Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 16
________________ 4 २ सनातन जैन ग्रंथमालायां । लक्षणस्य सकलास्तिकप्रसिद्धत्वात् तस्य च सद्भावे बहिरंगस्य सत्यंतरंगे द्रव्यक्रोधादिबंधे भावबंधस्य सद्भावः तदभावेचासद्भावः सिद्ध एवेति मिथ्यादर्शनहेतुको भावबंधः । तद्वदविरतिहेतुकश्च समुत्पन्नसम्यग्दर्शनस्याऽपि कस्यचिदप्रकृष्टो भावबंध: सत्यामविरतौ प्रतीयते एव ततोऽप्यप्रकृष्टो भावबंधः । प्रमादहेतुकः स्यादविरत्यभावेऽपि कस्यचिद्विरतस्य सति प्रमादे तदुपलब्धेः ततोऽप्यप्रकृष्टः । कषायहेतुकः सम्यग्दृष्टेर्विरतस्याऽप्रमत्तस्याऽपि कषायसद्भावे भावात् । ततोऽप्यप्रकृष्टवपुर ज्ञानलक्षणो, भावबंधो योगहेतुकः क्षीणकषायस्याऽपि योगसद्भावे तत्सद्भावात् । केवलिनस्तु योगसद्भावेऽपि न भावबंधः, तस्य जीवन्मुक्तत्वान्मोक्षप्रसिद्धेः । न चैवमेकैकहेतुक एव बंधः पूर्वस्मिन् पूर्वस्मिन्नुत्तरस्योत्तरस्य बंधहेतोः सद्भावात् । कषायहेतुको हि बंधो योगहेतुकोऽपि प्रमादहेतुकच योगकषायहेतुकोऽपेि । अविरतिहेतुकश्च योगकषायप्रमादहेतुकः प्रतीयते । मिथ्यादर्शनहेतुकश्च योगकषायप्रमादाविर तिहेतुकः सिद्ध इति मिथ्यादर्शन। दिपंचविधप्रत्ययसामर्थ्यान्मिथ्याज्ञानस्य बंधहेतोः प्रसिद्धेः षट्प्रत्ययोऽपि बंधोऽभिधीयते । न चायं भावबंधो द्रव्यबंधमंतरेण भवति, मुक्तस्यापि तत्प्रसंगादिति द्रव्यबंध: सिद्धः । सोऽपि भिध्यादर्शनाविरतिप्रमादकषाययोगहेतुक एव बंधत्वाद्भावबंधवदिति मिथ्यादर्शनादिबंधहेतुः सिद्धः । तदभावः कुतः सिद्धयेदिति चेत् तत्प्रतिपक्षभूतसम्यग्दर्शना दिसात्मीभावात् । सति हि सम्यग्दर्शने मिथ्यादर्शनं निवर्तते तद्विरुद्धत्वात् । यथोष्णस्पर्शे सति शीतस्पर्श इति प्रतीतं । तथैवाऽविरतिर्विरत्यां सत्यामपैति । प्रमादश्चाप्रमादपरिणतौ कषायोऽकषायतायां योगश्चायोगतायामिति बंधहेत्वभावः सिद्धोऽपूर्वकर्मणां आस्रवनिरोधः संवर, इति वचनात् । ननु च स गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचरित्रेभ्यो भवतीति सूत्रकारमतं न पुनः सम्यग्दर्शनादिभ्य इति न मंतव्यं । गुप्त्यादीनां सम्यग्दर्शनाद्यात्मकत्वात् । न हि सम्यग्दर्शनरहिता गुप्त्यादयः संति सम्यग्ज्ञानरहिता वा तेषामपि विरत्यादिरूपत्वात् । चारित्रभेदा ह्येते प्रमादरहिताः कषायरहिताश्चायोगतामपि लभंते । ततो न कश्चिद्दोषः । कथमात्मनः पूर्वोपात्तकर्मणां निर्जरा सिद्ध्येदित्यभिधीयते । क्वचिदात्मनि कात्स्यर्नतः पूर्वोपात्तानि कर्माणि निर्जीर्यते तेषां विपाकांतत्वात् । यानि तु न निर्जीर्यते तानि न विपाकांत यथा कालादीनि, विपाकांतानि च कर्माणि तस्मान्निर्जीर्यते । विपाकांतत्वं नासिद्धं कर्मणां । तथा हि विपाकांतानि कर्माणि फलावसानत्वाद्वह्यादिवत् । तेषामन्यथा नित्यत्वानुषंगात् । न च नित्यानि कर्माणि नित्यं तत्फलानुभवन प्रसंगात् । यत्र चात्मविशेषे अनागतकर्मबंधहेत्वभावादपूर्वकमनुत्पत्तिस्तत्र पूर्वोपात्तकर्मणां यथाकालमुपक्रमाच्च फलदानात्कात्स्य्र्तेन निर्जरा प्रसिद्वैव । ततः कृत्स्नबंधहेत्वभावनिर्जरावत्त्वं साधनं प्रसिद्धं कृत्स्नकर्मविप्रमोक्षं साधयत्येव । ततस्तल्लक्षणं परं निःश्रेयसं व्यवतिष्ठते । तथाऽत्यलक्षणमपरं सुनिश्चितासंभवद्बाधकप्रमाणत्वात् सुखादिवदिति सर्वज्ञत्वसिद्धौ निर्णेष्यते । श्रेयसो मार्गः श्रेयोमार्गो निःश्रेयसोपायो वक्ष्यमाणलक्षणस्तस्य संसिद्धिः संप्राप्तिः सम्यग्ज्ञप्तिर्वा सा हि परमेष्ठिनः प्रसादाद्भवति मुनिपुंगवानां यस्मात्तस्मात्ते मुनिपुंगवाः सूत्रकारादयः शास्त्रस्यादौ तस्य परमेष्ठिनो गुणस्तोत्रमाहुरिति संबंध: । परमेष्ठी हि भगवान् परमोऽईन् तत्प्रसादात्परमागमार्थनिर्णयोपरस्य परमेष्ठिनो गणधरदेवादेः संपद्यते तस्माच्चापरपरमेष्ठिनः परमागमशब्दसंदर्भों द्वादशांग इति । परापरपरमेष्ठिभ्यां परमागमार्थशब्दशरीरसंसिद्धिस्तद्विनेयमुख्यानां तेभ्यश्च स्वशिष्याणामिति गुरुपूर्वक्रमात्सूत्रकाराणां परमेष्ठिनः प्रसादात्प्रधानभूतपरमार्थस्य श्रेयोमार्गस्य संसिद्धिरभिधीयते । प्रसादः पुनः परमेष्ठिनस्तद्विनेयानां प्रसन्न मनोविषयत्वमेव वीतरागाणां तुष्टिलक्षणप्रसादासंभवात्कोपासंभववत् । तदाराधकजनैस्तु प्रसन्नेन मनसोपास्यमानो भगवान् प्रसन्न इत्यभिधीयते रसायनवत् । यथैव हि प्रसन्नेन मनसा रसायनमासेव्य तत्फलमवाप्नुवंतः संतो रसायनप्रसादादिदमस्माकमारोग्यादिफलं समुत्पन्नमिति प्रतिपद्यते तथा प्रसन्नेन मनसा भगवंतं परमेष्ठिनमुपास्य तदुपासनफलं श्रेयोमार्गाधि

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 182