________________
सनातनजैन ग्रंथमालायां । भवतीति मतं तदा न किंचिदनेकस्वभावं वस्तु सिद्ध्येत् विचित्रकार्यकरणकस्वभावादेव भावाद्विचित्रकार्योत्पत्तिघटनात् । तथा च घटादिरपि रूपरसगंधस्पर्शाद्यनेकस्वभावाभावऽपि रूपादिज्ञानमनेकंकार्य कुर्वीत, शक्यं हि वक्तुं ताहगेकस्वभावो घटादर्येन चक्षुराद्यनेकसामग्रीसन्निधानादनेकरूपादिज्ञानजनननिमित्तं भवेदिति । कुतः पदार्थनानात्वव्यवस्था । प्रत्ययनानात्वस्यापि पदार्थैकत्वेऽपि भावाविरोधात् । न हि द्रव्यमेकः पदार्थः नानागुणादिप्रत्ययविशेषजननैकस्वभावो विरुध्यते । यदि पुनः प्रत्ययविशेषादिकार्यभेदाद्रव्यगुणादिपदार्थनानात्वं व्यवस्थाप्यते तदा महेश्वरेच्छायाः सकदनेकप्राण्युपभोगयोग्यकायादिकार्य नानात्वान्नानास्वभावत्वं कथमिव न सिध्येत । यदि पुनरीश्वरेच्छाया नानासहकारिण एव नानास्वभावास्तव्यतिरेकेण भावस्य स्वभावायोगादिति मतं तदा स्वभावतद्वतो भंदकांताभ्युपगमःस्यात् तस्मिंश्च स्वभाव तद्भावविरोधः सह्यविंध्यवदापनीपद्येत प्रत्यासत्तिविशेषान्नैवमिति चेत् कः पुनरसौ प्रत्यासत्तिविशेषः समवायिनां सहकारिणां समवायोऽसमवा. यिनां कार्यैकार्थसमवायः कार्यकारणैकार्थसमवायो वा निमित्तकारणानां तु कार्योत्पत्तावपेक्षा कर्तृसमवायिनी कर्मसमवायिनी वाऽपेक्षमाणता प्रत्यासत्तिरितिचेत् ईश्वगेदिक्कालाकाशादीनि च सर्व. कार्याणामुत्पादककारणस्वभावत्वं प्रतिपद्यरन् तस्य तेषां च तदुत्पत्तौ निमित्तकारणत्वात् । तथा सकलप्राण्यदृष्टानां कार्यादिकार्यसमवाय्यसमवायिकारणानां च महेश्वरस्वभावत्वं दुर्निवारं कायादिकार्योत्पत्तौ तत्सहकारित्वसिद्धेरिति सर्वमसमंजसमासज्येत नानास्वभावैकेश्वरतत्त्वसिद्धः तथा च परमब्रम्हेश्वरइति नाममात्रं भिद्येत परमब्रह्मणएवैकस्य नानास्वभावस्य व्यवस्थितेः । स्यान्मतं कथमेकं ब्रह्म नानास्वभावयोगि भावांतराभावे भवेत्,भावांतराणामेव प्रत्यासत्तिविशिष्टानां स्वभावत्वादिति। तदप्यपेशलं । भावांतराणां स्वभावत्वे कस्यचिदेकेन स्वभावेन प्रत्यासत्तिविशेषेण प्रतिज्ञायमाने नानात्वविरोधात् । प्रत्यासत्तिविशेषैर्नानास्वभावैस्तषां स्वभावत्वान्नानात्व तेऽपि प्रत्यासत्तिविशेषाः स्वभावास्तद्वतोऽपरैः प्रत्य सत्तिविशेषाख्यैः स्वभावर्भवयुरित्यनवस्थाप्रसंगात सुदूरमपि गत्वा स्वभाववत: स्वभावानां स्वभावां निरपेक्षत्वे प्रथमेऽपि स्वभावाः स्वभावांतरनिरपेक्षा: प्रसज्येरन् । तथा च सर्वे सर्वस्य स्वभावा इति स्वभावसंकरप्रसंगः तं परिजिहीर्षता न स्वभावतद्वत मैदैकांतोऽभ्युपगंतव्यः तदभेदैकांते च स्वभावानां तद्वति सर्वत्मिनानुप्रवेशात्तदेवैकं तत्त्वं परमब्रह्मति निगद्यमानं न प्रमाणविरुद्धं स्यात् तदप्यनिच्छता स्वभावतद्वताः कथंचित्तादात्म्यमेषितव्यं । तथा चेश्वरेच्छाया: नानाखभावाः कथंचित्तादात्म्यमनुभवंतोऽनेकांतात्निकामीश्वरेच्छां साधयेयुः । तामप्यनिच्छतैकस्वभावे. श्वरेच्छा प्रतिपत्तव्या, साचैकेन प्राण्यदृष्टेनाभिव्यक्ता तदेकपाण्युपभोगयोग्यमेव कायादिकार्य कुर्यात् ततो न सकृदनककायादिकार्योंत्तत्तिरिति न प्राण्यदृष्टनिमित्तश्वरेच्छ ऽभिव्यक्तिः सिध्येत् । एतेन पदार्थातरनिमित्ताऽपीश्वरेच्छाऽभिव्यक्तिरपास्ता । स्यान्मतं महेश्वरेच्छाऽनभिव्यक्तैव कार्यजन्मनि निमित्तं, कर्मनिबंधनाया एवेच्छाया: क्वचिदभिव्यक्ताया निमित्वदर्शनात्तीदच्छायाः कर्मनिमित्तत्वाभावादिति । तदप्यसंबद्धं । कस्याश्चिदिच्छायाः सर्वथाऽनभिव्यक्तायाः कचित्कार्य क्रियाहेतुत्वासिद्धरज्ञजंतुवत् । कर्माभावेचेच्छायाः सर्वथाऽनुपपत्तेः । तथा हि विवादाध्यासिन: पुरुषविशेषो नेच्छ वान् निःकर्मत्वात् यो यो निःकर्मा स स नेच्छावान् यथामुक्तात्मा निःकर्माचार्य तस्मानच्छावानिति नेश्वरस्येच्छासंभवः तदभावे च न प्रयत्नः स्यात् तस्येच्छापूर्वकत्वात् तंदभाव भावविरोधात् इति बुद्धीच्छाप्रयत्नमात्रादीश्वरोनिमित्तं कायादिकार्योत्पत्तो कुभाशुत्पत्ता कुंभक रवदिति न व्यवतिष्ठते । स्यादाकूतं ते विवादापन्नः पुरुषविशेषः प्रकृष्टज्ञानयोगी सदैवैश्वर्ययोगित्वात् यस्तु न प्रकृष्टज्ञानयोगी नासौ सदैवैश्वर्ययोगी यथा संसारी । मुक्तश्च सदैवैश्वर्ययोगी च भगवान् तस्मात्प्रकृष्टज्ञानयोगी सिद्धः । स च प्राणिनां भोगभूतये कायादिकायोत्पत्ता सिमृक्षाव न् प्रकृष्टज्ञानय गित्वात् यस्नु न