________________
आप्तपरीक्षा ।
२१ सद्भावे कार्योत्पत्तिदर्शनात् न च सर्वकार्याणां युगपत्समवाय्यसमवायिनिमित्तकारणसद्भावः क्रमेणैव तत्प्रसिद्धेः । ततः कारणांतराणां वैकल्यात् तथा युगपत्सर्वत्र कार्याणामनुत्पत्तिरिति । तदपि कार्याणां नेश्वरज्ञानहेतुकत्वं साधयेत् । तदन्वयव्यतिरेकासिद्धेः सत्यपीश्वरज्ञाने केषांचित्कार्याणां कारणांतराभावेऽनुत्पत्तेः कारणांतरसद्भाव एवोत्पत्तेः कारणांतरान्वयव्यतिरेकानुविधानस्यैव सिद्धेः तत्कार्यत्वस्यैव व्यवस्थानात् । ननु च सत्येव ज्ञानवति महेश्वरे तन्वादिकार्याणामुत्पत्तेरन्वयोऽस्त्येव । व्यतिरेकोऽपि विशिष्टावस्थापेक्षया महेश्वरस्य विद्यत एव कार्योत्पादनसमर्थकारणांतरासन्निधानविशिष्टश्वरेऽसति कार्याणामनुत्पत्तेः व्यतिरेकनिश्चयात् । सर्वत्रावस्थापेक्षयैवावस्थावतोऽन्वयव्यतिरेकप्रतीतेः । अन्यथा तदसंप्रत्ययात् । न ह्यवस्थांतरे सति कार्योत्पत्तिरिति वक्तुं शक्यं सर्वावस्थासु तस्मिन्सति तदुत्पत्तिप्रसंगात् । नाप्यवस्थावतोऽसंभवे कार्येऽस्यासंभवः सुशक्तो वक्तुं तस्य नित्यत्वादभावानुपपत्तेः । द्रव्यावस्थाविशेषाभावे तु तत्साध्य कार्यविशेषानुत्पत्तेः सिद्धो व्यतिरेकोऽन्वयवत् । न चावस्थावतो द्रव्यस्यानाद्यनंतस्योत्पत्तिविनाशशून्यस्यापन्हवो युक्तः तस्याबाधितान्वयज्ञानसिद्धत्वात् तदपह्नवे सौगतमतप्रवेशानुषंगात् । कुतः स्याद्वादिनामिष्टसिद्धिरिति कश्चिद्वैशेषिकमतमनुमन्यमानः समभिधत्ते । सोऽप्येवं प्रष्टव्यः किमवस्थावतोऽवस्था पदार्थांतरभूता किं वा नेति । प्रथमकल्पनायां कथमवस्थापेक्षयाऽन्वयव्यतिरेकानुविधानं तन्वादिकार्याणामीश्वरान्वयव्यतिरेकानुविधानं युज्यते, धूमस्य पावकान्वयव्यतिरेकानुविधाने पर्वताद्यन्वयव्यतिरेकानुविधानप्रसंगात् । पदार्थातरत्वाविशेषात् यथैव हि पर्वतादेः पावकस्य पदार्थोंतरत्वं तथेश्वरात्कारणांतरसन्निधानस्यावस्थाविशेषस्यापि सर्वथा विशेषाभावात् । यदि पुनरीश्वरस्यावस्थातो भेदेऽपि तेन संबंधसद्भावात्तदन्वयव्यतिरेकानुविधानं कार्याणामीश्वरान्वयव्यतिरेकानुविधानमेवेति मन्यते तदा पर्वतादेः पावकेन संबंध त्पावकान्वयव्यतिरेकानुविधानमपि धूमस्य पर्वताद्यन्वयव्यतिरेकानुविधानमनुमन्यतां पावकविशिष्टपर्वताद्यन्वयव्यतिरेकानुकरणं धूमस्यानुमन्यते एव तद्वदवस्थाविशिष्टेश्वरान्वयव्यतिरेकानुकरणं