________________
आतपरीक्षा ।
༤་
चिशेषाभावात् । यथैव हि इह महेश्वरज्ञानेऽतिशया इति ततोऽर्थातरभाविनोऽपि प्रतीयते तथेह घटे तेऽतिशयाः प्रतीयंतां । तत्रैव तेषां समवायादिहेदमिति प्रत्ययविशेषेा न पुनरन्यत्रेति चेत् सोयमन्योन्यसंश्रयः । सतीहेदमिति प्रत्ययविशेषेऽतिशयानामीश्वरज्ञान एवं समवायः सिद्ध्येत् तत्रैव तेषां समवायादिहेदमिति प्रत्ययविशेषो नियम्यत इति नैकस्यापि प्रसिद्धिः । भवतु वा तेषां तत्र समवायः, स तु क्रमेण युगपद्वा, क्रमेण चेत् कथमक्रममीश्वरज्ञानं क्रमभाव्यनेकातिशयसमवाय क्रमेण प्रतिपद्यत इति दुरवबोधं, क्रमवर्तिभिरतिशयांतरैरीश्वरज्ञानस्य क्रमवत्वसिद्धेरदोषोऽयमिति चेत् ननु तान्यप्यन्यान्यतिशयांतराणीश्वरज्ञानादर्थातरभूतानि कथं तस्य क्रमवत्तां साधयेयुरति प्रसंगात् । तेषां तत्र समवायादिति चेत् स तर्हि तत्समवायः क्रमेण युगपद्वेत्य निवृत्तः पर्यनुयोगोऽनवस्था च । यदि पुनर्युगपदीश्वरज्ञानेऽतिशयानां समवायस्तदा तन्निबंधनोऽपि तस्य क्रमो दूरोत्सारित एव तेषामक्रमत्वादिति सातिशयस्यापीश्वरज्ञानस्याक्रमत्वसिद्धिः । तथा चाक्रमादीश्वरज्ञानात्कार्याणां क्रमो न स्यादिति सूक्तं दूषणं । किं च तदीश्वरज्ञानं प्रमाणं स्यात्फलं वा पक्षद्वयेऽपि दोषमादर्शयन्नाह - तस्य प्रमाणत्वे फलाभावः प्रसज्यते ।
ततः फलावबोधस्यानित्यस्येष्टौ मतक्षतिः ॥ २७ ॥ फलत्वे तस्य नित्यत्वं न स्यान्मानात्समुद्भवात् । ततोऽनुद्भवने तस्य फलत्वं प्रतिहन्यते ॥ २८ ॥
नेश्वरज्ञानं नित्यं प्रमाणं सिद्ध्येत् तस्य फलाभावात् । फलज्ञानस्यानित्यस्य परिकल्पने च महेश्वरस्य नित्यानित्यज्ञानद्वयपरिकल्पनायां सिद्धांतविरोधात् । फलत्वेवेश्वरज्ञानस्य नित्यत्वं न स्यात् प्रमाणतस्तस्य समुद्भवात् । ततोऽनुद्भवे तस्य फलत्वविरोधान नित्यमीश्वरज्ञानमभ्युपगमनीयं तस्य निगदितदोषानुषंगेण निरस्तत्वात् । किं तर्ह्यनित्यमेवेश्वरज्ञानमित्यपरे । तन्मतमनूद्य निराकुर्वन्नाह -
अनित्यत्वे तु तज्ज्ञानस्यानेन व्यभिचारिता । कार्यत्वादेर्महेशेन करणेऽस्य स्वबुद्धितः ॥ २९ ॥ बुद्ध्यंतरेण तद्बुद्धेः करणे चानवस्थितिः । नानादिसंततिर्युक्ता कर्मसंतानतो विना ॥ ३० ॥
अनित्यं हीश्वरज्ञानमीश्वरबुद्धिकार्य यदि नेष्यते तदा तेनैव कार्यत्वादिहेतुस्तनुकरणभुवनादेर्बुद्धिमत्कारणत्वे साध्येऽनैकांतिकः स्यात् । यदि पुनर्बुद्ध्यंतरेण स्वबुद्धिमीश्वरः कुर्वीत तदा परापरबुद्धिप्रतीक्षायामेवोपक्षीणत्वादीश्वरस्य प्रकृतबुद्धेः करणं न स्यादनवस्थानात् । स्यान्मतं प्रकृतबुद्धेः करणे नापूर्वबुद्ध्यंतरं प्रतीक्षते महेशः । किं तार्ह पूर्वोत्पन्नां बुद्धिमाश्रित्य प्रकृतां बुद्धिं कुरुते तामपि तत्पूर्व बुद्धिभित्यनादिर्बुद्धिसंततिरीश्वरस्य ततो नानवस्थेति । तदप्यसत् । तथाबुद्धिसंतानस्य कर्मसंतानापायेऽसंभवात् । क्रमजन्मा हि बुद्धिः परापरतद्धेतोरदृष्टविशेषस्य क्रमादुत्पद्यते नान्यथा । यदि पुनर्योग. जधर्म संततेरनादेरीश्वरस्य सद्भावादयमेनुपालंभः पूर्वस्मात् समाधिविशेषाद्धमंस्यादृष्टविशेषस्योत्पादाततो बुद्धिविशेषस्य प्रादुर्भावाददृष्टसंतान निबंधनाया एव बुद्धिसंततेरभ्युपगमादितिमतं तदापि कथमीश्वरस्य सकर्मता न सिद्ध्येत् । तत्सिद्धौ च सशरीरताऽपि कथमस्य न स्यात् तस्यां च सत्यां न सदा मुक्तिस्तस्य सिद्ध्येत् । संदेहमुक्तः सदासिद्धौ तद्देहेन च कार्यत्वादेः साधनस्य तन्वादेर्बुद्धिम. त्कारणत्वे साध्ये कथमनैकांतिकता परिहर्तुं शक्येति तस्य बुद्धिमत्कारणत्वासंभवात् । संभवे चान. वस्थानुषंगादिति प्रागेवोक्तं । किं चेदं विचार्यते किमीश्वरज्ञानमव्यापि किं वा व्यापीति प्रथमपक्षे दूषणमाह ।
१ अदोषः । २ जीवन्मुक्तेः । ३ नित्यत्वे । ४ जीवन्मुक्तदेहेन ।