________________
आप्तपरीक्षा ।
तैः कथंचित्सत्त्वासत्त्वयोर्विधानात । सर्वथा सत्त्वासरखे हि कथंचित्सत्त्वासत्स्वव्यवच्छेदेनाभ्युपगम्येते सर्वथा सत्वस्य कथंचित्सत्त्वस्य व्यवच्छेदेन व्यवस्थानात् । असत्त्वस्य च कथंचिदसत्त्वव्यवच्छेदेने ति सर्वथा सत्त्वस्य प्रतिषेधे कथंचित्सत्वस्य विधानात् । सर्वथा चासत्वस्य निषेधे कथंचित्सत्वस्य विधिरिति कथं सर्वथा सत्वासत्वप्रतिषेधे स्याद्वादिनां व्याघातो दुरुत्तरः स्यात् सर्वथैकांतवादिनामेव तस्य दुरुत्तरत्वात् । एतेन द्रव्यत्वा द्रव्यत्वयोरात्मत्वानात्वयश्चेितनत्वा चेतनत्वयोश्च परस्परव्यवच्छेद रूप योर्युगपत्प्रतिषेधे व्याघातो दुरुत्तरः प्रतिपादितः । तदेकतरप्रतिषेधेऽन्यतरस्य विधेरवश्यंभावात् उभयप्रतिषेधस्यासंभवात् । कथंचित्सत्वासत्वयोर्वैशेषिकैरनभ्युपगमात् किं च स्वरूपेणासति महेश्वर सत्वसमवाये प्रतिज्ञायमाने खांबुजे सत्वसमवायः परमार्थतः किंन्न भवेत् स्वरूपेणासत्वाविशेषात् । खांबुजस्याभावान्न तत्र समवायः पारमार्थिक सङ्घर्गे द्रव्यगुणकर्मलक्षणे सत्वसमवायसिद्धेः । महेश्वर एवात्मद्रव्यविशेष सत्वसमवाय इति च स्वमनोरथमात्रं स्वरूपेणासतः कस्यचित्सद्वर्गत्वासिद्धेः ॥ स्वरूषेण सति महेश्वरे सत्वसमवायोपगमे सामान्यादावपि सत्वसमवायप्रसंगः स्वरूपेण सत्वाविशेषात् । यथैव हि महेश्वरस्य स्वरूपत सत्वं वृद्धवैशेषिकैरिष्यते तदा पृथिव्यादिद्रव्याणां रूपादिगुणानामुत्क्षेपणादिकर्मणां सामान्यविशेषसमवायानां च प्रागभावादीनामपीष्यत एव तथापि क्वचिदेव सत्वसमवायसिद्धौ नियम हेतुर्वक्तव्यः सत्सदितिज्ञानमवाधितं नियमहेतुरितिचेन्न । तस्य सामान्यादिष्वपि भावात् । यथैव हि द्रव्यं सत् गुणः सन् कर्म सदिति ज्ञानमवाधितमुत्पद्यते तथा सामान्यमस्ति विशेषोइस्ति समवायोऽस्ति प्रागभावादयः संतीति ज्ञानमप्यबाधितमेव । सामान्यादिप्रागभावादितत्त्वास्ति त्वं । अन्यथा तद्वादिभिः कथमभ्युपगम्यते । तत्रास्तित्वधर्मसद्भावादस्तीति ज्ञानं न पुनः सत्तासंबंधा नवस्थाप्रसंगात् || सामान्यकल्पनात् । विशेषेषु च सामान्योपगमे सामान्यज्ञानात् विशेषानुपलंभादुभयतद्विशेषस्मरणाश्च कस्यचिदवश्यं भाविनि संशये तद्व्यवच्छेदार्थ विशेषांतरकल्पनानुषंगः । पुनस्तत्रापि सामन्यकल्पने ऽवश्यंभावी सशंयः सति तस्मिंस्तद्व्यवच्छेदाय तद्विशेषांतरकल्पनायामनब्रस्थाप्रसंगात्। परापरविशेषसामान्यकल्पनस्यानिवृत्तेः सुदूरमपि गत्वा विशेषेषु सामान्यानभ्युपगमे सिद्धाः सामान्यरद्दिता विशेषाः समवाये च समान्यस्यासंभवः प्रसिद्ध एव तस्यकत्वात् संभवे चानव्रस्थानुषंगात् समवाये सामाम्यस्य समवायांतरकल्पनादिति न सामान्यादिषु सदिति ज्ञानं सत्ता निबंधनं बाध्यमानत्वात् । तथा प्रागभावादिष्वपि सत्तासमवाये प्रागभावादित्वविरोधात् न सत्ता निबंधन मस्तीतिज्ञानं । ततोऽस्तित्वधर्मविशेषणसामर्थ्यादेव तत्रास्तीति ज्ञानमभ्युपगतव्यं । अन्यथाऽस्तीति व्यवहारायोगादिति केचिद्वैशेषिकाः समभ्यमंसत तांश्च परे प्रतिक्षिपंति । सामान्यादिषूपचरितसत्वाभ्युपगमात् मुख्यसत्त्रे बाधक सद्भावान्न पारमार्थिकसत्वं, सत्तासबंधादि वाऽस्तित्वधर्मविशेषणबलादपि संभाव्यते, सत्ताव्र्यतिरेकेणास्तित्वधर्मग्राहकप्रमाणाभावात् । अन्यथास्तित्वं धर्मेष्वस्तीति प्रत्ययादस्तित्वांतरपरिकल्पनायामनवस्थानुषंगात् । तत्रोपचरितस्यास्तित्वस्यप्रतिज्ञाने सामान्यादिष्वपि तदुपचरितमस्तु मुख्ये बाधकसद्भापात् सर्वत्रोपचारस्य मुख्यबाधकसद्भावादेवोपपत्तेः । प्रागभावादिष्वपि मुख्यास्तित्वबाधके। पपत्तेरुपचारत एवास्तित्वव्यवहारसिद्धेरिति तेषां द्रव्यादिष्वपि सदितिज्ञानं सत्तानिबंधनं कुतः सिध्येत् तस्यापि बाधकसद्भावात् । तेषां स्वरूपतोऽसत्वे सत्वे वा सत्तासंबंधानुपपत्तेः । स्वरूपेणासत्सु द्रव्यादिषु सत्तासंबंधेतिप्रसंगस्य बाधकस्य प्रतिपादनात् । स्वरूपतः सत्सु सत्तासंबधे अनवस्था तस्य बाधकस्योपनिपात तू सत्ता संबंधनापि सत्सु सत्वं पुनः सत्तासंबन्धपरिकल्पनप्रसंगात् तस्य वैयर्थ्यात् अपरिकल्पने स्वरूपतः सत्स्वपि तत एव सत्तासंबंधपरिकल्पनं माभूत् स्वरूपतः सत्वा दुसाधारणात् सत्सादित्यनुवृत्तिप्रत्ययस्यानुपपत्तेः । द्रव्यादिषु तन्निबंधनस्य साधारणसत्तासंबंधस्य परिकल्पनं न व्यर्थमिति चेन्न । स्वरूपसत्वादेव सदृशात्सदिवि प्रत्ययस्योपपत्तेः । सदृशेतरे परिणामसामर्थ्यादेव द्रव्यादीनां साधारणासाधारणसत्वनिबंधनस्य सत्प्रत्ययस्यघटनात् । सवर्थाऽर्थीतरभूत सत्तासंबंधसामर्थ्यात्सदिति प्रत्ययस्य साधरणस्यायोगात् । सत्तावद्द्रव्यं सत्तावान्गुणः सत्तावत्कर्मेति
३१