________________
सनातनजैनग्रंथमालायां । पचरितं स्यात् । परमाणोश्च परमाण्वंतरसंयोगस्य पारमार्थिकासिद्धेय॑णुकादिकार्यद्रव्यमपारमार्थिकमासज्येत । कारणस्योचरितत्वेकार्यस्यानुपचरितत्वायोगादिति केचित्प्रचक्ष्यते । तेऽपि स्याद्वादिमतमंधसर्पविलप्रवेशन्यायेनानुसरंतोऽपि नेश्वरस्य निमित्तकारणत्वं तन्वादिकार्योत्पत्तौ समर्थयितुमीशते । तथापि तदन्वयव्यतिरेकानुविधानस्य साधयितुमशक्यत्वादात्मांतरान्वयव्यतिरेकानुविधानवत् । यथैव ह्यात्मांतराणि तन्वादिकार्योत्पत्तौ न निमित्तकारणानि तेषु सत्सु भावादन्वयासिद्धावपि तच्छून्ये च देशे क्वचिदपि तन्वादिकार्यानुत्पत्तेर्व्यतिरेकसिद्धावपि च । तथेश्वरे सत्येव तन्वादिकाोत्पत्तेस्तच्छून्ये प्रदेशे कचिदपि तदनुत्पत्तस्तच्छून्यस्य प्रदेशस्यैवाभावादन्ययव्यतिरेकसिद्धावपीश्वरो निमित्तकारणं माभूत् सर्वथा विशेषाभावात् । स्यान्मतं महेश्वरस्य बुद्धिमत्त्वात् समस्तकारकपरिज्ञानयोगात्तत्प्रयोक्तृत्वलक्षणं निमित्तकारणत्वं तन्वादिकार्योत्पत्ती व्यवतिष्ठते । न पुनरात्मांतराणाम ज्ञत्वात्तल्लक्षणनिमित्तकारणत्वाघटनादिति । तदपि न समीचीन सर्वज्ञस्य समस्तकारकप्रयोक्तृत्वासिद्धेः योग्यंतरवत् । न हि योग्यंतराणां सर्वज्ञत्वेऽपि समस्तकारकप्रयोक्तृत्वामिष्यते । ननु तेषां समस्तपदार्थज्ञानस्यांत्यस्य योगाभ्यासविशेषजन्मनः सद्भावे सकलमिथ्याज्ञानदोषप्रवृत्तिजन्मदुःखपरिक्षयात्परमनिःश्रेयससिद्धेः समस्तकारकप्रयोक्तृत्वासिद्धिः । न पुनरीश्वरस्य तस्य सदा मुक्तत्वात् सदैवेश्वरत्वाच्च संसारिमुक्तविलक्षणत्वात् । न हि संसारिवदज्ञोमहेश्वरः प्रतिज्ञायते नापि मुक्तवत् समस्तज्ञानेश्वर्यरहित इति तस्यैव समस्तकारकप्रयोक्तृत्वलक्षणं निमित्तकारणत्वं कायादिकार्योत्पत्तो संभाव्यत इति केचित् । तेऽपि न विचारचतुरचेतसः । कायादिकार्यस्य महेश्वराभावे कचिदभावासिद्धेय॑तिरेकासंभवस्य प्रतिपादितत्वात् । निश्चितान्वयस्याप्यभावात् । ननु च यत्र यदा यथा महेश्वरसिसृक्षा संभवति तत्र तदा तथा कायादिकार्यमुत्पद्यते । अन्यत्रान्यदाऽन्यथा तदभावानोत्पद्यत इत्यन्वयव्यतिरेको महेश्वरसिसृक्षायाः कायादिकार्यमनुविधत्ते कुंभादिकार्यवत् कुलालादिसिसृक्षायाः । ततो नान्वयव्यतिरेकयोापकयोरनुपलंभोऽस्ति यतो व्यापकानुलंभः पक्षस्य बाधकः स्यादितिचेन्न । तस्या महेश्वरसिमृक्षायाः कायादिकार्योत्पत्तौ नित्यानित्यत्वविकल्पद्वयेऽपि निमित्तकारणत्वनिराकरणात् । तदन्वयव्यतिरेकानुविधानस्यासिद्धापकानुपलंभः प्रसिद्ध एव पक्षस्य बाधक इत्यनुमानबाधितपक्षत्वात् कालात्ययापदिष्टहेतुत्वाच्च न बुद्धिमन्निमित्सत्वसाधनं साधीयः सिद्धं यतोऽनुपायसिद्धः सर्वज्ञोऽनादिः कर्मभिरस्पृष्टः सर्वदा सिद्ध्येदिति सूक्तं "तस्यानुपायसिद्धस्य सर्वथाऽनुपपत्तित" इति । योप्याह मोक्षमार्गप्रणीतिरनादिसिद्धसर्वज्ञमंतरेण नोपपद्यते सोपायसिद्धस्य सर्वज्ञस्यानवस्थानात् मोक्षमार्गप्रणीतेरसंभवात् अवस्थाने वा तस्य समुत्पन्नतत्त्वज्ञानस्यापि साक्षाम तत्त्वज्ञानं मोक्षस्य कारणं तद्भावभावित्वाभावात्तत्वज्ञानात्पूर्व मोक्षमार्गस्य प्रणयने तदुपदेशस्य प्रामाण्यायोगादतत्त्वज्ञवचनाद्रथ्यापुरुषवचनवत् । नापि प्रादुर्भूतसाक्षात्तत्त्वज्ञानस्यापि परमवैराग्योत्पत्तेः पूर्वमवस्थानसंभवान्मोक्षमार्गप्रणीतिर्युक्ता । साक्षात्सकलतत्त्वज्ञानस्यैव परमवैराग्यस्वभावत्वात् । एतेन सम्यग्दर्शनज्ञानचारित्रप्रकर्षपर्यतप्राप्तौ निःश्रेयसमिति वदतोऽपि न मोक्षमार्ग प्रणयनसिद्धिरिति प्रतिपादितं बोद्धं । केवलज्ञानोत्पत्तौ क्षायिकसम्यग्दर्शनस्य क्षायिकचारित्रस्य च परमप्रकर्षपरिप्राप्तस्य सद्भावात् सम्यदर्शनादित्रयप्रकर्षपर्यतप्राप्तौ परममुक्तिप्रसंगादवस्थानायोगान्मोक्षमार्गोपदेशासंभवात् तदाप्यवस्थाने सर्वज्ञस्य न तावन्मात्रकारणत्वं मोक्षस्य स्यात् तद्भावभावित्वाभावादेव ज्ञानमात्रवदिति तन्मतमप्यनूद्य विचारयन्नाह
प्रणीतिर्मोक्षमार्गस्य न विनाऽनादिसिद्धतः । सर्वज्ञादिति तत्सिद्धिर्न परीक्षासहा स हि ॥९॥