Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 33
________________ आतपरीक्षा । ༤་ चिशेषाभावात् । यथैव हि इह महेश्वरज्ञानेऽतिशया इति ततोऽर्थातरभाविनोऽपि प्रतीयते तथेह घटे तेऽतिशयाः प्रतीयंतां । तत्रैव तेषां समवायादिहेदमिति प्रत्ययविशेषेा न पुनरन्यत्रेति चेत् सोयमन्योन्यसंश्रयः । सतीहेदमिति प्रत्ययविशेषेऽतिशयानामीश्वरज्ञान एवं समवायः सिद्ध्येत् तत्रैव तेषां समवायादिहेदमिति प्रत्ययविशेषो नियम्यत इति नैकस्यापि प्रसिद्धिः । भवतु वा तेषां तत्र समवायः, स तु क्रमेण युगपद्वा, क्रमेण चेत् कथमक्रममीश्वरज्ञानं क्रमभाव्यनेकातिशयसमवाय क्रमेण प्रतिपद्यत इति दुरवबोधं, क्रमवर्तिभिरतिशयांतरैरीश्वरज्ञानस्य क्रमवत्वसिद्धेरदोषोऽयमिति चेत् ननु तान्यप्यन्यान्यतिशयांतराणीश्वरज्ञानादर्थातरभूतानि कथं तस्य क्रमवत्तां साधयेयुरति प्रसंगात् । तेषां तत्र समवायादिति चेत् स तर्हि तत्समवायः क्रमेण युगपद्वेत्य निवृत्तः पर्यनुयोगोऽनवस्था च । यदि पुनर्युगपदीश्वरज्ञानेऽतिशयानां समवायस्तदा तन्निबंधनोऽपि तस्य क्रमो दूरोत्सारित एव तेषामक्रमत्वादिति सातिशयस्यापीश्वरज्ञानस्याक्रमत्वसिद्धिः । तथा चाक्रमादीश्वरज्ञानात्कार्याणां क्रमो न स्यादिति सूक्तं दूषणं । किं च तदीश्वरज्ञानं प्रमाणं स्यात्फलं वा पक्षद्वयेऽपि दोषमादर्शयन्नाह - तस्य प्रमाणत्वे फलाभावः प्रसज्यते । ततः फलावबोधस्यानित्यस्येष्टौ मतक्षतिः ॥ २७ ॥ फलत्वे तस्य नित्यत्वं न स्यान्मानात्समुद्भवात् । ततोऽनुद्भवने तस्य फलत्वं प्रतिहन्यते ॥ २८ ॥ नेश्वरज्ञानं नित्यं प्रमाणं सिद्ध्येत् तस्य फलाभावात् । फलज्ञानस्यानित्यस्य परिकल्पने च महेश्वरस्य नित्यानित्यज्ञानद्वयपरिकल्पनायां सिद्धांतविरोधात् । फलत्वेवेश्वरज्ञानस्य नित्यत्वं न स्यात् प्रमाणतस्तस्य समुद्भवात् । ततोऽनुद्भवे तस्य फलत्वविरोधान नित्यमीश्वरज्ञानमभ्युपगमनीयं तस्य निगदितदोषानुषंगेण निरस्तत्वात् । किं तर्ह्यनित्यमेवेश्वरज्ञानमित्यपरे । तन्मतमनूद्य निराकुर्वन्नाह - अनित्यत्वे तु तज्ज्ञानस्यानेन व्यभिचारिता । कार्यत्वादेर्महेशेन करणेऽस्य स्वबुद्धितः ॥ २९ ॥ बुद्ध्यंतरेण तद्बुद्धेः करणे चानवस्थितिः । नानादिसंततिर्युक्ता कर्मसंतानतो विना ॥ ३० ॥ अनित्यं हीश्वरज्ञानमीश्वरबुद्धिकार्य यदि नेष्यते तदा तेनैव कार्यत्वादिहेतुस्तनुकरणभुवनादेर्बुद्धिमत्कारणत्वे साध्येऽनैकांतिकः स्यात् । यदि पुनर्बुद्ध्यंतरेण स्वबुद्धिमीश्वरः कुर्वीत तदा परापरबुद्धिप्रतीक्षायामेवोपक्षीणत्वादीश्वरस्य प्रकृतबुद्धेः करणं न स्यादनवस्थानात् । स्यान्मतं प्रकृतबुद्धेः करणे नापूर्वबुद्ध्यंतरं प्रतीक्षते महेशः । किं तार्ह पूर्वोत्पन्नां बुद्धिमाश्रित्य प्रकृतां बुद्धिं कुरुते तामपि तत्पूर्व बुद्धिभित्यनादिर्बुद्धिसंततिरीश्वरस्य ततो नानवस्थेति । तदप्यसत् । तथाबुद्धिसंतानस्य कर्मसंतानापायेऽसंभवात् । क्रमजन्मा हि बुद्धिः परापरतद्धेतोरदृष्टविशेषस्य क्रमादुत्पद्यते नान्यथा । यदि पुनर्योग. जधर्म संततेरनादेरीश्वरस्य सद्भावादयमेनुपालंभः पूर्वस्मात् समाधिविशेषाद्धमंस्यादृष्टविशेषस्योत्पादाततो बुद्धिविशेषस्य प्रादुर्भावाददृष्टसंतान निबंधनाया एव बुद्धिसंततेरभ्युपगमादितिमतं तदापि कथमीश्वरस्य सकर्मता न सिद्ध्येत् । तत्सिद्धौ च सशरीरताऽपि कथमस्य न स्यात् तस्यां च सत्यां न सदा मुक्तिस्तस्य सिद्ध्येत् । संदेहमुक्तः सदासिद्धौ तद्देहेन च कार्यत्वादेः साधनस्य तन्वादेर्बुद्धिम. त्कारणत्वे साध्ये कथमनैकांतिकता परिहर्तुं शक्येति तस्य बुद्धिमत्कारणत्वासंभवात् । संभवे चान. वस्थानुषंगादिति प्रागेवोक्तं । किं चेदं विचार्यते किमीश्वरज्ञानमव्यापि किं वा व्यापीति प्रथमपक्षे दूषणमाह । १ अदोषः । २ जीवन्मुक्तेः । ३ नित्यत्वे । ४ जीवन्मुक्तदेहेन ।

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182