________________
आप्तपरीक्षा। नुकरणभुवनादिनिमित्तकः । यथाऽपरोमुक्तात्मा । तनुकरणभुवनादिनिमित्तं च भगवांस्तस्मादनादिः । तनुकरणभुवनादिनिमित्तं तु तस्य तन्वादेर्बुद्धिमान्निमित्तत्वसाधनात् । तन्वादयो बुद्धिवन्निमित्तकाः कार्यत्वात् । यत्कार्य तबुद्धिमनिमित्तकं दृष्टं । यथा वस्त्रादि । कार्य च तन्वादयो विवादापन्नास्तस्माद् बुद्धिमानिमित्तका इत्यनुमानमालाऽमला । कर्मभूभृतां भेत्तारमपास्यत्येव । न चेदं कार्यत्वमसिद्धं तन्वादेवादिप्रतिवादिनोः कार्यत्वाभ्यनुज्ञानात् । नाप्यनेकांतिकं, कस्यचित्कार्यस्याबुद्धिमन्निमित्तस्यासंभवाद्विपक्षे वृत्त्यभावात् । न चेश्वरशरीरेण व्यभिचारस्तदसिद्धेरीश्वरस्याशरीरत्वात् । नापीश्वरज्ञानन । तस्य नित्यत्वात्कार्यत्वासिद्धेः । न चेश्वरेच्छया । तस्येच्छाशक्तेरपि नित्यत्वात् क्रियाशक्तिवत् । तत एव न विरुद्धं साधनं सर्वथा विपक्षे संभवाभावात् । नचायं कालात्ययापदिष्टो हेतुः पक्षस्य प्रत्यक्षादिप्रमाणेनावाधित्वात् । न हि तन्वादेर्बुद्धिमनिमित्तत्वं प्रत्यक्षेण वाध्यते तस्यातींद्रियतया तदविषयत्वात् । नाप्यनुमानेन तस्य तद्विपरीन्साधनस्यासंभवात् । ननु तनुभुवनकरणादयो न बुद्धिमानिमित्तका दृष्टकर्तृकप्रसादादिविलक्षणत्वादाकाशादिवदित्यनुमानं पक्षस्य वाधकमिति चेत् न । असिद्धत्वात् । सन्निवेशादिविशिष्टत्वेन दृष्टकर्तृकप्रासादाद्यविलक्षणत्वात्तन्वादीनां यदि पुनरगृहीतसमयस्य कृतबुझ्युत्पादकत्वाभावात्तन्वादीनां दृष्टकर्तृकविलक्षणत्वमिष्यते तदा कृत्रिमाणामपि मुक्ताफलादीनामगृहीतसमयस्य कृतबुद्ध्यनुत्पादकत्वादबुद्धिमन्निमित्तकत्वप्रसंगः । न च दृष्टकर्तृकत्वादृष्टकर्तृकत्वाभ्यां बुद्धिमन्निमित्तत्वेतरत्वसिद्धिः साधीयसी तदविनाभावाभावात् । न ह्यदृष्टकर्तृकत्वमबुद्धिमनिमित्तत्वेन व्याप्तं जीर्णप्रासादादेरदृष्टकर्तृकस्यापि बुद्धिमन्निमित्तत्वसिद्धेरिति न दृष्टकर्तृकविलक्षणत्वमबुद्धिमन्निमित्तत्वं साधयेत् यतोऽनुमानवाधितः पक्ष: स्यात् कालात्ययापदिष्टं च साधनमभिधीयेत । नाप्यागमेन प्रकृतः पक्षो बाध्यते तत्साधकस्यैवागमस्य प्रसिद्धेः । तथा हि "विश्व. तश्चक्षुरुत विश्वतोमुखो, विश्वतो बाँहुरुत विश्वतः पॉत् , संबाहुभ्यां धमति संपतत्रैवाभूमी जन, यम् देव एक" श्रुतेः सद्भावात् । तथा व्यासवचनं च । " अज्ञो जंतुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा" इति पक्षस्यानुग्राहकमेव न तु वाधकं । ततो न कालात्ययापदिष्टो हेतुरबाधितपक्षनिर्देशानंतरं प्रयुक्तत्वात् । तत एवं न सत्प्रतिपक्षः बाधकानुमानाभावादित्यनवा कार्यत्वसाधनं तन्वादीनां बुद्धिमनिमित्तत्वं साधयत्येव । यदप्युच्यते कैश्चिबुद्धिमन्निमित्तत्वसामान्ये साध्येतन्वादीनां सिद्धसाधनमनेकतदुपभोक्तृबुद्धिमनिमित्तत्वसिद्धेः । तेषां तददृष्टनिमित्तत्वात्तददृष्टस्य चेतनारूपत्वात् चेतनायाश्च बुद्धित्वाद् बुद्धिमानिमित्तत्वसिद्धेरिति । तदप्यसारं । तन्वायुपभोक्तृप्राणिनामदृष्टस्य धर्माधर्मसंज्ञकस्य चेतनत्वासिद्धेरबुद्धित्वात् । अर्थग्रहणं हि बुद्धिश्चेतना न च धर्मोऽर्थनहणमधर्मो वा तयोर्बुद्धेरन्यत्वात् प्रयत्नादिवदिति नानेकबुद्धिमन्निमित्तत्वं तन्वादीनां सिद्ध्यति यतः सिद्धसाधनं बुद्धिमन्निमित्चत्वसामान्ये साध्येऽभिधार्यते ॥ ननु च वस्त्रादि सशरीरेणासर्वज्ञेन च बुद्धिमता कुबिंदादिना क्रियमाणं दृष्टमिति तन्वादिकार्यमपि सशरीरासर्वज्ञबुद्धिमन्निमित्तं सिद्ध्येदितीष्टविरुद्धसाधनाद्विरुद्धं साधनं । सर्वज्ञेनाशरीरेण क्रियमाणस्य कस्यचिद्वस्त्रादिकार्यस्यासिद्धेश्व साध्य विकलमुदाहरणमिति कश्चित् । सोऽपि न युक्तवादी तथा सर्वानुमानोच्छेदप्रसंगात् । तथा हि साग्निरयं पर्वतो घूमवत्त्वान्महानसवदित्यत्रापि पर्वतादौ महानसपरिदृष्टस्यैव खादिरपालाशाद्यग्निनाग्निमावस्य सिद्धेविरुद्धसाधनाद्विरुद्धं साधनं स्यात् । तार्णाद्यग्निनाग्निमत्वस्य पर्वतादौ साध्यस्य महानसादावभावात् साध्यविकलमुदाहरणमप्यनुषज्येत । यदि पुनरग्निमत्वसामान्य देशादिविशिष्टं पर्वतादौ साध्यत इति नेष्टविरुद्धं साधनं । नापि साध्यविकलमुदाहरणं महानसादावपि देशादिविशिष्टस्याग्नि
१ अबुद्धिमनिमित्तादिकं विपक्षः । २ कार्यज्ञानं विवादाध्यासितं । ३ वचनं ४ व्यापारः ५ व्यापित्वं ६ पुण्यपा. पाभ्यां । ७ परमाणुभिः।