________________
सनातनजैनग्रंथमालायांसमनुमन्यतोऽपि न यथार्थवादिनः । समवायस्य सर्वथैकत्वे नानासमवायिविशेषणत्वायोगात् सत्तादृष्टांतस्यापि साध्यत्वात् नहि सर्वथैका सत्ता कुतश्चित्प्रमाणात्सिद्धा। ननु सत्प्रत्ययाविशेषाद्विशेषलिंगाभावादेका सत्ता प्रसिद्धवेति चेन्न । सर्वथा सत्प्रत्ययाविशेषस्यासिद्धत्वाद्विशिष्टलिंगाभावस्य च कथंचित्सत्प्रत्ययाविशेषस्तु कथंचिदेवैकत्वं सत्तायाः साधयेत् यथैव हि सत्सामान्यादेशात् सत्स. दिति प्रत्ययस्याविशेषस्तथा सद्विशेषादेशात् सत्प्रत्ययविशषोऽपि घटः सन् पठ: सन्नित्यादिः समर्नु. भूयते । घटादिपदार्थ एव तत्र विशिष्ठो न सत्तेति चेन्न । एवं घटादीनामपि सर्वथैकत्वप्रसंगात् । शक्यो हि वक्तुं घटप्रत्ययाविशेषादेकोघटः तद्धर्मा एव विशिष्टप्रत्ययहेतवो विशिष्टा इति । घटस्यैकत्वे कचिद्घटस्य विनाशे प्रादुर्भावे वा सर्वत्र विनाशः प्रादुर्भावो वा स्यात् । तथा च परस्परव्याघात: सकृद्धटविनाशप्रादुर्भावयोः प्रसज्यते इति चन्न । सत्ताया अपि सर्वथैकत्वे कस्यचित्प्रागसतः सत्तायाः संबंधे सर्वस्य सकृत्सत्तासंबंधप्रसंगात् । तदसंबंधे वा सर्वस्यासंबंध इति परस्परव्याघातः सत्तासंबंधासंबंधयोः सकृत्तहःपरिहारःस्यात् । प्रागसतः कस्यचिदुत्पादककारणसन्निधानादत्पद्यमानस्य संबंधः परस्य तदभावात् संबंधाभाव इति प्रागुक्तदोषाऽप्रसंगे घटस्यापि कचिदुत्पादककारणभावादुत्पादस्य धर्मस्य सद्भावे घटेन संबंधः कचित्तु विनाशहेतूपादानाद्विनाशस्य भावो घटस्य तेनासंबंध इति कुतः परोक्तदोषप्रसंगः । सर्वथैकत्वेऽपि घटस्य तद्धर्माणामुत्पादादीनां स्वकारणनियमाद्देशका. लाकारनियमोपपत्तेः । नयुत्पादादयो धर्मा घटादनातरभूता एव सत्ताधर्माणामपि तदनीतरत्वप्रसं. गात् । तेषां ततोऽर्थातरत्वे घटादुत्पादादीनामर्थातरत्वं प्रतिपत्तव्यं । तथाच त एव विशिष्ठा न घठ इति कथं न घटैकत्वमापद्यते । ननु घटस्य नित्यत्वे कथमुत्पादादयो धर्मा नित्यस्यानुत्पादाविनाश. धर्मकत्वादितिचेत् तर्हि सत्ताया नित्यत्वे कथमुत्पद्यमानैरथैः संबंधः प्रभज्यमानैश्चेति चिंत्यतां । स्वकारणवशादुत्पद्यमाना भज्यमानाश्वार्थाः शश्वदवस्थितया सत्तया संबंध्यंते । न पुनः शश्वदवस्थि. तेन घटेन स्वकारणसामर्थ्यादुत्पादादयो धर्माः संबंध्यंत इति स्वदर्शनपक्षपातमात्रं । घटस्य सर्वगतले पदार्थातराणामभावापत्तरुत्पादादिधर्मकारणानामप्यसंभवात् कथमुत्पादादयो धर्माः स्युरितिचेत् सत्तायाः सर्वगतत्वेऽपि प्रागभावादीनां कचिदनुपपत्तेः कथमुत्पाद्यमानैः प्रभज्यमानश्वार्थैः संबंधः सिध्येत् । प्रागभावाभावे हि कथं प्रागसतः प्रादुर्भवतः सत्तया संबंधः प्रध्वंसाभावाभावे हि कथं विनश्यतः पश्चादसतः सत्तायाः संबंधाभाव इति सर्व दुरवबोधं । स्यान्मतं सत्तायाः स्वाश्रयवृत्तित्वास्वाश्रयापेक्षया सर्वगतत्वं न सकलपदार्थापेक्षया सामान्यादिषु प्रागभावादिषु च तद्वत्यभावात् तत्रा बाधितस्य सत्प्रत्ययस्याभावाव्यादिष्वेव तदनुभवादिति । तदपि स्वगृहमान्यं । घटस्याप्येवमबाधित घटप्रत्ययोत्पत्तिहेतुष्वेव स्वाश्रयेषु भावात् न सर्वपदार्थव्यापित्वं पदार्थातरेषु घटप्रत्ययोत्पत्त्यहेतुषु सदभावादिति वक्तुं शक्यत्वात् । नन्वेको घटः कथमंतरालवर्तिपटाद्यर्थान् परिहृत्य नानाप्रदेशेषु दविष्टेषु भिन्नेषु वर्तते युगपदिति चेत् कथमेका सत्ता सामान्यविशेषसमवायान् प्रागभावादींश्च परिहृत्यद्रव्यादिपदार्थान् सकलान् सकृड्याप्नातीति समानः पर्यनुयोगः तस्याः स्वयममूर्तत्वाकेनचित्प्रतिघाताभावाददोष इति चेत् ताई घटस्याप्यनभिव्यक्तिमूर्तेः केनचित्प्रतिबंधाभावात्सर्वगतत्वे को दोषः सर्वत्र घटप्रत्ययप्रसंग इति चेत् सत्तायाः सर्वगतत्वे सर्वत्र सत्प्रत्ययः किं न स्यात् । प्रागभावादिषु तस्यास्तु तिरोधानान्न सत्प्रत्ययहेतुत्वमिति चेत् घटस्यापि पदार्थातरेषु तत्तिरोधानाद्धटप्रत्ययहेतुत्वं मा. भूत् । न चैवं सर्व सर्वत्र विद्यते इति वदतः सांख्यस्य किंचिद्विरुद्धं बाधकाभावात् तिरोधानावि. र्भावाभ्यां स्वप्रत्ययाविधानस्य कचित्स्वप्रत्ययविधानस्याविरोधात् । किंच घटादिसामान्यस्य घटादिव्यक्तिष्वभिव्यक्तस्य तदंतराले चानभिव्यक्तस्य घटप्रत्ययहेतुत्वाहेतुत्वे स्वयमुररीकुर्वाणः कथं न घटस्य स्वव्यंजकदेशेऽभिव्यक्तस्यान्यत्र चानभिव्यक्तस्य घटप्रत्ययहेतुत्वाहेतुत्वे नाभ्युपगच्छतीति स्वेच्छाकारी। स्यान्मतं नानाघटः सकृद्भिनदेशतयोपलभ्यमानत्वात् पटकटमुकुटादिपदार्थातरवदिति तार्ह नाना सत्ता युगपदाधकाभावे सति भिन्नदेशद्रव्यादिषूपलभ्यमानत्वात् तद्वदिति दर्शनांतरमायातं न्यायस्य