________________
"
सनातन जैन ग्रंथमालायां
अव्यापि च यदि ज्ञानमीश्वरस्य तदा कथं । सकृत्सर्वत्र कार्याणामुत्पत्तिर्घटते ततः ॥ ३१ ॥ यद्येकत्र स्थितं देशे ज्ञानं सर्वत्र कार्यकृत् । तदा सर्वत्र कार्याणां सकृत् किं न समुद्भवः ॥ ३२ ॥ कारणांतरवैकल्यात्तथाऽनुत्पत्तिरित्यपि । कार्याणामीश्वरज्ञानाहेतुकत्वं प्रसाधयेत् ॥ ३३ ॥ सर्वत्र सर्वदा तस्य व्यतिरेकाप्रसिद्धितः । अन्वयस्यापि संदेहात्कार्यं तद्धेतुकं कथं ॥ ३४ ॥
तदीश्वरज्ञानं तावदव्यापीष्टं प्रादेशिकत्वात् सुखादिवत् । प्रादेशिकमीश्वरज्ञानं विभुद्रव्यविशेषगुणत्वात् यदित्थं तदित्थं यथा सुखादि तथा चेश्वरज्ञानं तस्मात्प्रादेशिकमिति नासिद्धं प्रादेशिकत्वं साधनं, न च तत्साधनस्य हेतोः सामान्यगुणेन संयोगादिना व्यभिचारो, विशेषग्रहणात् । तथापि विशेषगुणेनरूपादिनाऽनैकांतिक इति न मंतव्यं विभुद्रव्यग्रहणात् । तथापीष्टविरुद्धस्यानित्यत्वस्य साधनात् विरुद्ध हेतुः विभुद्रव्यविशेषगुणत्वस्यानित्यत्वेन व्याप्तत्वात् यथाहीदं विभुद्रव्यविशेषगुणत्वं प्रादेशिकत्वमीश्वरज्ञानस्य साधयेत् तद्वदनित्यत्वमपि तदव्यभिचारात् न हि कश्चिद्विभुद्रव्यविशेषगुणो नित्यो दृष्ट इत्यपि नाशंकनीयं महेश्वरस्यास्मद्विशिष्टत्वात् तद्विज्ञानस्यास्मद्विलक्षणत्वात् । न ह्यस्मदादिविज्ञाने यो धर्मो दृष्टः स महेश्वरविज्ञानेऽप्यापादयितुं युक्तोऽतिप्रसंगात् । तस्यास्मदादिविज्ञानवत् समस्तार्थपरिच्छेदकत्वाभावप्रसक्तेः सर्वत्रास्मदादिबुद्ध्यादीनामेवानित्यत्वेन व्याप्तस्य विभुद्रव्यविशेषगुणत्वस्य प्रसिद्धेः विभुद्रव्यस्य वा महेश्वरस्यैवाभिप्रेतत्वात् तेन यदुक्तं भवति महेश्वरविशेषगुणत्वात् तदुक्तं भवति विभुद्रव्यविशेषगुणत्वादिति ततोनेष्टविरुद्धसाधनो हेतुर्यतोविरुद्धः स्यात् । न चैवमुदाहरणानुपपत्तिरीश्वरसुखादेरेवोदाहरणत्वात् तस्यापि प्रादेशिकत्वात् साध्यवैकल्याभावात् महेश्वरविशेष गुणत्वाश्च साधनवैकल्यासंभवात् ततोऽस्माद्धेतोरीश्वरज्ञानस्य सिद्धं प्रादेशिकत्वं । ततश्चाव्यापि तदिष्टं यदि वैशेषिकैस्तदा कथं सकृत्सर्वत्र तन्वादिकार्याणामुत्पत्तिरीश्वरज्ञानाद् घटते तद्धि निमित्तकारणं सर्वकार्योत्पत्तौ सर्वत्रासन्निहितमपि कथमुपपद्यते कालादेर्व्यापिन एव युगपत् सर्वत्र कार्योत्पत्तौ निमित्तकारणत्वप्रसिद्धेः । विभोरीश्वरस्य निर्मित्तकारणत्वप्रसिद्धेः विभोरीश्वरस्य निमित्तकारणत्व वचनाददोष इति चेन्न तस्य यत्र प्रदेशेषु बुद्धिस्तत्रैव निमित्तकारणत्वोपपत्तेर्बुद्धिशून्येऽपि प्रदेशांतरे तस्य निमित्तकारणत्वेन तत्र कार्याणां बुद्धिमन्निमित्तत्वं सिद्ध्येत् तथा च व्यर्थ बुद्धिमन्निमित्तत्वसाधनं सर्वत्र कार्याणां बुद्धिमदभावेऽपि भावापत्तेः । न चैवं कार्यत्वादयो हेतवो गमकाः स्युर्बुद्धिशून्येश्वर प्रदेशवर्तिभिरबुद्धिमन्निमित्तैः कार्यादिभिर्व्यभिचारात् । ततस्तेषां बुद्धिमन्निमित्तत्वासिद्धः । स्यान्मतं प्रदेशवर्तिनाऽपि ज्ञानेन महेश्वरस्य युगपत्समस्त कारक परिच्छेद सिद्धेः सर्वकार्योत्पत्तौ युगपत्सकलकारकप्रयोक्तृत्वव्यवस्थितेः निखिलतन्व ( दिकार्यांणां बुद्धिमन्निनित्तत्वोपपत्तेः नोक्तदोषोऽनुप्रसज्यत इति । तदप्यसम्यक् । क्रमेणानेकतन्वादिकार्यजन्मनि तस्य निमित्तकारणत्वायोगात् । ज्ञानं हीश्वरस्य यद्येकत्र प्रदेशे वर्तमानं समस्तकारकशक्तिसाक्षात्करणात् समस्त कारकप्रयोक्तृत्वसाधनात् सर्वत्र परंपरया कार्यकारीष्यते तदा युगपत्सर्वकार्याणां सर्वत्र किं न समुद्भवः प्रसज्यते, यतो महेश्वरस्य प्राक् पश्चाश्च कार्योत्पत्तौ निमित्तकारणत्वाभावो न सिद्ध्येत् । समर्थेऽपि सति निमित्तकारणे कार्यानुत्पादविरोधात् । स्यान्मतं न निमित्तकारणमात्रात्तन्वादिकार्याणामुत्पत्तिः समवाय्यसमवायिनिमित्तकारणांतराणामपि