तन्वादिकार्याणां युक्तमनुमंतुमिति चेन्न पर्वतादिवदीश्वरस्य भेदप्रसंगात् । यथैव हि पावकविशिष्टपर्वतादेरन्यः पावकाविशिष्टपर्वतादिः सिद्धः तद्वत्कारणांतर स्वन्निधानलक्षणावस्थाविशिष्टादीश्वरात्पूर्वं तदविशिष्ठेश्वरोऽन्यः कथं न प्रसिद्ध्येत् । स्यान्मतं द्रव्याद्यनेकविशेषणविशिष्टस्यापि सत्तासामान्यस्य यथा न भेदः समवायस्य वाऽनेकसमवायिविशेषण विशिष्टस्याप्येकत्वमेव तद्वदनेकावस्थाविशिष्टस्यापीश्वरस्य न भेदः सिद्ध्येत् तदेकत्वस्यैव प्रमाणतः सिद्धेरिति तदेतत्स्वगृहमान्यं । सत्तासामान्यसमवाययोरपि स्वविशेषणभेदाद्भेदप्रसिद्धेर्व्यतिलंघयितुमशक्तेः । तस्यैकानेकस्वभावतयैव प्रमाणगोचरचारित्वात् । तदेतेन नानामूर्त्तिमद्द्रव्यसंयोगविशिष्टस्य व्योमात्मादिविभुद्रव्यस्याभेदः प्रत्याख्यातः स्वविशेषणभेदाद्भेदसंप्रत्ययादेकानेक स्वभावत्वव्यवस्थानात् । योऽप्यव्यवस्थावतोऽवस्थां पदार्थातरभूतां नानुमन्यते तस्यापि कथमवस्थाभेदादवस्थावतो भेदो नःस्यादवस्थानां वा कथमभेदो न भवेत् तदर्थातरत्वाभावात् । स्यादाकूतं अवस्थानामवस्थावतः पदार्थांतरत्वाभावेऽपि न तदभेदः तासां तद्धर्मत्वात् न च धर्मो धर्मिणोऽनर्थीतरमेव धर्मधर्मिव्यवहारभेदविरोधात् भेदे तु न धर्माणां भेदाद्धर्मिणो भेदः प्रत्येतुं शक्येत यतोऽवस्थाभेदादीश्वरस्य भेदः संपाद्यत इति । तदपि स्वमनोरथमात्रं धर्माणां सर्वथा धर्मिणोभेदे धर्मधर्मिभावविरोधात् सह्यविंध्यादिवत् । ननु धर्मधर्मिणोः सर्वथाभेदेऽपि निर्बाधप्रत्ययविषयत्वात् न धर्मधर्मिभावविरोधः । सह्यविंध्यादीनां तु निर्बाधधर्मधर्मिसंप्रत्ययविषयत्वाभावान्न धर्मधर्मिभावव्यवस्था । न हि वयं भेदमेव धर्मधर्मिव्यवस्थानिबंधनमभिदध्महे येन भेदे धर्मधर्मिभावो विरुध्यते सर्वथैवाभेद इव प्रत्ययविशेषात्तद्व्यवस्थाभिधानात् । सर्वत्राबाधितप्रत्ययोपायत्वाद्वैशेषिकाणां तद्विरोधादेव विरोधसिद्धेरिति कश्चित् । सोऽपि स्वदर्शनानुरागांधीकृत एव वाधकमवलोकयन्नपि नावधारयति । धर्मधर्मिप्रत्ययविशेषस्यैव धर्मधर्मिणोर्भेदैकांतेऽनुपपत्तेः सह्यविंध्यादिवत्प्रतिपादनात् । यदि पुनः प्रत्यासत्तिविशेषादीश्वरतदवस्थयोर्भेदेऽपि धर्मधर्मसंप्रत्ययविशेषः स्यात् न तु सह्यविध्यादीनां तदभावादिति मतं तदाऽसौ प्रत्यासत्तिर्धर्मधर्मिभ्यां भिन्ना