________________
आप्तपरीक्षा ।
'देहांतरादिना तावत्स्वदेहं जनयेद्यदि ।
तदा प्रकृतकार्येऽपि देहाधानमनर्थकं ॥ १८ ॥ देहांतरात्स्वदेहस्य विधाने चानवस्थितिः ।
तथाच प्रकृतं कार्यं कुर्यादीशो न जातुचित् ॥ १९ ॥
यदि हश्वरो देहांतराद्विनाऽपि स्वदेहमेनुध्यानमात्रादुत्पादयेत्तदाऽन्यदेहिनां निप्रहानुग्रहलक्षणं कार्यमपि प्रकृतं तथैव जनयेदिति तज्जनने देहाधानमनर्थकं स्यात् । यदि पुनर्देहांतरादेव स्वदेहं विदधीत तदा तदपि देहांतरमन्यस्माद्देहादित्यनवस्थितिः स्यात्, तथाचापरापरदेहनिर्माण एवोपक्षीणशक्तिकत्वात् न कदाचित्प्रकृतं कार्यं कुर्यादीश्वरः यथैव हि प्रकृतकार्यजननायापूर्व शरीरमीश्वरो निष्पादयति तथैव तच्छरीरनिष्पादनायापूर्व शरीरांतरं निष्पादयेदिति कथमनवस्था विनिवार्येत, न हि केषांचित्प्राणिनां निग्रहानुग्रहकरणात्पूर्व शरीरमीश्वरस्य प्रयुज्यते ततोऽपि पूर्व शरीरांतर प्रसंगात् । अनादिशरीरसंतति सिद्धेरशरीरत्वविरोधात् । न चैकेन निर्माणशरीरेण नानादिग्देशवर्तिप्राणिविशेषनिग्रहानुग्रह विधानमीश्वरस्य घटते, यतो युगपन्नानानिर्माणशरीराणि तस्य न स्युः तदभ्युपगमे च तन्निर्माणाय नानाशरीरांतराणि भवेयुरित्यनादिनानाशरीरसंततयः कथमीश्वरस्य न प्रसज्येरन् । यदि पुनरेकेन शरीरेण नाना स्वशरीराणि कुर्वीत युगपत्क्रमेण वा तदैकेनैव देहेन नानादिग्देशवर्तिप्राणिगणनिग्रहामहावपि तथैव कुर्वीत । तथा च कणाद्गजासुराद्यनुप्रहनिग्रहविधानाये। लूकादितदनुरूपशरीरनानात्वकथनं न युक्तिपथप्रस्थायि स्यात् । यदि पुनर्न देहांतराद्विना स्वदेहं जनयेत्, नापि देहांतरात्, स्वयमीश्वरस्य सवर्था देहाविधानादिति मदं तदपि दूषयन्नाह -
स्वयं देहाविधाने तु तेनैव व्यभिचारिता । कार्यत्वादेः प्रयुक्तस्य हेतोरीश्वरसाधने ॥ २० ॥
यदि हश्वरो न स्वयं स्वदेहं विधत्ते तदाऽसौ तद्देहः किं नित्यः स्यादनित्यो वा न तावन्नित्यः `सावयवत्वात् । यत्सावयवं तदनित्यं दृष्टं यथा घटादि । सावयवश्वेश्वरेदहस्तस्मान्न नित्य इति वाधकस`द्भावात् । यदि पुनरनित्यः तदा कार्योऽसौ कुतः प्रादुर्भवेत् । महेश्वरधर्मविशेषादेवेति चेत् ता सर्व प्राणिनां शुभाशुभशरीरादिकार्य तद्धर्माधर्मेभ्य एव प्रादुर्भवेदिति किं कृतमीश्वरेण निमित्तकारणतया परिकल्पितेन । तथा च विवादापन्नं तनुकरणभुवनादिकं बुद्धिमन्निमित्तकं कार्यत्वात् स्वारंभकावयव 'सन्निवेशविशिष्टत्वादचेतनोपादानत्वादित्यादेर्हेतोरीश्वरसाधनाय प्रयुक्तस्येश्वरदेहेन व्यभिचारिता स्यात् तस्यानीश्वरनिमित्तत्वेऽपि कार्यत्वादिसिद्धेरिति ततो नेश्वरसिद्धिः संभाव्यते । सांप्रतं शंकरमतमाशंक्य दूषयन्नाह -
यथाsनीशः स्वदेहस्य कर्ता देहांतरान्मतः । पूर्वस्मादित्यनादित्वान्नानवस्था प्रसज्यते ॥ २१ ॥ तथेशस्यापि पूर्वस्माद्देहाद्देहांतरोद्भवात् । नानवस्थेति यो ब्रूयात्तस्याऽनीशत्वमीशितुः ॥ २२ ॥ अनीशः कर्मदेहेनाऽनादिसंतानवर्तिना । यथैव हि सकर्मानस्तदन्न कथमीश्वरः ॥ २३ ॥
१७
१ चिंतनमात्रात् ।
३