________________
२२
सनातनजैन ग्रंथमालार्याकथं च धर्मधर्मिणोरिति व्यपदिश्यते । न पुनः सह्यविंध्ययोरिति विशेषहेतुर्वक्तव्यः प्रत्यासत्यंतरं तद्धेतुरिति चेत् तदपि यदि प्रत्यासत्तितद्वद्भ्यो भिन्नं तदा तैव्यपदेशनियमनिबंधनं प्रत्यासत्त्यंतरमभिधानीयं तथा चानवस्थानात्कुतः प्रकृतप्रत्यासत्तिनियमव्यवस्था । प्रत्ययविशेषादेवेति चेत् । ननु स एव विचार्योवर्तते प्रत्ययविशेषः किं प्रत्यासत्तेस्तत्तद्वद्यां सर्वथा भेदे सतीश्वरतदवस्थयोः प्रत्यासत्तिरिति प्रादुर्भवति किं वाऽनीतरभाव एव कथंचित्तादात्म्ये वा । तत्र सर्वथा भेदाभेदयोर्बाधकसद्भावात् कथंचि. तादात्म्यमनुभवतोरेव तथा प्रत्ययेन भवितव्यं तत्र बाधकानुदयात् । ननु चैकानेकयोः कथंचित्तादात्म्यमेव धर्मधर्मिणोः प्रत्यासत्तिः स्याद्वादिभिरभिधीयते तच्च यदि ताभ्यां भिन्नं तदा न तयोर्व्यपदिश्यते तदभिन्नं चेत् किं केन व्यपदेश्यं । यदि पुनस्ताभ्यां कथंचित्तादात्म्यस्यापि परं कथंचित्तादात्म्यमिष्यते तदा प्रकृतपर्यनुयोगस्यानिवृतेः परापरकथंचित्तादात्म्यपरिकल्पनायामनवस्था स्यात् । सैव कथंचित्तादात्म्यपक्षस्य बाधिकेति कथमयं पक्षः क्षेमकरः प्रेक्षावतामझूणमालक्ष्यते । यदि पुनः कथंचित्तादात्म्यं धर्मधर्मिणोनिमेवाभ्यनुज्ञायते ताभ्यामनवस्थापरिजिहीर्षयाऽनेकांतवादिना तदा धर्मधर्मिणोरेव भेदोऽनुज्ञायतां सुदूरमपि गत्वा तस्याश्रयणीयत्वात् । तदनाश्रयणे भेदव्यवहारविरोधादित्यपरः सोऽप्यनवबोधाकुलितांतःकरण एव । कथंचित्तादात्म्यं हिं धर्मधर्मिणोः संबंधः स चाविध्वग्भाव एव तयोर्जात्यंतरत्वेन संप्रत्ययाव्यवस्थाप्यते । धर्मधर्मिणोरविस्वग्भाव इति व्यवहारस्तु न संबंधांतरनिबंधनो यतः कथंचित्तादात्म्यांतरं संबंधांतरमनवस्थाकारि परिकल्प्यते तत एव कथंचित्तादात्म्याद्धर्मधर्मिणोः कथंचित्तादात्म्यमिति प्रत्ययविशेषस्य करणात् । कथंचित्तादात्म्यस्य कथंचिद्भेदस्वीकारत्वात् कथंचिद्भेदाभेदी हि कथंचित्तादात्म्यं । तत्र कथंचिद्भेदाश्रयणाद् धर्मधर्मिणोः कथंचित्ता. दात्म्यमिति भेदविभक्तिसद्भावात् भेदव्यवहारसिद्धिः । कथंचिदभेदाश्रयणात्तु धर्मधर्मिणावेव कथंचित्तादात्म्यमित्यभेदव्यवहारः प्रवर्तते धर्मधर्मिव्यतिरेकेण कथंचिद्भेदाभेदयोरभावात् कथंचिद्भेदो हि धर्म एव कथंचिदभेदस्तु धर्येव कथंचिद्भेदाभेदौ तु धर्मधर्मिणावेव एवं सिद्धौ तावेव च कथंचित्तादात्म्यं वस्तुनोऽभिधीयते । तच्छब्देन वस्तुनः परामर्शात् । तस्य वस्तुनः आत्मानौ तदात्मानौ तयोर्भावस्तादात्म्यं । भेदाभेदस्वभावत्वं कथंचिदिति विशेषणेन सर्वथा भेदाभेदयोः परस्परनिरपेक्षयोः प्रतिक्षेपात्तत्पक्षे निक्षिप्तदोषपरिहारः । परस्परसापेक्षयोश्च परिग्रहात् जात्यंतरवस्तुव्यवस्थापनात् सर्वथा शून्यवादप्रतिक्षेपसिद्धिरिति कथंचिद्भेदाभेदात्मकं कथंचिद्धर्मधात्मकं कथंचिहव्यपयार्यात्मकमिति प्रतिपाद्यते स्याद्वादन्यायनिष्ठैस्तथैव तस्य प्रतिष्ठितत्वात् । सामान्यविशेषवन्मेचकज्ञानवञ्च । तत्र विरोधवैय्यधिकरण्यादिदूषणमनेनैवापसारितमिति किं नश्चितया । नन्वेवं स्याद्वादिनामपि द्रव्यस्य नित्यत्वात्तदन्वयव्यतिरेकानुविधान कार्याणां न स्यादीश्वरान्वयव्यतिरेकानुविधानवत् पर्यायाणां च क्षणिकत्वात्तदन्वयव्यतिरेकानुविधानमपि न घटते नष्टे पूर्वपर्याये स्वयमसत्येवोत्तरकार्यस्योत्पत्तेः सति चानुत्पत्तेरन्यथैकक्षणवृत्तित्वप्रसंगात् । सर्वपर्यायाणामिति तद्भावभावित्वानुपपत्तिः । यदि पुनद्रव्ये सत्येव कार्याणां प्रसृतेस्तदन्वयसिद्धिस्तन्निमित्तपर्यायाणामभावे वानुत्पत्तेर्व्यतिरेकसिद्धिरिति तदन्वयव्यतिरेकानुविधानमिष्यते तदेश्वरस्य तदिच्छाविज्ञानयोश्च नित्यत्वेऽपि तन्वादिकार्याणां तद्भाव एव भावात्तदन्वयस्तत्सहकारिकारणावस्थापाये च तेषामनुत्पत्तेर्व्यतिरेक इति तदन्वयव्यतिरेकानुविधानमिष्यतां विशेषाभावात् ततः सर्वकार्याणां बुद्धिमत्कारणत्वसिद्धिरिति परे प्रत्यवतिष्ठते तेऽपि न कार्यकारणभावविदः । स्याद्वादिनां द्रव्यस्य पर्यायनिरपेक्षस्य पर्यायस्य वा द्रव्यनिरपेक्षस्य द्रव्यपर्याययोर्वा परस्परनिरपेक्षयोः कार्यकारित्वानभ्युपगमात् तथा प्रतीत्यभावात् द्रव्यपर्यायात्मकस्यैव जात्यंतरवस्तुनः कार्यकारित्वेन संप्रत्ययात् कार्यकारणभावस्य तथैव प्रसिद्धेः वस्तुनि द्रव्यरूपेणान्वयप्रत्ययविषये सत्येव कार्यस्य प्रादुर्भावात्तन्निबंधनपर्यायविशेषाभावे च कार्यस्याप्रादुर्भावात्तदन्वयव्यतिरेकानुकरणात्कार्यकारणभावो व्यवतिष्ठते । न च द्रव्यरूपेणापि वस्तुनो नित्यत्वमवधार्यते तस्य
१ प्रत्यासत्तिधर्मधर्मिभ्यः। २ धर्मधर्मिप्रत्यासत्तीनामिदं प्रत्यासत्यतमिति न्यपदेशनियमस्य कारणं ।