________________
आप्तपरीक्षा। ज्ञानादन्यस्तु निर्देहः सदेहो वा न युज्यते ।
शिवःकर्तोपदेशस्य सोऽभेत्ता कर्मभूभृतां ।। ७६ ॥ स्वतंत्रत्वे हि समवायस्य षण्णामाश्रितत्वम् "अन्यत्र नित्यद्रव्येभ्य" इति कथमाश्रितत्वं स्वयं वैशेषिकैरिष्टमिति तंत्रविरोधो दोषः । तस्याश्रितत्वप्रतिपादने स्वतंत्रत्वविरोधात् । पराश्रितत्वं हि पारसंध्यं तेन स्वातंत्र्यं कथं न प्रतिहन्यते । स्यान्मतं न परमार्थतः समवायस्याश्रितत्वं धर्मः कथ्यते यतस्तंत्रविरोधःस्यात् किंतूपचारत् निमित्तंतूपचारस्य समवायिषु सत्सु समवायज्ञानं समवायिशून्ये देशे समवायज्ञानासंभवात् परमार्थतस्तस्याश्रितत्वे स्वाश्रयनाशात् विनाशप्रसंगात् गुणादिवदिति । वदसत् । दिगादीनामप्येवमाश्रितत्वप्रसंगात् । मूर्तद्रव्येषु सत्सूपलब्धिलक्षणप्राप्तेषु दिलिंगस्येदमतः पूर्वेणैत्यादिप्रत्ययस्य काललिंगस्य च परत्वापरत्वादिप्रत्ययस्य सद्भावात् मूर्तद्रव्याश्रितत्वोपचारप्रसंगात् । तथाचान्यत्र नित्यद्रव्येभ्य इति व्याधात: नित्यद्रव्यस्यापि दिगादेरुपचारादाश्रितत्वसिद्धेः । सामान्यस्यापि परमार्थतोऽनाश्रितत्वमनुषज्यते स्वाश्रयविनाशेऽपि विनाशाभावात् समवायवत्तदिदै खाभ्युपगमविरुद्धं वैशेषिकाणां, उपचारतोऽपि समवायस्याश्रितत्वं स्वातंत्र्यं वा । किंच समवायो न संबंधः सर्वथाऽनाश्रितत्वात् यो यः सर्वथाऽनाश्रितः स स न संबंधो यथा दिगादिः, सर्वथाऽना. श्रितश्च समवायः तस्मान्न संबंध इति इहेदं प्रत्ययलिंगो यः स समवायो न स्यात् अयुतसिद्धानामाधार्याधारभूतानामपि संबंधांतरेणाश्रितेन भवितव्यं संयोगादेरसंभवात् । समवायस्याप्यनाश्रितस्य संबंधत्वविरोधात् । स्यादाकूतं । समवायस्य धर्मिणोऽप्रतिपत्तौ हेतोराश्रयासिद्धत्वं । प्रतिपत्तौ धर्मिप्राहकप्रमाणबाधितःपक्षो हेतुश्च कालात्ययापदिष्टः प्रसज्येत । समवायो हि यतः प्रमाणात्प्रतिपन्नस्ततएवायुतसिद्धसंबंधत्वं प्रतिपन्नमयुतसिद्धानामेव संबंधस्य समवायव्यपदेशसिद्धेरिति । तदपि न साधीयः । समवायिग्राहिणा प्रमाणेनाश्रितस्यैव समवायस्याविष्वग्भावलक्षणस्य प्रतिपत्तेस्तस्यानाश्रितत्वाभ्यपगमे चासंबंधत्वस्य प्रसंगेन साधनात । साध्यसाधनयोाप्यव्यापकभावसिद्धौ परस्य व्याप्याभ्युपगमे तनांतरीयकस्य व्यापकाभ्युपगमस्य प्रतिपादनात् । नानाश्रितत्वमसंबंधत्वेन व्याप्तं दिगादिष्वसिद्धं । नाप्यनैकांतिकमनाश्रितस्य कस्यचित्संबंधत्वाप्रसिद्धेः विपक्षे वृत्यभावात् तत एव न विरुद्धं । नापि सत्प्रतिपक्षं तस्यानाश्रितस्यापि संबंधत्वव्यवस्थापकानुमानाभावादिति न परेषां समवायः संबंधोऽस्ति यतः प्रतिनियमः कस्यचित्कचित्समवायिनि व्यवस्थाप्यते । भवतु वा समवायः । किमेकोऽनेको वा । यदि सर्वत्रैकएव समवायोऽभ्युपगम्यते तदा महेश्वरे ज्ञानं समवैति न पुनरेवं दिगादौ वेति कथमवबुध्यते । इहेति प्रत्ययादिति चेन्न तस्येह शंकरे ज्ञानमिति प्रत्ययस्यैकसमवायहेतुकस्य खादिव्यवच्छेदेन शंकर एव ज्ञानसमवायसाधनासमर्थत्वात् । नियामकादर्शनारेदस्य व्यवस्थापयितुमशक्तेः । ननु च विशेषणभेद एव नियामकः सत्तावत् सत्ता हि द्रव्यादिविशेपणभेदादेकापि भिद्यमाना दृष्टा प्रतिनियतद्रव्यादिसत्वव्यवस्थापिका द्रव्यं सत् गुणःसन् कर्म सदिति, द्रव्यादिविशेषणविशिष्टस्य सत्प्रत्ययस्य द्रव्यादिविशिष्टसत्ताव्यवस्थापकत्वात् तद्वत्समवायिविशेषणविशिष्टहेदं प्रत्ययाद्विशिष्टसमवायिविशेषणस्य समवायस्य व्यवस्थितेः । समवायो हि यदुपलक्षितो विशिष्टप्रत्ययात्सिध्यते तत्प्रतिनियमहतुरेवामिधीयत यथेह तंतुषु पट इति तंतुपटविशिष्टेहेदं प्रत्ययात्तंतुष्वेव पटस्य समवायो नियम्यते न वीरणादिषु नचायं विशिष्टेहदंप्रत्यय: सर्बस्य प्रतिपत्तुः प्रतिनियतविषयः समनुभूयमानः पर्यनुयोगार्हः किमितिभवन् तत्रैव प्रतिनियतोऽनुभूयते न पुनर. न्यत्रेति । तथा तस्य पर्यनुयोग कस्यचित्स्वेष्टतत्त्वव्यवस्थानुपपत्तेः । तव्यवस्थापकप्रत्ययस्यापि पर्यनुयोग्यत्वानिवृत्तेः । सुदूरमपि गत्वा यदि कस्यचित्प्रत्ययविशेषस्यानुभूयमानस्य पर्यनुयोगाविषयत्वात् । ततस्तत्वव्यवस्थितिरभ्युपगम्यते तदेहशंकरे ज्ञानमिति विशिष्टहेदंप्रत्ययात्प्रमाणोपपन्नात्तत्रैव ज्ञान समवायो व्यवतिष्ठते न खादिषु । विशेषणभेदात्समवायस्य भेदप्रसिद्धेरिति केचिद्व्युत्पन्नवैशेषिकाः