहि सातिशयं व्याकरणमति दूरमपि जानानो नक्षत्रग्रहचक्रातिचारादिनिर्णयेन ज्योतिःशास्त्रविदोऽतिशेते तद्बुद्धेः शब्दापशब्दयोरेव प्रकर्षापपत्तेः । वैयाकरणांतरातिशायनस्यैव संभवात् । ज्योतिर्विदोऽपि चंद्रार्कग्रहणादिषु निर्णयेन प्रकर्ष प्रतिपद्यमानस्यापि न भवत्यादिशब्दसाधुत्वज्ञानातिशयेन वैयाकरणातिशायित्वमुत्प्रेक्षते तथा वेदेतिहासादिज्ञानाविशयवतोऽपि कस्यचिन्न स्वर्गदेवताधर्माधर्मसाक्षात्करणमुपपद्यते एतदभ्यधायि “एकशास्त्रपरिज्ञाने दृश्यतेऽतिशयो महान् । नतु शास्त्रांतरज्ञानं तन्मात्रेणैव लभ्यते । ज्ञात्वा व्याकरणं दूरं बुद्धिः शब्दापशब्दयोः । प्रकृष्यते न नक्षत्रतिथिग्रहणनिर्णये । ज्योर्तिविच्च प्रकृष्टोऽपि चंद्रार्कग्रहणादिषु । न भवत्यादिशब्दानां साधुत्वं ज्ञातुमर्हति । तथावदेतिहासादिज्ञानातिशयवानपि । न स्वर्गदेवताऽपूर्वप्रत्यक्षीकरणे क्षम" इति । एतेन यदुक्तं सर्वज्ञवादिना ज्ञानं कचित्पर काष्ठां प्रतिपद्यते प्रकृष्यमाणत्वात् यद्यत्प्रकृष्यमाणं तत्तत्कचित्पराकाष्टी प्रतिपद्यमानं दृष्टं यथा परिमाणमापरमाणोः प्रकृष्यमाण नभसि, प्रकृष्यमाणं च ज्ञानं तस्मात्कचित्परां काष्ठां प्रतिपद्यत इति । तदपि प्रत्याख्यातं ज्ञानं हि धर्मिस्वेनोपादीयमानं प्रत्यक्षज्ञानं, शास्त्रार्थज्ञानमनुमानादिज्ञानं, वा भवेद्गत्यंतराभावात् तत्रंद्रियप्रत्यक्षं प्रतिप्राणिविशेष प्रकृष्यमाणमपि स्वविषयानतिक्रमेणैव परां काष्टा प्रतिपद्यते गृवराहादींद्रियप्रत्यक्षज्ञानवत । न पुनरतींद्रियार्थविषयत्वेनेति प्रतिपादनात् । शास्त्रार्थज्ञानमपि व्याकरणादि विषयं प्रकृष्यमाणं परां काष्ठामुपव्रजन्न शास्त्रांतरविषयतया धर्मादिसाक्षात्कारितया वा तामास्तिध्नुते तथाऽनुमानादिज्ञानमपि प्रकृष्यमाणमनुमेयादिविषयतया पराकाष्ठामास्कंदेत् । न पुनस्तद्विषयसक्षाकारितया । एतेन ज्ञानसामान्यं धर्म कचित्परमप्रकर्षमियति प्रकृष्यमाणस्वात् परमाणुवदिति वदन्नपि निरस्तः । प्रत्यक्षादिज्ञानव्यक्तिध्वन्यतमज्ञानव्यक्तेरेव परमप्रकर्षगमनसिद्धेस्तव्यतिरेकेण ज्ञानसामान्यस्य प्रकर्षगमनानुपपत्तेस्तस्य निरतिशयत्वात् । यद्यपि केनचिदभिधीयते श्रुतज्ञानमनुमानज्ञानं वाऽभ्यस्यमानमभ्याससात्मीभावे तदर्थसाक्षात्कारितया परांदशामासदयति तदपि स्वकीयमनोरथमात्रं कचिदभ्याससहस्रेणापि ज्ञानस्य स्वविषयपारोच्छित्तौ विषयांतरपरच्छित्तेरनुपपत्तेनहि गगनसलोत्प्लवनमभ्यस्यतोऽपि कस्यचित्पुरुषस्य योजनशतसहस्रोप्लवनं लोकांतोत्प्लवनं वा संभाव्यते तस्या दशहस्तांतरीत्प्लवनमात्रदर्शनात्तदप्युक्तं “दशहस्तांतरं ब्योनि योनामोस्लुत्य गच्छति न योजनमसौ गन्तुं शक्तोऽभ्यासशतैरपि” इत्यत्राभिधीयते यत्तावदुक्तं विवादाध्यासितं च प्रत्यक्षं न धर्मादि सक्ष्माद्यर्थविषयं प्रत्यक्षशब्दवाच्यत्वादस्मदादिप्रत्यक्षवदिति तत्र किमिदं प्रत्यक्षं, सत्संप्रयोगे पुरुषस्येंद्रियाणां बुद्धिजन्मप्रत्यक्षमिति चेत्तार्ह विवादाध्यासितस्य प्रत्यक्षस्यैतत्प्रत्यक्षविलक्षणत्वात् प्रत्यक्षशब्दवाच्यत्वेऽपि न धर्मादिसूक्ष्माद्यर्थविषयत्वाभावःसिध्यति यादृशं हींद्रियप्रत्यक्षं प्रत्यक्षशब्दवाच्यं धर्माद्यर्थासाक्षात्कारि दृष्टं तादृशमेव देशांतरे कालांतरे च विवादाध्यासितं प्रत्यक्षं तथा साधयितुं युक्तं तथाविधप्रत्यक्षस्यैव धर्माद्यविषयत्वस्य साधने प्रत्यक्षशब्दवाच्यस्य हेतोर्गमकत्वोपपत्तेः । तस्य

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182