________________
क
सनातनजैनग्रंथमालायां । ___ स्याद्वादिनामस्माकं कर्मभूभृद्भत्तृत्वं मुनीन्द्रस्येष्टं सिद्धं भवतीति वाक्यार्थः । तथाहि-भगवाम् परमात्मा कर्मभूभृतां भेत्ता भवत्येव विश्वतत्त्वानां ज्ञातृत्वात् । यस्तु न कर्मभूभृतां भेत्ता स न विश्वतत्त्वानां ज्ञाता यथा रथ्यापुरुषः । विश्वतत्त्वानां ज्ञाता च भगवान् निर्वाधबोधसिद्धः । तस्मात् कर्मभूभृतां भेत्ता भवत्येवेति केवलव्यतिरेकी हेतुः साध्याऽव्यभिचारात् । न तावदयमसिद्धः प्रतिवादिनो वादिनो वा । ताभ्यामुभाभ्यां परमात्मनः सर्वज्ञत्वसाधनात् । नाप्यनेकांतिक: कात्य॑तो देशतो वा विपक्षे वृत्त्यभावात् । तत एवं न विरुद्धः । न त्वयं कालात्ययापदिष्टस्तदागमबाधितपक्षनिदेशानंतरं प्रयुक्तत्वात् । सदैव मुक्तः सदेवेश्वरः पूर्वस्याः कोटेर्मुक्तात्मनामिवाभावादित्यागमान्महेश्वरस्य सर्वदा कर्मणामभावप्रसिद्धस्तद्भत्तृत्वस्य बाधप्रसिद्धः । सतां हि कर्मणां कश्चिद्भत्ता स्यान्न पुनरसतामित्यपरः । मोऽपि न परीक्षादक्षमानसः । तथा तद्वधिकागमस्याप्रमाणत्वात् तदनुग्राहकानुमानाभावात् । ननु च नेश्वराख्यः सर्वज्ञः कर्मभूभृतां भेत्ता सदा कर्ममलैरस्पृष्टत्वात् । यस्तु कर्मभूभृतांभेत्ता स न कर्ममलैः शश्वदस्पृष्टो यथेश्वरादन्योमुक्तात्मा शश्वदस्पृष्टश्च कर्ममलैर्भगवान्महेश्वरस्तस्मान्न कर्मभूभृतां भत्तेत्यनुमानं प्रकृतपक्षबाधकागमानुग्राहकं । न चात्रासिद्धपाधनं । तथाहि-शश्वत्कर्ममलैः अस्पृष्टः परमात्माऽनुपायसिद्धत्वात् । यस्तु न तथा स नानुपायसिद्धो यथा सादिमुक्तात्मा । अनुपायसिद्धश्च सर्वज्ञो भगवान् तस्मात्कर्ममलैः शश्वदस्पृष्ट इत्यतोऽनुमानांतरात्तत्सिद्धेरिति वदंतं प्रत्याह
नास्पृष्टः कर्मभिः शश्वद्विश्वदृश्वास्ति कश्चन ।
तस्यानुपायसिद्धस्य सर्वथाऽनुपपत्तितः ॥८॥ न ह्यनुपायसिद्धत्वे कुतश्चित्प्रमाणादप्रसिद्ध तदलात्कर्मभिः शश्वदस्पृष्टत्वसाधनं सिद्धिमध्यास्ते । तदसिद्धौ च न कर्मभूभृद्भेत्तृत्वाभावस्ततः सिध्यति । येनेदमनुमान प्रस्तुतपक्षबाधकागमस्यानुग्राहक सिद्ध्येत्तत्प्रामाण्यं साधयेत् । न चाप्रमाणभूतेनागमेन प्रकृत: पक्षो बाध्यते हेतुश्च कालात्ययापदिष्टः स्यात् । नन्वीश्वरस्यानुपायसिद्धत्वमनादित्वात्साध्यते । तदनादित्वं च तनुकरणभुवनादौ निमित्तकारणत्वादीश्वरस्य । न चैतदसिद्धं । तथा हि-तनुभुवनकरणादिकं विवादापन्नं बुद्धिमनिमित्त कं कार्यत्वात्। यत्कार्य तबुद्धिमनिमित्तकं दृष्टं यथा वस्त्रादि । कार्य चेदं प्रकृतं तस्माद् बुद्धिमन्निमित्तकं । योऽसौ बुद्धिमांस्तद्धेतुः स ईश्वर इति प्रसिद्धं साधनं तदनादित्वं साधयत्येव । तस्य सादित्वे ततः पूर्वे तन्वाद्युत्पत्तिविरोधात् । तदुत्पत्तौ वा तद्बुद्धिमन्निमित्तत्वाभावप्रसंगात् । यदि पुनस्ततः पूर्वमन्यबुद्धिमानिमित्तकत्वमिष्यते तदा ततोऽपि पूर्वमन्यबुद्धिनिमित्तकत्वमिष्यते तदा ततोऽपि पूर्वमन्यबुद्धिमन्निमित्तकत्वमित्यनादीश्वरसंततिः सिद्धयेत् । न चैषा युक्तिमती । पूर्वेश्वरस्यानंतस्य सिद्धावुत्तरसकलेश्वरकल्पना वैयर्थ्यात् । तेनैव तन्वादिकार्यपरम्परायाः सकलाय निर्माणात् । ततोऽपि पूर्व स्यानंतस्य महेश्वरस्य सिद्धौ तस्य वैयर्थ्यादन्यथा परस्परमिच्छाव्याघातप्रसंगादनेकेश्वरकारणत्वापत्तेश्च जगतः । सुदूरमपि गत्वाऽनादिरेक एवेश्वरोऽनुमंतव्यः । स पूर्वेषामपि गुरुः कालेनाविच्छेदादिति तस्य जगन्निमित्तत्वसिद्धरनादित्वमंतरेणानुपपत्तरित्यनादित्वसिद्धिः । ततो न कर्मभूभृतां भेत्ता मुनींद्रः शश्वत्कर्मभिरस्पृष्टत्वात् । यस्तु कर्मभूभृतां भेत्ता स न शश्वत्कर्मभिरस्पृष्टः । यथोपायान्मुक्तः । शश्वत्कर्मभिरस्पृष्टश्च भगवांस्तस्मान्न कर्मभूभृतां भेत्ता शश्वत्कर्मभिरस्पृष्टोऽसावनुपायसिद्धत्वात् । यस्तु न तथा स नानुपायसिद्धः । यथा सोपायमुक्तात्मा अनुपायसिद्धश्चायं तस्मात्सदा कर्मभिरस्पृष्टः । अनुपायसिद्धोऽयमनादित्वात् । यस्तु न तथा स नानादिः । यथेतरो मुक्तात्मा । अनादिश्वायं तस्मादनुपायसिद्धः । अनादिरयं तनुकरणभुवनादिनिमित्तत्वात् । यस्तु नानादिः स न त