________________
आप्तपरीक्षा। प्रणेता मोक्षमार्गस्य नाशरीरोऽन्यमुक्तवत् ।
सशरीरस्तु नाऽकर्मा संभवत्यज्ञजंतुवत् ॥१०॥ यस्मादनादिसिद्धात्सर्वज्ञान्मोक्षमार्गप्रणीतिः सादिसर्वज्ञान्मोक्षमार्गप्रणयनासंभवभयादभ्यनुज्ञायते । सोऽशरीरो वा स्यात्सशरीरो वा गत्यंतराभावात् । न तावदशरीरो मोक्षमार्गस्य प्रणेता संभवति तदन्यमुक्तवद्वाक्प्रवृत्तेरयोगात् । नापि सशरीरः सकर्मकत्वप्रसंगादज्ञप्राणिवत् । ततो न अनादिसिद्धस्य सर्वज्ञस्य मोक्षमार्गप्रणीतिः परीक्षां सहते यतोऽसौ व्यवस्थाप्यते । ननु चाशरीरत्व सशरीरत्वयोर्मोक्षमार्गप्रणीतिप्रत्यनंगत्वात्तत्त्वज्ञानेच्छाप्रयत्ननिमित्तत्वात्तस्याः कायादिकार्योत्पादनबत् । तन्मात्रनिबंधनत्वोपलब्धेः कार्योत्पादनस्य । तथा हि कुंभकारः कुंभादिकार्य कुर्वन्न सशरीरत्वेन कुर्वीत सर्वस्य सशरीरस्य कुविंदादेरपि कुंभादिकरणप्रसंगात् । नाप्यशरीरत्वेन कश्चित्कुंभादिकार्य कुरुते मुक्तस्य तत्करणप्रसंगात् । किं तर्हि कुंभादिकार्योत्पादनज्ञानेच्छाप्रयत्नैः कुंभकारः कुंभादिकार्य कुर्वन्नुपलभ्यते तदन्यतमापायेऽपि तदनुपपत्तेः ज्ञानापाये कस्यचिदिच्छतोऽपि कार्योत्पादनादर्शनात् । कार्योत्पादनेच्छापाये च ज्ञानवतोऽपि तदनुपलब्धेः । तत्र प्रयत्नापाये च कार्योत्पादनज्ञानेच्छावतोऽपि तदसंभवात् । ज्ञानादित्रयसद्भावे च कार्योत्पत्तिदर्शनात् तत्त्वज्ञानेच्छाप्रयत्ने निबंधनमेव कार्यकरणमनुमंतव्यं । तदस्ति च महेश्वरज्ञानेच्छाप्रयत्नत्रयं । ततोऽसौ मोक्षमार्ग प्रणयनं कायादिकार्यवत्करोत्येव विरोधाभावादिति कश्चित् सोऽपि न युक्तवादी विचारासहत्वात् । सदा कर्मभिरस्पृष्टस्य कचिदिच्छाप्रयत्नयोरयोगात्तदाह
न चेच्छा शक्तिरीशस्य कर्माभावेऽपि युज्यते ।
तदिच्छावाऽनभिव्यक्ता क्रियाहेतुः कुतोऽज्ञवत् ॥११॥ न हि कुंभकारस्येच्छाप्रयत्नौ कुंभाद्युत्पत्तौ निःकर्मणःप्रतीतौ सकर्मण एव तस्य तत्प्रासिद्धेः । यदि पुनः संसारिणः कुंभकारस्य कर्मनिमित्तेच्छा सिद्धा सदामुक्तस्य तु कर्माभावेऽपीच्छाशक्तिः । संभवति सोपायमुक्तस्यच्छापायात् न च तद्वदीश्वरस्य तदसंभव इति मतं । तदा सा महेश्वरेच्छाशक्तिरभिव्यक्तानभिव्यक्ता वा । न तावदभिव्यक्ता तदभिव्यंजकाभावात तज्ज्ञानमेव तदभिव्यंजकमितिचेत् न तस्य शश्वत्मद्भावादीश्वरस्य सदेच्छाभिव्यक्तिप्रसंगात् । न चैवं तस्याः कादाचित्कत्वात् । अन्यथा वर्षशतांते वर्षशतांते महेश्वरेच्छ.त्पद्यते इति सिद्धांताविरोधात् । यदि पुनस्तन्वाापभोक्तृ प्राणिगणादृष्टं तदभिव्यंजकमिति मतिः तदा तददृष्टमीश्वरेच्छानिमित्तकमन्यनिमित्तकं वा । प्रथमपक्षे परस्पराश्रयदोषः सत्यामीश्वरेच्छाभिव्यक्ती प्राणिनामदृष्टं सति च तददृष्ठे महेश्वरेच्छाभिव्यक्तिरिति । स्यान्मतं प्राणिनामदृष्टं पूर्वेश्वरेच्छानिमित्तकं तदभिव्यक्तिश्च तत्पूर्वप्राण्यदृष्टनिमित्तात् तदपि तददृष्टं पूर्वेश्वरेच्छानिमित्तकामित्यनादिरियं कार्यकारणभावेन प्राणिगणादृष्टेश्वरेच्छाभिव्यक्त्योः संततिः । ततो न परस्पराश्रयदोषो वीजांकुरसंततिवदिति । तदनुपपन्नं । एकानेकप्राण्यदृष्टनिमित्तत्वविकल्पद्वयानतिक्रमात् । सा हीश्वरेच्छाभिव्यक्तिर्यवेकग्राण्यदृष्टनिमित्ता तदा तद्भोग्यकायादिकार्योत्पत्तावेवनिमित्तं स्यात् न सकलप्राण्युपभोग्यकायादिकार्योत्पत्तौ, तथा च सकृदनेकप्राण्युपभोग्य कायादिकार्योपलब्धिन स्यात् । यदि पुनरनेकप्राण्यदृष्टनिमित्ता तदा तस्या नानास्वभावप्रसंगो नानाकायादिकार्यकरणात् । न टेकप्राण्युपभोग्यकायादिनिमित्तेनैकेन स्वभावेनेश्वरेच्छाभिव्यक्ता, नानाप्राण्युपभोग्यकायादिकार्यकरणा समर्था, अतिप्रसंगात् । यदि पुनस्तादृश एवैकस्वभावो नानाप्राण्यदृष्टनिमित्तो येन नानाप्राण्युपभोग्यकायादिकार्याणां नानाप्रकाराणामीश्वरेच्छा निमित्तकारणं