Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 52
________________ ३८ सनातनजैनग्रंथमालायांसत्तासंबंधस्य प्रत्ययस्य प्रसंगात् ॥न पुनः सहव्यं सन् गुणः सत्कर्मेति प्रत्ययःस्यात् । नहि घंटा संबंधाद्गवि घंटेति ज्ञानमनुभूयते धंदावान्निति ज्ञानस्य तत्र प्रतीतेः । यष्टिसंबंधात्पुरुषोयष्टिरिति प्रत्ययदर्शनात्तु सत्तासंबधाइव्यादिषु सत्तेतिप्रत्ययःस्यात् अभेदे भेदोपचारात् । न पुनः सदिदि प्रत्ययस्तथाचोपचारात् द्रव्यादीनां सत्ताव्यपदेशो न पुनः परमार्थतः सिध्येत् । स्यान्मतं सत्तासामान्यवाचकस्यासत्ताशब्दस्येव सच्छब्दस्यापि सद्भावात्संबंधासंति द्रव्यगुणकर्माणीति व्यपदिश्यते भावस्य भाववदभिधायिनापि शब्दनाभिधानप्रसिद्धः । विषाणी ककुद्मान् प्रांतेवालधिरिति गोवलिंगमित्यादिवत् विषाण्यादिवाचिना शब्देन विषाणित्वादेर्भावस्याभिधानादिति । तदप्यनुपपन्नं । तथोपचारादेव सत्प्रत्ययप्रसंगात् ।। पुरुषे यष्टिसंबंधाद्यष्टिरिति प्रत्ययवत् ॥ यदि पुनर्यष्टिपुरुषयोः संयोगात्पुरुषो यष्टिरिति ज्ञानमुपचरितं युक्तं । न पुनद्रव्यादौ सदिति ज्ञानं तत्र सस्वस्य समवायादिति मतं तदऽवयवेष्ववयविन: समवायादवयविव्यपदेशःस्यात् न पुनरवयविव्यपदेशः । द्रव्ये च गुणस्य समवायाद्गुणव्यपदेशोऽस्तु क्रियासमवायाक्रियाव्यपदेशस्तथा च न कदाचिदवयविष्ववयवप्रत्ययः गुणिनि गुणिप्रत्ययः क्रियावतिक्रियावत्प्रत्ययश्चोपपद्यतेति महान् व्याघात: पदाथीतरसूतसत्तासमवायवादिनामनुषज्येत तदेवं स्वतः सत एवेश्वरस्य स्वसमवायोऽभ्युपगंतव्यः कथंचित्सदात्मतया परिणतस्यैव सत्वसमवायस्योपपत्तैः । अन्यथा प्रमाणेन बाधनात् स्वयं सतः सत्वसमवायेऽस्य च प्रमाणप्रसिद्धेः । स्वयं द्रव्यात्मना परिणतस्य द्रव्यत्वसमवायः । स्वयं ज्ञानात्मना परिणतस्य महेश्वरस्य ज्ञानसमवाय इति युक्तमुत्पश्यामः स्वयं नीलात्मनीलसमवायवत् ॥ न हि काश्चदतथापरिणतस्तथात्वसमकाय भागुपलभ्यतेऽतिप्रसंगात् । ततः प्रमाणवलान्महेश्वरस्य सत्वद्रव्यत्वात्मत्ववत् स्वयं ज्ञत्वप्रसिद्ध निस्य समवायात तस्य ज्ञत्वपरिकल्पनं न कंचिदर्थ पुष्णाति । ज्ञव्यवहारं पुष्णातीति चेन्न । ज्ञे प्रसिद्ध ज्ञव्यवहारस्यापि स्वतः प्रसिद्धेः । यस्य हि योऽर्थः प्रसिद्धः स तत्र तद्व्यवहारप्रवर्तयन्नुपलब्धो यथा प्रसिद्धाकाशात्मा । आकाशे