________________
आप्तपरीक्षा ।
२३
पर्यायेभ्यो भंगुरेभ्यः कथंचिदनर्थातरभावात् कथंचिदनित्यत्वसिद्धेर्महेश्वरस्य तु वैशेषिकैः सर्वथा नित्यत्वप्रतिज्ञानात्तदन्वयव्यतिरेकानुकरणासंभवात्कार्याणामुत्पत्तेरयोगात् । पर्यायाणां च द्रव्यरूपेण नित्यत्वसिद्धेः कथंचिन्नित्यत्वात्सवर्था नित्यत्वानवधारणात् विशिष्टपर्यायसद्भावे कार्यस्योदयात्तदभावेचानुदयात् कार्यस्य तदन्वयव्यतिरेकानुकरणसिद्धेः । निरन्वयक्षणिकपर्यायाणामेव तदघटनात् तत्र कार्यकारणभावाव्यवस्थितेः । पर्यायार्थिकनयप्राधान्यादविरोधात् द्रव्यार्थिकनयप्राधान्येन तदविरोधवत् । प्रमाणार्पणया तु द्रव्यपर्यायात्मनि वस्तुनि सति कार्यस्य प्रसवनादसति वाऽप्रसवनात्तदन्वयव्यतिरेकानुविधानं सकलजनसाक्षिकं कार्यकारणभावं व्यवस्थापयेत् सर्वथैकांत कल्पनायां तदभावं विभावयतीति कृतमतिप्रसंगिन्या कथया । महेश्वरज्ञानस्य नित्यस्याव्यापिनोऽपि सर्वत्र कार्यकरणसमर्थस्य सर्वेषु देशेषु सर्वस्मिन्काले व्यतिरेकाप्रसिद्धेरन्वयस्यापि नियतस्य निश्चेतुमशक्तेस्तन्वादिकार्यं तद्धेतुकं कारणांतरापेक्षयापि न सिध्यत्येवेति स्थितं । कस्यचिभित्यव्यापीश्वरज्ञानाभ्युपगमेऽपि
दूषणमतिदिशमाह -
-
एतेनैवेश्वरज्ञानं व्यापिनित्यमपाकृतं । तस्येशवत्सदा कार्यक्रम हेतुत्वहानितः ॥ ३५ ॥
एतेन व्यतिरेकाभावान्वय संदेह व्यवस्थापकवचनेन व्यापिनित्यमीश्वरज्ञानं तन्वादिकार्योत्पत्तिनिमित्तमपाकृतं वेदितव्यं तस्येश्वरवत्सर्वगतत्वेन कचिदेशे नित्यत्वेन कदाचित्काले व्यतिरेका भावनिश्वयात् तदन्वयमात्रस्य चात्मांतरवनिश्चेतुमशक्तेः तस्मिन्सति समर्थे युगपत्सर्वकार्याणामुत्पतिप्रसंगात् । सर्वदा कार्यक्रमहेतुत्वहानेः कालदेशकृतक्रमाभावात् ' सर्वथा स्वयं क्रमाभावात् ' क्रमवत्वे नित्यत्वसर्वगतत्वविरोधात् पावकादिवत् । स्यान्मतं प्रतिनियतदेशकालसहकारिकारण क्रममापेक्ष्य कार्यक्रमहेतुत्वं महेश्वरस्य च तद्विज्ञानस्यापि न विरुध्यते इति । तदप्यशक्यप्रतिष्ठं सहकारिकारणेषु क्रमवत्सु सत्सु तन्वादिकार्याणां प्रादुर्भवतां तेष्वसत्सु चानुत्पद्यमानानां तदन्वयव्यतिरे कानुविधानात् तद्धेतुकत्वस्यैव प्रसिद्धेर्महेश्वरज्ञानहेतुकत्वं दुरुपपादमापन पद्येत । यदि पुनः सकल सहकारिकारणानामनित्यानां क्रमजन्मनामपि चेतनत्वाभावाश्चेतनेनाधिष्ठितानां कार्यनिष्पादनाय प्रवृत्तेरनुत्पत्तेस्तुरीतंतुवेमशलाकादीनां कुविंदेनानधिष्ठितानां पटोत्पादनायाऽप्रवृत्तिवश्चेतनस्तदधिष्ठाता साध्यते । तथा हि विवादाध्यासितानि कारणांतराणि क्रमवर्तन्यिक्रमाणि च चेतनाधिष्ठितान्येव तन्वादिकार्याणि कुर्वेति स्वयमचेतनत्वात् यानि यानि अचेतनानि तानि तानि चेतनाधिष्ठितान्येव स्वकार्य कुर्वाणानि दृष्टानि यथा तुरीतं त्वादीनि पटकार्य, स्वयमचेतनानि च कारणांतराणि तस्मादेतनाधिष्ठितान्येव तन्वादिकार्याणि कुर्वति योऽसौ तेषामधिष्ठाता स महेश्वरः पुरुषविशेषः क्लेशकर्मविपाकाशयैरपरामृष्टः समस्तकारक शक्तिपरिज्ञानभाक् सिसृक्षाप्रयत्नविशेषवांश्च प्रभुर्विभाव्यते तद्विपरीतस्य समस्तकारकाधिष्ठातृत्वविरोधात् बहूनामपि समस्त कारकाधिष्ठायिनां पुरुषविशेषाणां प्रतिनियतज्ञानादिशक्तीनामेकेन महाप्रभुणाऽधिष्ठितानामेव प्रवृत्तिघटनात् सामंत महासामंतमंडलीकादीनामेकं चक्रवर्त्याधिष्ठितानां प्रवृत्तिवदिति महेश्वरसिद्धिः । तत्राचेतनत्वादिति हेतोर्वत्सविवृद्धिनिमित्तं प्रवर्त्तमानेन गोक्षीरेणानैकांतिकत्वमिति न शंकनीयं । तस्यापि चेतनेन वत्सेनादृष्टविशेषसहकारिणाधिष्ठि तस्यैव प्रवृत्तेः । अन्यथा मृते वत्से गोभक्तेनैव तस्य प्रवृत्तिविरोधात् । न च वत्सादृष्टविशेषवशात्प्रवृतावपि समानोऽयं दोष इति शक्यः तत्क्षीरोपभोक्तृजनादृष्टविशेष सहकारिणापि चेतनेनाधिष्ठितस्य प्रवृत्तिघटनात् सहकारिणामप्रतिनियमात् । यदपि कश्चिदुच्यते महेश्वरोऽपि चेतनांतराधिष्ठितः प्रवर्तते चेतनत्वाद्विशिष्टकर्मकरादिवदिति । तदपि न सत्यं तदधिष्ठापकस्यैव महेश्वरत्वात् । यो त्योऽधिष्टाता स्वतंत्रः स महेश्वरस्ततोऽन्यस्य महेश्वरत्वानुपपत्तेन चांत्योऽधिष्ठाता न व्यवतिष्ठते तन्वादिकार्याणामुम्यतिव्यवस्थानामभावप्रसंगात् । परापर महेश्वर प्रतीक्षायामेवोपक्षीणशक्तित्वात् ततो निरवद्यमिदं