________________
सनातमजैनग्रंथमालायांन ह्यनीशः स्वशरीरस्य शरीरांतरेण विना कर्ता प्रतिवादिनः सिद्धोयमुदाहरणीकृत्याशरीरस्या पीशस्य स्वशरीरनिर्माणाय सामर्थ्य समर्थ्यते अनवस्था चापाद्यमाना निषिध्यते । पूर्वपूर्वशरीरापेक्षयापि तदुत्तरोत्तरशरीरकरणे । किं तार्ह कार्मणशरीरेण सशरीर एवानीशः शरीरांतरमुपभोगयोग्यं निष्पादयतीति परस्य सिद्धांतः तथा यदीशः पूर्वकर्मदेहेन स्वदेहमुत्तरं निष्पादयेत्तदा सकभँव स्यात् न शश्वत्कर्मभिरस्पृष्टः सिद्ध्येत्तस्यानीशवदनादिसंतानवर्तिना कर्मशरीरेण संबंधसिद्धेः । सकलकमर्णोऽप्यपाये स्वशरीरकरणायोगान्मुक्तवत् सर्वथा निःकर्मणोबुद्धीच्छाद्वेषप्रयत्नासंभवस्यापि साधनात् ।।
ततो नेशस्य देहोस्ति प्रोक्तदोषानुषंगतः । नापि धर्मविशेषोऽस्य देहाभावे विरोधतः ॥२४॥ येनेच्छामंतरेणापि तस्य कार्ये प्रवर्तनं ।
जिनेंद्रवद् घटतेति नोदाहरणसंभवः ॥२५॥ इत्युपसंहारश्लोकौ । सांप्रतमशरीरस्य सदाशिवस्य यज्ञनिमभ्युपगतं त एव प्रष्टव्याः किमीशस्य ज्ञानं नित्यमनित्यं चेति पक्षद्वयेऽपि दूषणमाह
ज्ञानमीशस्य नित्यं चेदशरीरस्य न क्रमः ।
कार्याणामक्रमाद्धेतोः कार्यक्रमविरोधतः ॥ २६ ॥ ननु च ज्ञानस्य महेश्वरस्य नित्यत्वेऽपि नाक्रमत्वं निरन्वयक्षणिकस्यैवाक्रमत्वात् कालांतर देशांतरप्राप्तिविरोधात् कालापेक्षस्य देशापेक्षस्य च क्रमस्यासंभवात् । संतानस्याप्यवस्तुस्वात् परमार्थतः क्रमवत्त्वानुपपत्ते: कूटस्थनित्यवत् न हि यथा सांख्याः कूटस्थं पुरुषमामनंति तथा वयमीश्वर ज्ञानं मन्यामहे तस्य सातिशयनित्यत्वात्क्रमोपपत्तेः निरतिशयं हि पुरुषतत्त्वं प्रतिसमयं स्वरूपेणैवास्तीति शब्दज्ञानानुपातिना विकल्पेन वस्तुशून्येन पूर्वमासीदिदानीमस्ति पश्चाद्भविष्यतीति क्रमवदिव लोकैर्व्यवहारपदवीमानीयत इति न परमार्थतः क्रमवत्त्वं तस्य सांख्यैरभिधीयते न च क्रमेणानेक कार्यकारित्वं तस्याकर्तृत्वात्सदोदासीनतयाऽवस्थितत्वात् । न च क्रमणाक्रमेण चार्थक्रियापाये तस्यावस्तुत्वमिति केषांचिद् दूषणमवकाशं लभते । वस्तुनोऽर्थक्रियाकारित्वलक्षणाप्रतिष्ठानात् । अन्यथोदोसीनस्य किंचिदकुर्वतो वस्तुत्वाभाव प्रसंगात् । सत्ताया एव वस्तुलक्षणोपपत्तेरभावस्यापि वस्त्वंतर स्वभावस्य पुरुषतत्त्वस्य इव स्वसत्तानतिक्रमाद्वस्तुत्वाविरोधात् सामान्यादेरपि स्वरूपसत्त्वस्य वस्तुलक्षणस्याभ्युपगमात् । न किंचिद्वस्तु सत्तालक्षणं व्यभिचरतीति कापिलानां दर्शनं । न पुनवैशेषिकाणां ईश्वरज्ञानस्योदासीनस्य कल्पने तत्कल्पनावैयर्थ्यप्रसंगात् कार्यकारिणैव सेन भवितव्यं यच्च कार्यकारि तत्सातिशयमेव युक्तं । न चैवं परिणामिनित्यता ज्ञानस्य सांख्यपरिकल्पितप्रधानवत्प्रसज्यते, तदतिशयानां क्रमभुवां ततो भिन्नत्वात् , तदभेदेऽतिशयानामिवेश्वरज्ञानस्यापि नाशोत्पादप्रसंगात् । ईश्वरज्ञानवद्वा तदतिशयानामनुत्पादविनाशधर्मकत्वप्रसंगात् । तदेवमीश्वरज्ञानं क्रमेणानेकातिशय संपाते क्रमवदेव । क्रमवतश्चेश्वरज्ञानात्कार्याणां क्रमो न विरुध्यत एव, सर्वथाप्यक्रमादेव हेतोः कार्य क्रमविरोधसिद्धेः । एतेन सांख्यैः परिकल्प्यमानस्य पुरुषस्य निरतिशयस्य सर्वदोदासीनस्य वैयर्थ्यमापादितमिति बोद्धव्यं । वैशेषिकाणामात्मादिवस्तुनो नित्यस्याप्यातरभूतैरतिशयैः सातिशयत्वोपगमासर्वदोदासीनस्य कस्यचिदप्रतिज्ञानादिति केचिदाचक्षते । तेऽप्येवं प्रष्टव्याः कथमीश्वरस्य ज्ञानस्य ततो ऽीतरभूतानामतिशयानां क्रमवत्त्वे वास्तवं क्रमवत्त्वं सिद्ध्येत्, तेषां तत्र समवायादिति चेत् समानः पर्यनुयोगः कथमर्थातरभूतानामतिशयानामीश्वरज्ञान एव समवायो न पुनरन्यत्रेति तत्रैवेहेदमिति प्रत्ययविशेषोत्पत्तेरिति चेत् ननु स एवेहेदमिति प्रत्ययविशेषः कुतोऽन्यत्रापि न स्यात् सर्वथा
१ किंचिदशः । २ मेनस्य । ३ साक्थैरप्रतिपादनातू ४ : बौद्धादीनो । ५ कस्यचिहषे ।