________________
१०
सनातनजैन ग्रंथमालायां । मत्त्वस्य सद्भावादिति मतं तदा तन्वादिषु बुद्धिमन्निमित्तत्वसामान्यं तन्वादिस्वकार्यविनिर्माणशक्ति विशिष्टं साध्यत इति नेष्टविरुद्ध साधनो हेतुः । नापि साध्यविकलो दृष्टांतः स्वकार्यविनिर्माणशक्ति विशिष्टस्य बुद्धिमन्निमित्तत्वसामान्यस्य साध्यस्य तत्र सद्भावात् । सिद्धे च बुद्धिमन्निमित्तत्वसामान्ये किमयं बुद्धिमान् हेतुः सशरीरोऽशरीरोवेति विप्रतिपत्तौ तस्याशरीरत्वं साध्यते सशरीरत्व वाधकसद्भावात् । तच्छरीरं हि न तावन्नित्यमनादि सावयवत्वादस्मदादिशरीरवत् । नाप्यनित्यं सादि तदुत्पत्तेः पूर्वमीश्वरस्याशरीत्वसिद्धेः शरीरांतरेण सशरीरत्वऽनवस्थाप्रसंगात् । तथा किमसौ सर्वज्ञोऽसवज्ञोवेति विवादे सर्वज्ञत्वं साध्यते तस्यासर्वज्ञत्वे समस्तकारकप्रयोक्तृत्वानुपपत्तेः तन्वादिकारणत्वाभावप्रसंगात् । तन्वादि सकलकारकाणां परिज्ञानाभावेऽपि प्रयोक्तृत्व तन्वादिकार्यव्याघातप्रसंगात् । कुविंदादेवस्त्रादिकारकस्यापरिज्ञाने तव्याघातवत् । न चेश्वरकार्यस्य तनुकरणभुवनादेः कदाचिद्व्याघातः संभवति महेश्वरसमीहितकार्यस्य यथाकारकसंपतिं विचित्रस्या दृष्टादरव्याघातदर्शनात् । यदप्यभ्यधायि तनुकरणभुवनादिकं नैकस्वभावेश्वरकारणकृतं बिचित्रकार्यत्वात् । यद्विचित्रं कार्य तन्नकस्वभा. वकारणकृतं दृष्टं यथा घटपटमुकुटशकटादि, विचित्रकायै च प्रकृतं तस्मान्नकस्वभावेश्वराख्यकारणकृतमिति तदप्यसम्यक् सिद्धसाध्यतापत्तेः । न ह्यकस्वभावमीश्वराख्यं तन्वादेनिमित्तकारणमिज्यते तस्य ज्ञानशक्तीच्छाशक्तिक्रियाशक्तित्रयस्वभावत्वात् । तनुकरणभुवनाशुपभोक्तृप्राणिगणादृष्टविशेषवैचित्र्यसहकारित्वाच्च विचित्रस्वभावोपपत्तेः घटपटमुकुटादिकार्यस्यापि तन्निदर्शनस्य तदुत्पादनविज्ञानेच्छाक्रियाशक्तिविचित्रतदुपकरणसचिवेनकेनपुरुषेण समुत्पादनसंभवात्साध्यविकलसानुषंगात् तदेवं कार्यत्वं हेतुस्तनुकरणभुवनादेर्बुद्धिमन्निमित्तत्वं साधयत्येव सकलदोषरहितत्वादिति वैशेषिकाः समभ्यमंसत तेऽपि न समंजसवाचः । तनुकरणभुवनादयो बुद्धिमन्निमित्तका इति पक्षस्य ठयापकानुपलंभेन वाधितत्वात् कार्यत्वादिहतोः कालात्ययापदिष्टत्वाच्च । तथा हि तन्वादयो न बुद्धिमन्निमित्तकास्तदन्वयव्यतिरेकानुपलंभात् । यत्र यदन्वयव्यतिरेकानुपलंभस्तत्र न तन्निमित्तकत्वं दृष्टं यथा घटघटीशराव दंचनादिषु कुविंदाद्यन्वयव्यातिरेकाऽननुविधायिषु न कुविंदादिनिमित्तकत्वं । बुद्धिमदन्वयव्यतिरेकाऽनुपलंभश्च तन्वादिषु, तस्मान्नबुद्धिमन्निमित्तकत्वमिति व्य पकानुपलंभः तत्कार. णकत्वस्य तदन्वयव्यतिरेकोपलंभेन व्याप्तत्वात् कुलाल कारणकस्य घटादेः कुलालान्वयव्यतिरेकोपलंभ प्रसिद्धेः सर्वत्र वाधकाभावात् । तस्य तद्व्यापकत्वव्यवस्थानात् । न चायमसिद्धस्तन्वादीनामशिरय. तिरेकानुपलंभस्य प्रमाणसिद्धत्वात् । स हि न तावत्कालव्यतिरेक: शाश्वतिकत्वादीश्वरस्य कदाचिदभावासंभवात् । नापि देशव्यतिरेकः तस्य विभुत्वेन कचिदभावानुपपत्तेरीश्वराभावे कदाचित्कचित्तन्वादिकार्याभावानिश्चयात् । स्यान्मतं महेश्वरसिसृक्षानिमित्तत्वात्तन्वादिकार्यस्यायमदोष इति । तदप्यसत्यं । तदिच्छाया नित्यानित्यविकल्पद्वयानतिवृत्तेः । तस्यानित्यत्वे व्यतिरेकासिद्धिः । सर्वदासद्भावात्तन्वादिकार्योत्पत्तिप्रसंगात् । नन्वीश्वरेच्छायानित्यत्वेऽप्यसर्वगतत्वात् व्यतिरेकः सिद्ध एव कचिन्महेश्वरसिसृक्षापाये तन्वादिकार्यानुत्पत्तिसंभवादिति चेन्न । तद्देशे व्यतिरेकाभावसिद्धेः । देशांतरे सर्वदा तदनुपपत्तेः कार्यानुदयप्रसंगात् । अन्यथा तदनित्यत्वापत्तेः अनित्यैवेच्छास्त्विति चेत् सा तर्हि सिसृक्षा महेश्वरस्योत्पद्यमाना सिमृक्षांतरपूर्विका यदीष्यते तदाऽनवस्थाप्रसंगः परापरसिमृश्नोत्पत्तावेव महेश्वरस्योपक्षीणशक्तिकत्वात्प्रकृततन्वादिकार्यानुदयएव स्यात् यदि पुनः प्रकृततन्वादिकार्योत्पत्तौ महेश्वरस्य सिसृक्षोत्पद्यते सापि तत्पूर्वसिसृक्षात इत्यनादिसिसृक्षासंतति नवस्थादोपमास्कंदति सर्वत्र कार्यकारणसंतानस्यानादित्वसिद्धेर्बीजांकुरादिवदित्यभिधीयते तदा युगपन्नानादेशेषु तन्वादिकार्यस्योत्पादो नोपपद्येत यत्र यत्कार्योत्पत्तये महेश्वरसिसृक्षा तत्र तस्यैवकार्यस्योत्पत्ति
५ कारकसंघातमिपि पाठः