________________
सनातनजेनग्रंथमालायांस्योत्पादएव प्रागभावाभावस्ततोऽर्थातरस्यासंभवात् कथं तेन कार्यस्यप्रतिबंधः सिध्येत् कार्योत्पादामागभावाभावस्यार्थातरत्वे प्रागेव कार्योत्पादःस्यात् शश्वदभावाभावे शश्वत्सद्भाववत् । नान्यदैवाभावस्याभावोऽन्यदेव भावस्य सद्भाव इति अभावाभावसद्भाबयोः कालभेदो युक्तः सर्वत्राभावाभावस्यैव भावसद्भावप्रसिद्धेः भावाभावस्याभावप्रसिद्धिवत् तथा च कार्यसद्भाव एव तदभावाभावः कार्याभाव एव च तद्भावस्याभाव इत्यभावविनाशवद्भावविनाशप्रसिद्धः न भावाभावो परस्परमतिशयाते यतस्तयोरन्यतरस्यैवैकत्वनित्यत्वे नानात्वानित्यत्वे वा व्यवतिष्ठते ॥ तदनेनासत्वस्य नानात्वमनित्यत्वं च प्रतिजानता सत्त्वस्यापि तत्पतिज्ञातव्यमिति कथंचित्सत्तैका सदिति प्रत्ययाविशेषात् । कथंचिदनेकी प्राक्सदित्यादि सत्प्रत्ययभेदात् । कथंचिन्नित्या सैवयसत्ततिप्रत्यभिज्ञानात् कथंचिदनित्या कालभेदात पूर्वसत्ता पश्चात्सत्तेति सत्प्रत्ययभेदात् सकलबाधकामावादनुमंतव्या तत्प्रतिपक्षभूताऽस: त्तावत् । ततः समवायिविशेषणविशिष्टेहेदं प्रत्ययहेतुत्वात् समवायः समवायविशेषप्रतिनियमहेतु द्रव्यादिबिशेषणविशिष्टसत्प्रत्ययहेतुत्वा व्यादिविशेषप्रतिनियमहतुः सत्तावादतिविषमउपन्यासः सत्ताया नानाखसाधनात् तद्वत्समवायस्य नानात्वसिद्धेः सोऽपि हि कथंचिदक एव इहेदंप्रप्रत्ययाविशेषात् । कथंचिदनेक एव नानासमवायिविशिष्टहेदंप्रत्ययभेदात् । कथंचिन्नित्य एक प्रत्यभिज्ञायमानत्वात् । कथंचिदनित्य एव कालभेदेन प्रतीयमानत्वात् । नचैकत्राधिकरणे परस्परमेकत्वानेकत्वे नित्यत्वानित्यत्वे वा विरुद्धे सकलबाधकरहितत्वे सत्युपलभ्यमानत्वात् कथंचित्सत्वासत्ववत् । यदप्यभ्यधायि सत्त्वासत्त्वे नैकत्र वस्तुनि सकृत्संभवतस्त्रयोः विधिप्रतिषेधरूपत्वात् । ययोविधिप्रतिषेधरूपत्वं ते नैकत्र वस्तुनि सकृत्संभवतो यथा शीतत्वाशीतत्व । विधिप्रतिषेधरूपे च सत्त्वासत्त्वे तस्मान्नकत्र वस्तनि सकृत्संभवत इति । तदप्यनुपपन्नं वस्तुन्येकत्राभिधेयत्वानभिधेयत्वाभ्यां सकृत्संभवत्र्यां व्याभिचारात कस्यचित्स्वाभिधायकाभिधानापेक्षया अभिधेयत्वमन्याभिधायकाभिधानापेक्षया चानाभ धेयत्वं सकृदुपलभ्यमानमबाधितमेकत्राभिधेयत्वानाभधेयत्वयाः सत्संभवं साधयतीत्यभ्यनन्नाने स्वरूपाद्यपेक्षया सत्त्वं पररूपाचपेक्षया चासत्वं निर्बाधमनुभूयमानमेकत्र वस्तुनि सत्वासत्वयोः सकृत्संभवं किं न साधयेत् विधिप्रतिषेधरूपत्वाविशेषात् । कथंचिदुपलभ्यमानयोर्विरोधानवकाशात् यनैव स्वरूपेण सत्वं तेनैवासत्वमिति सर्वथाऽर्पितयारव सत्वासत्वयो युगपदकत्र विरोधसिद्धः । कथंचित्सत्वासत्वयोरेकत्र वस्तुनि सकृत्प्रसिद्धौ च तद्वदेकत्वानेकत्वयोनित्यत्वानित्यत्वयांश्च सकृदेकत्र निपायान्न किं: चिद्विप्रतिषिद्धं समवायस्यापि तथा प्रतीतरबाधितत्वात् । सर्वथैकत्व महश्वर एव ज्ञानस्य समवाया:
वृत्तिन पुनराकाशादिस्विति प्रतिनियमस्य नियामकमपश्यतो निश्चयासंभवात् । न चाकाशादीनामचेतनता नियामिका चेतनात्मगुणस्य ज्ञानस्य चेतनात्मन्येव महेश्वरे समवायोपपत्तरचतनद्रव्यगगनादौ तदयोगात ज्ञानस्य तद्गुणत्वाभावादिति वक्तुं युक्तं । शंभोरपि स्वतोऽचेतनत्वप्रतिज्ञानात् खादिभ्यस्तस्य विशेषासिद्धः । स्यादाकूतं नेश्वरः स्वतश्चेतनोऽचेतनो वा चेतनसमवायातुचेतयिता खाद. यस्तु न घेसनासमवायाश्चेतयितारः कदाचिदतोऽस्ति तेभ्यस्तस्य विशेष इति । तदप्यसत् । स्वतामहे: श्वरस्य स्वरूपानवधारणानिःस्वरूपतापत्तेः । स्वयं तस्यात्मरूपत्वान्न स्वरूपहानिरितिचेन्न । आत्मनाऽप्या स्मत्वयोमादात्मत्वेन व्यवहारोपगमात् स्वतोऽनात्मत्वादात्मरूपस्याप्यासद्धः। यदि पुनः स्वयं नात्मामहेशो नाप्यनाल्मा केवलमात्मत्वयोदात्मेति मतं । तदा स्वतः किमसौस्यात् ? द्रव्यामिति चेन्नः । द्रव्य त्वयोगाहव्यव्यवहारवचनात् । सतो द्रव्यस्वरूपेणापि महेश्वरस्याव्यवस्थितेः । यदि तु न स्वतोऽसौ. द्रव्यं नाप्यद्रव्यं द्रव्यत्वयोगाहव्यामिति प्रतिपाद्यते । तदा न स्वयं द्रव्यं स्वरूपस्याप्यभावात किंस्वरूपः शंभुर्भवेदिति वक्तव्यं । सन्नेव स्वयमसाविति चेन्न । सत्वयोगात्सन्निति व्यवहारसाधनात् स्वतः सपस्याप्रसिद्धेः । अथ न स्वतः सन्नचासन् सत्वसमवायात्तु सन्नित्यभिधीयते तदा व्याघातो दुरु: सरः स्यात् सत्वासत्वयोरन्योन्यव्यवच्छेदरूपयोरेकतरस्य प्रतिषेधेऽन्यतरस्य. विधानप्रसंगात् उभय प्रतिषेधस्यासंभवात् । कथमेवं सर्वथा सत्वोसत्वयाः स्याद्वादिभिः प्रतिषेधे तेषां व्यघातो न भवेदिति चेन्न