________________
आप्तपरीक्षा। समानत्वात् । नहि विभिन्न देशेषु घटपटादिषु युगपत्सत्वोपलंभोऽसिद्धः संतोऽमी घटादय इति प्रती. सेरबाधितस्वात् । व्योम्रानैकांतिकोऽयं हेतुरितिचेन्न । तस्य प्रत्यक्षताभिन्नदेशतयाऽतींद्रियस्य युगपदुपलंभाभावात् । परेषां युगपद्भिनदेशाकाशलिंगशब्दोपलंभासंभवाच नानुमानतोऽपि भिन्नदेशतया युगपदुपलंभोऽस्ति यतस्तेनानैकांतिकत्वं हेतोरभिधीयते । नानादेशाकाशलिंगशब्दानां नानादेशस्थपुरुषैः श्रवणादाकाशस्यानुमानात् युगपद्भिन्नदेशतयोपलंभस्य प्रसिद्धावपि न तेन व्यभिचारः साधनस्य तस्य प्रदशभेदानानात्वसिद्धेः । निःप्रदेशस्य युगपद्भिनदेशकालसकलमूर्तिमव्यसंयोगानामनुपपत्तेरेकपरमाणुवनचेयं सत्ता स्वतंत्रः पदार्थः सिद्धः पदार्थधर्मत्वेन प्रतीयमानत्वादसत्त्ववत् । यथैक हि घटस्यासत्वं पटस्यासत्त्वमिति पदार्थधर्मतया प्रतीयमानत्वान्नासत्त्वं स्वतंत्रः पदार्थः तथा घटस्य सत्त्वं पटस्य सत्त्वंमिति पदार्थधर्मत्वनोपलभ्यमानत्वात्सत्त्वमपि सर्वथाविशेषाभावात्सर्वत्र घटःसन् पटःसन् इति प्रत्ययस्याविशेषादेकं सत्त्वं पदार्थधर्मत्वेऽपीतिचत् तार्ह सर्वत्रासदिति प्रत्ययस्याविशेषाद्भावपरतंत्रत्वेऽप्येकमसत्वमभ्युपगम्यतां प्रागसत्पश्चादसदितरत्रेतरदसदत्यंतमसदिति प्रत्ययविशेषात् प्रागसत्त्वपश्चादसत्त्वेतरेतरासत्त्वात्यंतासत्त्वभेदसिद्ध.कमसत्वमिति चेत् । नन्वेवं विनाशात्पूर्व सत्त्वं प्राक्सत्वं खरूपलाभादुत्तरं सत्त्वं पश्चात्सत्त्वं समानजातीययोः केनचिद्रूपेणेतरेतरत्रसत्त्वमितरेतरसत्त्वं कालत्रयेऽप्यनाद्यनंतस्य सत्त्वमत्यंतसत्त्वमिति सत्त्वभेदः किं नानुमन्यते सत्प्रत्ययस्यापि प्राकालादितया विशेष, सिद्धर्षाधकाभावात् यथाचासत्त्वस्य सर्वथैकत्वे कचित्कार्योत्पत्तौ प्रागभावविनाशे सर्वत्राभावविनाशप्रसंगात् । न किंचित्प्रागसदिति सर्वकार्यमनादि स्यात् । न किंचित्पश्चादसदिति तदनंत स्यात् न कचित्किंचिदसदिति सर्व सर्वात्मकं स्यान्न क्वचिदत्यंतमसदिति सर्व सर्वत्र सर्वदा प्रसज्यतेति बाधकमपि तथा सत्त्वैकत्वे समानमुपलभामहे कस्यचित्प्रध्वंसे सत्त्वाभावे सर्वत्र सत्त्वाभावप्रसंगात् न किंचित्कुतश्चित्प्राक् सत् पश्चात्सद्वा नापीतरत्रेतरत्सत् स्यात् अत्यंतसद्वेति. सर्वशून्यतापत्तिर्दुःशक्यापरिहतु । तां परिनिहीर्षता सत्त्वस्य