________________
११
आप्तपरीक्षा। घटनात् । न च यावत्सु देशेषु यावंति कार्याणि संभूष्णूनि तावत्यः सिसृक्षास्तस्येश्वरस्य सकृदुपजायंत इति वक्तुं शक्यं युगपदनेकेच्छाप्रादुर्भावविरोधादस्मदादिवत् । यदि पुनरेकैव महेश्वरसिमृक्षा युगपन्नानादेशकार्ये जननाय प्रजायत इतीप्यते तदा क्रमतोऽनेकतन्वादिकार्योत्पत्तिविरोधस्तादच्छायाः शश्वदभावात् । अथ मतमेतत् यत्र यदा यथा यत् कार्यमुत्पित्सु तत्र तदा तथा तदुत्पादनेच्छा महेश्वरस्यैकैव तादृशी समुत्पद्यते ततो नानादेशेष्वेकदशे च क्रमेण युगपच्च तादृशमन्यादृशं च तन्वादिकार्य प्रादुर्भवन्नविरुध्यत इति तदप्यसंभाव्यं कचिदकत्र प्रदेशे समुत्पन्नायाः सिमृक्षाया दविष्टदेशेषु विभिन्नेषु नानाविधेषु नानाकार्यजनकत्वविरोधात् अन्यथा तदसर्वगतत्वेऽपि देशव्यतिरेकानुपपत्तेः । यदि हि यद्दशा सिसृक्षा तद्देशमेव कार्यजन्म नाऽन्यदेशमिति व्यवस्था स्यात्नदा देशव्यतिरेक: सिद्ध्येनान्यथेति सिसृक्षाया न व्यतिरेकोपलंभो महश्वरवत् । व्यतिरेकाभावे च नान्वयनिश्चयः शक्यः कर्तु सतीश्वरे तन्वादिकार्याणां जन्मत्यन्वयो हि पुरुषांतरेष्वपि समानः । तेष्वपि सत्सु तन्वादिकार्योत्पत्तिसिद्धेः । न च तेषां सर्वकार्यात्पत्ती निमित्तकारणत्वं दिक्क लाकाशानामिव संमतं । परेषां सिद्धांत विरोधान्महेश्वरनिमित्तकारणत्ववैयर्थ्याच्च । यदि पुनस्तेषु पुरुषांतरषु सत्स्वपि कदाचित्तन्वादिकार्यानुत्पत्तिदर्शनान्न तन्निमित्तकारणत्वं तदन्वयाभावश्चति मतं तदेश्वरे सत्यपि कदाचित्तन्वादिकार्यानुत्पतेरीश्वरस्यापि तन्निमित्तकारणत्वं माभूत् । तदन्वयासिद्धिश्च तद्वदायाता । एतेनेश्वरसिसृक्षायां नित्यायांसत्यामपि तन्वादिकार्याजन्मदर्शनादन्वयाभावः साधितः । कालादीनां च तेषु सत्स्वपि सर्वकार्यानुत्पत्तेः । स्यान्मतं सामग्रीजनिका कार्यस्य नैकं कारणं ततस्तदन्वयव्यतिरेकावेव कार्यस्यान्वेषणीयौ नैकेश्वरान्वयव्यतिरेको सामग्री च तन्वादिकार्योत्पत्तौ तत्समवायिकारणमसमवायिकारणं निमित्तकारणं चेति । तेषु सत्सु कार्योत्पत्तिदर्शनादसत्सुचादर्शनादिति सत्यमेतत् । केवलं यथा समवाय्य समवायिकारणानामनित्यानां धर्मादीनां च निमित्त कारणानामन्वयव्यतिरेको प्रसिद्धौ कार्यजन्मनि तथा नेश्वरस्य नित्यसर्वगतस्य तदिच्छाया वा नित्यैकस्वभावाया इति तदन्वयव्यतिरेकानुपलंभः प्रसि. द्धएव । न हि सामग्येकदेशस्यान्वयव्यतिरेकसिद्धौ कार्यजन्मनि सर्वसामग्यास्तदन्वव्यतिरेकसिद्धिरिति शक्यं वक्तुं । प्रत्येकं सामग्येकदेशानां कार्योत्पत्तावन्वयव्यतिरेकनिश्चयस्य प्रेक्षापूर्वकारिभिरन्वेषणात् । पटाद्युत्पत्ती कुविंदादिसामग्येकदेशवत् । यथैव हि तंतुतुरीवेमशलाकादीनामन्वयव्यतिरेकाभ्यां पटस्योत्पत्तिदृष्टा तथा कुविंदान्वयव्यतिरेकाभ्यामपि । तदुपभोक्तृजनादृष्टान्वयव्यतिरेकाभ्यामिवेति सुप्रतीतं । ननु सर्वकार्योत्पत्ता दिक्कालाकाशादिसामग्यन्वयव्यतिरेकानुविधानवदीश्वरादिसामग्यन्वयव्यतिरकानुविधानस्य सिद्धेनं व्यापकानुपलंभः सिद्ध इति चेत् न दिक्कालाकाशादीनामपि नित्यसर्वगतनिरवयवत्वे क्वचिदन्वयव्य तरेकानुविधानायोग दुदाहरणवैषम्यात् तेषामपि हि परिणामित्वे सप्रदेशत्वे च परमार्थतः स्वकार्येत्पत्ती निमित्तत्वसिद्धेः । नन्वेवमीश्वरस्यापि बुद्ध्यादिपरिणामैः स्वतोऽर्थातरभूतैः परिणामित्वात् सकृत्सवमूर्तमद्र्व्यसंयोगनिबंधनप्रदेशसिद्धेश्च तन्व:दिकार्योत्पत्ती निमित्तकारणत्वं युक्तं तदन्वयव्यतिरेकानुबिधानस्य तन्वादेरुपषन्नत्वात् । स्वतो. नीतरभूतैरेव हि ज्ञानादिपरिणामैरीश्वरस्य परिणामित्वं नेष्यते स्वारंभकावयवैश्च सावयवत्वं निराक्रियते । न पुनरन्यथा, विरोधाभावान्न चैवमनिष्टप्रसंगः द्रव्यांतरपरिणामैरपि परिणामित्वाप्रसंगात् तेषां तत्रासमवायात् । ये हि यत्र समवायंति परिणामास्तैरेव तस्य परिणामित्वं । परमाणोश्च स्वारंभकावयवाभावेऽपि सप्रदेशत्वप्रसंगा नानिष्टापत्तये नैयायिकानां । परमाण्वंतरसंयोगनिबंधनस्यैकस्य प्रदेशस्य परमाणोरपीष्टत्वात् । न चोपचरितप्रदेशप्रतिज्ञा आत्मादिष्वेवं विरुद्ध्यते स्वारंभकावयवलक्षणानां प्रदेशानां तत्रोपचरितत्वप्रतिज्ञानात् । मूर्तिमद्व्यसंयोगनिबंधनानां तु तेषां पारमार्थिकत्वात् अन्यथा सर्वमूर्तिमद्व्यसंयोगानां युगपद्भ विनामुपचरितत्वप्रसगात् विभुद्रव्याणां सर्वगतत्वमप्यु