________________
सनातनजनग्रंथमालायांएक एव च सर्वत्र समवायो यदीष्यते। . तदा मेहश्वरे ज्ञानं समवैति न खे कथं ॥२॥ इहेति प्रत्ययोऽप्येष शंकरे न तु खादिषु । इति भेदःकथंसिध्येनियामकमपश्यतः ॥६३।। न चाचेतनता तत्र संभाव्येत नियामिका । शंभावपि तदास्थानात् खादेस्तदविशेषतः ॥६॥ नेशो ज्ञाता न चाज्ञाता स्वयं ज्ञानस्य केवलं । समवायात्सदा ज्ञाता यद्यात्मैव स किं स्वतः ॥६५॥ नायमात्मा न चानात्मा स्वात्मत्वसमवायतः। सदात्मैवेतिचेदेवं द्रव्यमेव स्वतोऽसिधत् ॥६६॥ नेशो द्रव्यं न चाद्रव्यं द्रव्यत्वसमवायतः । सर्वदा द्रव्यमेवेति यदि सन्नेव स स्वतः ॥६॥ न स्वतः सन्नसन्चापि सत्वेन समवायतः। सन्नेव शश्वदित्युक्तौ व्याघातः केन यते ॥६८॥ स्वरूपेणासतः सत्वसमवाये च खांबुजे । स स्यात् किं न विशेषस्याभावात्तस्य ततोऽजसा ॥६९॥ स्वरूपेण सतःसत्वसमवायेपि सर्वदा। सामान्यादी भवेत्सत्वसमवायोऽविशेषतः ॥७०॥ स्वतः सतो यथा सत्त्वसमवायस्तथास्तु सः । द्रव्यत्वात्मत्वबोद्धृत्वसमवायोऽपि तत्त्वतः ॥७१ ॥ द्रव्यस्यैवात्मनो बोडुःस्वयं सिद्धस्य सर्वदा । नहि स्वतो तथाभूतस्तथात्वसमवायभाक् ॥ ७२ ॥ स्वयं ज्ञत्वे च सिद्धेऽस्य महेशस्य निरर्थकं । ज्ञानस्य समवायेन ज्ञत्वस्य परिकल्पनं ॥ ७३ ॥ तत्स्वार्थव्यवसायात्मज्ञानतादात्म्यमृच्छतः । कथं चिदीश्वरस्यास्ति जिनेशत्वमसंशयं ॥ ७४ ॥ स एव मोक्षमार्गस्य प्रणेता व्यवतिष्ठते । सदेह सर्वविन्नष्टमोहो धर्मविशेषभाक् ॥७५ ॥