तव्यवहारप्रसिद्ध ज्ञश्वः कश्चित्तस्मात् ज्ञे तद्व्यवहारं प्रवर्तयति । यदि तु प्रसिद्धेऽपि ज्ञे ज्ञत्वसमवायपरिकल्पनमज्ञव्यवच्छेदार्थमिष्यते तदाप्रसिद्धेऽप्याकाशेऽनाकाशव्यवच्छेदार्थमाकाशत्वसमवायपरिकल्पनमिष्यतांतस्यैकत्वादाकाशत्वासंभवात्स्वरूपनिश्चयादेवाकाशव्यवहारप्रवृत्तौ शेऽपीश्वरे स्वरूपनिश्चयादेव ज्ञव्यवहारोऽस्तु किं तत्र ज्ञानसमवायपरिकल्पनया ज्ञान परिणामपरिणतो हि ज्ञः प्रतिपादयितुं शक्यो नार्थातरभूतः ज्ञानसमवायेन ततो ज्ञान समवायवानेवेह सिध्येत् न पुनाता । नार्थातरभूते ज्ञाने समुत्पन्ने ज्ञाता, स्मरणे स्मर्ता, भोगे च भोक्तेति तत्प्रतीतिकं दर्शनं तदात्मना परिणतस्यैव तथाव्यपदेशप्रसिद्धेः । प्रतीतिबलाद्धि तत्त्वं व्यवस्थापयंतो यद्यथा निर्बाधं प्रतीतियंति तथैव व्यवहरंतीति प्रेक्षापूर्वकारिणः स्युर्नान्यथा । ततो महेश्वरोऽपि ज्ञाता व्यवहर्तव्यो ज्ञातृस्वरूपेण प्रमाणतः प्रतीयमानत्वात् । यद्येन स्वरूपेण प्रमाणतः प्रतीयमानं तत्तथा व्यवहर्तव्यं यथा सामान्यादिस्वरूपतया ज्ञातृस्वरूपण प्रमाणत: प्रतीयमानश्च महेश्वरस्ततोज्ञातेति व्यवहर्तव्य इति । तदर्थमर्थातरभूतज्ञानसमवायपरिकल्पनमनर्थकमेव तदेवं प्रमाण बलात्स्वार्थव्यवसायात्मके ज्ञाने प्रसिद्ध महेश्वरस्य ततो भेदैकांतनिराकरणे च कथंचित्स्वार्थव्यवसायात्मकज्ञानादभेदोऽभ्युपगंतव्यः कथंचित्तादात्म्यस्यैव समवायस्य व्यवस्थापनात् । तथाच नानि विवादो नार्थे जिनेश्वरस्यैव महेश्वर इति नामकरणात्कथंचित्स्वार्थव्यवसायात्मज्ञानं तादात्म्यमृच्छतः पुरुषविशेषस्य जिनेश्वरत्वनिश्चयात् । तथा च स एव हि मोक्षमार्गस्य प्रणेता व्यवतिष्ठते सदेहत्वे धर्मविशेषत्वे च सति सर्वविन्नष्टमोहत्वात् यस्तु न मोक्षमार्गस्य मुख्यः प्रणेता स न सदेहो यथा मुक्तात्मा धर्मविशेषभाग्वा यथाऽतकृत्केवली । नापि सर्वविनष्टमोहो यथा रथ्यापुरुषः । सदेहत्वे धर्मविशेषत्वे च सति सर्वविन्नष्टमोहश्च जिनेश्वरस्तस्मान्मोक्षमार्गस्य प्रणेता व्यवतिष्ठत एव स्वार्थव्यवसायात्मकज्ञानात् । सर्वथाऽर्थातरभूतस्तु शिवः सदेहो निर्देहो वा न मोक्षमार्गोपदेशस्य कर्ता युज्यते कर्मभूभृतामभेतृत्वात् । यो यः कर्मभूभृतामभेत्ता स स न सर्वविन्नष्टमोहो यथा ऽऽकाशादिरभव्यो

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182