________________
का आप्तपरीक्षा । तथा स न प्रकृष्टज्ञानयोगी यथा संसारी। मुक्तश्च प्रकृष्टज्ञानयोगीचायं तस्मात्तथेति तस्येच्छाबत्वसिद्धिः । तथा च प्रयत्नवानसौ सिसृक्षावत्वात् । यो यत्र सिसृक्षावान् स तत्र प्रयत्नवान् दृष्टः यथा घटोत्पत्तौ कुलालः । सिसृक्षावांश्च तनुकरणभुवनादौ भगवान् तस्मात्प्रयत्नवानिति ज्ञानच्छाप्रयत्नत्वसिद्धेः । निःकर्मणोऽपि सदाशिवस्याशरीरस्यापि तन्वादिकार्योत्पत्तौ निमित्तकारणत्वसिद्धर्मोक्षमार्गप्रणीतावपि तत्कारणत्वसिद्धिः दाधकाभावादिति । तदतदप्यसमंजसं । सर्वथा निःकर्मणः कस्यचिदैश्वर्यविरोधात् । तथा हि विवादाध्यासितः पुरुषो नश्वर्ययोगी निःकर्मकत्वात् यो यो निःकर्मा स स नैश्वययोगी यथा मुक्तात्मा । निःकर्माचार्य तस्मान्नैश्वर्ययोगी। नन्वेनोमलवास्पृष्टत्वादनादि योगजधर्मेण योगादीश्वरस्य निःकर्मत्वमासद्धमिति चेत् न तार्ह सदामुक्तोऽसौ धर्माधर्मक्षयादव मुक्ति प्रसिद्धेः शश्वत्क्वंशकर्मविपाकाशयरपरामृष्टत्वादनादियोगजधर्मसंबंधेऽपि जीवन्मुक्तेरविराधएव वैराग्येश्वर्यज्ञानसंबंधऽपि तदविरोधवदिति चत् तर्हि परमार्थता मुक्तामुक्तस्वभावता महश्वरस्याभ्युपगता स्यात् तथाचानेकांत सिद्धिदुनिवारा । एतनानादिबुद्धिमान्नमित्तत्वयोगादीस्वरस्य धर्मज्ञानवैराग्यैश्वर्ययोगात् शश्वत्क्लेशकर्मविपाकाशयरपरामृष्टत्वाच्च सदैवं मुक्तत्वं सदैवेश्वरत्वं ब्रुवाणा नैकांतमभ्यनुजानातीति निवदितं प्रतिपत्तव्यं । कथंचिन्मुक्तत्वस्य कथाचदमुक्तत्वस्य च प्रसिद्धेः । ततोऽनेकांतात्मकत्वप्रसंगपरिजिहीर्षुणा सर्वथा मुक्तएवेश्वरः प्रवक्तव्यः तथा च सर्वथा निःकर्मत्वं तस्योररीकर्तव्यमिति नासिद्धं साधनं । नाप्यनकांतिकं विपक्षे वृत्त्यसिद्धेः । कचिदश्वर्य योगिनि त्रिदशेश्वरेत्यादौ सर्वथा निःकर्मत्वस्य वृत्त्यसिद्धः तत एव न विरुद्धं । नापि कालात्ययापदिष्टं पक्षस्य प्रमाणनाबाधनात् । न हि प्रत्यक्षताऽस्मदादिभिरैश्वर्ययोगी कश्चिन्निःकर्मोपलभ्यते यत: प्रात्यक्षबाधितः पक्षः स्यात् । नाप्यनुमानतस्तत्र सर्वस्यानुमानस्य व्यापकानुपलंभेन बाधितपक्षम्य कालात्ययापदिष्टत्वसाधनात् । नाप्यागमतस्तस्योपलंभस्तत्र तस्य युक्त्याननुगृहीतस्य प्रामाण्यविरोधात् । तदनुग्राहिकाया युक्तरसंभवादेव युक्त्यनुगृहीतस्यापि न तत्रागमस्य संभावना यतः प्रामाण्य नाबाध्यमानः पक्षो न सिद्ध्येत् हेतोश्चकालात्ययापदिष्टत्वं परिहारो न भवत् । एतेन सत्प्रतिपक्षत्वं साधनस्य निरस्तं । प्रतिपक्षानुमानस्य निरवद्यस्य संभवाभावमाधनात् । तदेवमस्मादनुमानादश्वर्यविरहसाधने महेश्वरस्येच्छाप्रयत्नविरहोऽपि साधितः स्यात् धर्मविरवत् । यथैव हि निःकत्वमश्वर्यविरह साधयति तथेच्छ प्रयत्नमपि तस्य तेन व्यातिसिद्धेः । कस्यचिदिच्छावतः प्रयत्नवतश्च परमैश्वर्य योगिनोऽप॑ द्रादनि:कर्मत्वविरोधसिद्धेः । ज्ञानशक्तिस्तुनिःकर्मणोऽपि कस्यचिन्न विरुध्यते चेतनात्मवादिभिः कश्चिद्वशेषिकसिद्धांतमभ्युगच्छद्भिर्मुक्तात्मन्यपि चेतनायाः प्रतिज्ञानात् । चतना च ज्ञानशक्तिरव न पुनस्तद्व्यतिरिक्ता चिच्छक्तिरपरिणामिन्यप्रतिसंक्रमाऽदर्शितविषया शुद्धा चाऽनंता च यथा कापिलैरुपवण्यते तस्याः प्रमाणविरोधात् तथा च महेश्वरस्य कर्मभिरस्पृष्टस्यापि ज्ञानशक्तिरशरीरस्यापि च मुक्तात्मन इव प्रसिद्धा तत्प्रसिद्धौ च ।
ज्ञानशक्त्यैव निःशेषकार्योत्पत्तौ प्रभुःकिल ।
सदेश्वर इति ख्यानेऽनुमानमनिदर्शनं ॥ १२ ॥ न हि कश्चित्कस्यचित्कार्योत्पत्तौ ज्ञानशक्त्येव प्रभुरुपलब्धा यतोविवादाध्यासितः पुरुषो ज्ञानशक्त्यैव सर्वकार्याण्युत्पादयति प्रभुत्वादित्यनुमानमनुदाहरणं न भवेत् । ननु साधर्योदाहरणाभावेऽपि वैधर्योदहरणसंभवान्नाऽनुदाहरणमिदमनुमानं । तथा हि यस्तु ज्ञानशक्त्यैव न कार्यमुत्पादयति सन प्रभुः यथा संसारी कर्मपरतंत्र इति वैधम्र्येण निदर्शनं संभवत्येवेति न मंतव्यं । साधम्र्योदाहरणविरहेऽन्वयनिर्णयाभावाव्यतिरेकनिर्णयस्य विरोधात् । तथा शक्रादेर्शानेच्छाप्रयत्नविशेष