भेदोऽभ्युपगंतव्य इति नैका सत्ता सवर्थासिध्येदसत्तावत्तदनंत पायतोपपत्तेः । स्यान्मतिरेषा ते कस्यचित्कार्यस्य प्रध्वंसऽपि न सत्तायाः प्रध्वंसस्तस्यानित्यत्वात् पदार्थातरेषु सत्प्रत्ययहेतुत्वात् प्राकालादिविशेषणभेदेऽप्यभिन्नत्वात् सर्वथा शून्यतां परिहरतोऽपि सत्तानंतपायतानुपपत्तिरिति सापि न साधीयसी कस्यचित्कार्यस्योत्पादेऽपि प्रागभावस्याभावानुपपत्तिप्रसंगात् तस्य नित्यत्वात् । पदार्थातराणामुत्पत्तः पूर्व प्रागभावस्य स्वप्रत्ययहेतोः सद्भावसिद्धेः समुत्पन्नककार्यविशेषणतया विनाशव्यवहारेऽपि प्रागभावस्याविनाशिनो नानानुत्पन्नकार्यापेक्षया विशेषणभेदेऽपि भेदासंभवादेकत्वाविरोधात । नद्युत्पत्तेः पूर्व घटस्य प्रागभावः पटस्य प्रागभाव इत्यादि विशेषणभेदेऽप्यभावोभिद्यते घटस्य सत्ता पटस्य सत्तेत्यादिविशेषणभेदेऽपि सत्तावत् । ननु प्रागभावस्य नित्यत्वे कार्योत्पत्तिनस्यात्तस्य तत्प्रतिबंधकत्वात्तदप्रतिबंधकत्वे प्रागपि कार्योत्पत्तेः कार्यस्यामादित्वप्रसंग इतिचेत् तार्ह सत्ताया नित्यत्वे कार्यस्य प्रध्वंसो न स्यात् तस्यास्तत्प्रतिबंधकत्वात् लदप्रतिबंधकत्वे प्रध्वंसात् प्रागपि प्रध्वंसप्रसंगात् । कार्यस्थ स्थितिरेक न स्यात् कार्यसत्ता हि प्रध्वं. सात् प्राक् प्रध्वंसस्य प्रतिघातिकेति कार्यस्य स्थितिः सिध्येन्नान्यथा । यदि पुनर्बलवत्तध्वंसकारणसनिपाते कार्यस्थ सत्ता न प्रध्वंसं प्रतिबध्नाति ततः पूर्व तु बलवद्विनाशकारणाभावात् प्रध्वंसं प्रतिबध्नास्येव ततो न प्रागपि प्रध्वंसप्रसंग इति मतं तदा बलवदुत्पादककारणोपधानात् कार्यस्थोत्पादं प्रागभावः समपि न विरुणद्धि कार्योत्पादनात्पूर्व तदुत्पादकारणाभावात् तं विरुणद्धि ततो न प्रागपि कार्योत्पत्तिर्येन कार्यस्यानादित्वप्रसंग इति प्रागभावस्थ सर्वदा सद्भावो मन्यतां सत्तावत् । तथाचैक एव सर्वत्र प्रागभावोव्यतिष्ठते । प्रध्वंसाभावश्च न प्रागभावादातरभूतः स्यात् कार्यविनाशविशिष्टस्थ तस्यैक प्रध्वंसाभाव इत्यभिधानात् तस्यैवेतरेतरव्यावृत्तिविशिष्टस्यतरेतराभावाभिधामवत् ॥ ननु च कार्यस्थ विनाश एव प्रध्वंसाभावो न पुनस्तत्तोऽन्यः । येन विनाशविशिष्टः प्रध्वंसाभाव इत्यभिधीयते । नापीबरेतरव्यावृत्तिरितरेतराभावादन्यायेन तथा विशिष्टस्येतरेतएभावाभिधानमिति चेत् तींदानी कार्य