________________
सनातनजैनग्रंथमालायां । खकार्य कुर्वतः प्रभुत्वेन व्यभिचाराच नहींद्रोज्ञानशक्त्यैव स्वकार्यकुरुते तस्येच्छाप्रयत्नयोरपि भावात् नचास्य प्रभुत्वमसिद्धं प्रभुत्वसामान्यस्य सकलामरविषयस्य स्वातंत्रलक्षणस्यापि सद्भावात् ॥ प्रतिवादि प्रसिद्धमपि निदर्शनमनूधनिराकुर्वन्नाह -
समीहामंतरेणापि यथावक्ति जिनेश्वरः। तथेश्वरोऽपि कार्याणि कुर्यादित्यप्यपेशलं ॥१३॥ सति धर्मविशेषे हि तीर्थकृत्त्वसमाह्वये । ब्रूयाजिनेश्वरो मार्ग न ज्ञानादेव केवलात् ॥१४॥ सिद्धस्यापास्तनिःशेषकर्मणे वागसंभवात् ।
विना तीर्थकरत्त्वेन नाम्ना नार्थोपदेशना ॥१५॥ महेश्वरः समीहामंतरेणापि प्रयत्नं च ज्ञानशक्त्यैव मोक्षमार्गप्रणयनं तन्वादिकार्य च कुर्वीत महेश्वरत्वात् यथा प्रतिवादिप्रसिद्धो जिनेश्वरः प्रवचनोपदेशमिति प्रतिवादिप्रसिद्धमपि निदर्शनमनुमानस्य नोपपद्यते स्याद्वादिभिः प्रतिज्ञायमानस्य निनेश्वरस्य ज्ञानशक्त्यैव प्रवचनलक्षणकार्यकारणासिद्धेः सत्येव तीर्थकरत्वनामपुण्यातिशये दर्शनविशुद्ध्यादिभावनाविशेषनिबंधने समुत्पन्नकेवलज्ञानस्योदय प्राप्ते प्रवचनाख्यतीर्थकरणप्रसिद्धेः । प्रक्षीणाशेषकर्मणः सिद्धस्य वाक्प्रवृत्तेरसंभवात्तीर्थकरत्वनामपु. ण्यातिशयापाये केवलिनोऽपि वाक्प्रसिद्ध्यसंभववत् ? इति धर्मविशेषविशिष्टएवोत्तमसंहननशरीरः केवली प्रवचनाख्यतीर्थस्य कर्ताप्रसिद्ध इति कथमसौ निदर्शनं महेश्वरस्यापि ॥ १६ ॥
तथा धर्मविशेषोऽस्य योगश्च यदि शाश्वतः।
तदेश्वरस्य देहोऽस्तु योग्यंतरवदुत्तमः॥ १६॥ यस्य हि धर्मविशेषो योगविशेषश्च महर्षियोगिनः प्रसिद्धः तस्य देहोऽप्युत्तम एवायोगिजनदेहाद्विशिष्टः प्रसिद्धःस्तथा महेश्वरस्यापि देहेनोत्तमेन भवितव्यं तमंतरेण धर्मविशेषस्य योगविशेषस्य वाऽनुपपत्तिरैश्वर्यायोगाद्वैराग्यायोगवन् । कुतोजगन्निमित्तकरणत्वं सिद्ध्यदज्ञजंतुवन्मुक्तात्मवच्च मतांतरमाशंक्य निराकुर्वन्नाह ।
निग्रहानुग्रही देहं खं निर्मायान्यदेहिनां ।
करोतीश्वर इत्येतन्नपरीक्षाक्षमं वचः ॥ १७ ॥ कस्यचिदुष्टस्य निग्रहं शिष्टस्य चानुग्रहं करातीश्वरः प्रभुत्वात् लोकप्रसिद्धप्रभुवत् । न चैवं नानैश्वरसिद्धिः नानाप्रभूणामेकमहाप्रभुतंत्रत्वदर्शनात् । तथा हि विवादाध्यासिता नानाप्रभव एक महाप्रभुतंत्रा एव नानाप्रभुत्वात् ये ये नानाप्रभवस्ते ते अत्रैकमहाप्रभुतंत्रा दृष्टाः यथा सामंत मांडलिकादय एकचक्रवर्तितंत्राः प्रभवश्चैते नानाचक्रवर्तीद्रादयः तस्मादेकमहाप्रभुतंत्रा एव योऽसौ महाप्रभुः स महेश्वर इत्येकेश्वरसिद्धिः । स च वदेहनिर्माणकरोऽन्यदेहिनां निग्रहानुग्रहकरत्वात् यो योऽन्यदेहिनां निग्रहानुग्रहकरः स स्वदेह निर्माणकरो दृष्टो यथा राजा । तथा चायमन्यदेहिनां निग्र. हानुग्रहकरः तस्मात्स्वदेहनिर्माणकर इति सिद्धं । तथा सति स्वं देहं निर्मायान्यदेहिनां निग्रहानुनहो करोतीश्वर इति केषां चित् वचः तच्च न परीक्षाक्षमं महेश्वरस्याशरीरस्य स्वदेहनिर्माणानुपपत्तेः तथा हि ।