Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala
View full book text
________________
सनातनजैनग्रंथमालायांसाधनमिति कैश्चित् । तेऽपि न हेतुसामर्थ्यवेदिनः । अचेतनत्वस्य हेतोः संसारिजनज्ञानेषु स्वयं चेतन स्वभावात्पक्षाव्यापकत्वात् । ननु च न चतनत्वप्रतिषेधोऽचेतनत्वं किं तर्हि चेतनासमवायप्रतिषेधः स च ज्ञानेष्वस्ति तेषां स्वयं चेतनत्वात् तत्रापरचेतनासमवायाभावात् ततोऽचेतनत्वं साधनं न पक्षाव्यापकं ज्ञानेष्वपि सद्भावादिति न मंतव्यं । संसात्मिसु चेतनासमवायात चेतनत्वप्रसिद्धेरचेतनत्वस्य हेतोरभावात् पक्षाव्यापकत्वस्य तदवस्थत्वात् । यदि तु संसार्यात्मनां स्वतोऽचेतनत्वादचेतनत्वस्य हेतोस्तत्रसद्भावान्नपक्षाव्यापकत्वमिति मतिः । तदा महेश्वरस्याप्यचेतनत्वप्रसंगाः। तस्यापि स्वतोऽचेतनत्वात् तथा च दृष्टादृष्ट कारणांतरवदीश्वरस्यापि हेतुकर्तुश्चेतनांतराधिष्ठितत्वं साधनीयं तथा चानवस्था सुदूरमपि गत्वा कस्यचित्खतश्चेतनत्वानभ्युपगमात् । महेश्वरस्य स्वतोऽचेतनस्यापि चेतनांतराधिष्ठितत्वाभावे तेनैव हेतोरनेकांतिकत्वमिति कुतः सकलकारकाणां चेतनाधिष्ठितत्वसिद्धिः यत इदं शोभते "अज्ञो जंतुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितोगच्छेत्स्वर्ग वा श्वभ्रमेव चेति' । स्यादाकूतं चेतनाज्ञानं तदधिष्ठितत्वं सकलकारकांतराणायचेतनत्वेन हेतुना साध्यते तच्च ज्ञानं समस्तकारकशक्तिपरिच्छेदकं नित्यं गुणत्वादाश्रयमंतरेणासंभावात् स्वाश्रयमात्मांतरं साधयति स नो महेश्वर इति । तदप्ययुक्तं । संसार्यात्मनां शानैरपि स्वयं चेतनास्वभावैरधिष्ठितस्य शुभाशुभकर्मकलापस्य तत्सहकारिकदंबकस्य च तन्वादिकार्योत्पत्ती व्यापारसिद्धरीश्वरज्ञानाधिष्ठानपरिकल्पनावैयर्थ्यप्रसंगात् । तदन्वयव्यतिरेकाभ्यामेव तद्व्यवस्थापनात् । अथ मतमेतत् संसार्यात्मनां विज्ञानानि विप्रकृष्टार्थाविषयत्वान्न धर्माधर्मपरमाणुकालाद्यतींद्रियकारकविशेषसाक्षात्करणसमर्थानि । न च तदसाक्षात्करणे ततः प्रयोजकत्वं तेषामवतिष्ठते तदप्रयोजकत्वे च न तदधिष्ठतानामेव धर्मादीनां तन्वादिकार्यजन्मनिप्रवृत्तिः सिध्येत् ततोऽतींद्रियार्थसाक्षात्कारिणा ज्ञानेनाधिष्ठितानामेव स्वकार्ये व्यापारेण भवितव्यं तच्च महेश्वरज्ञानमिति । तदप्यनालोचितयुक्तिकं सकलातींद्रियार्थसाक्षात्कारिण एव ज्ञानस्य कारकाधिष्ठायकत्वेन प्रसिद्धस्य दृष्टांततयोपादीयमानस्यासंभवात्तदधिष्ठितत्वसाधने हेतोरन्वयत्वप्रसक्तेः । न हि कुंभकारादेः कुंभायुत्पत्चौ तत्कारकसाक्षात्कारि ज्ञानं विद्यते दंडचक्रादिदृष्टकारकसंदोहस्य तेन साक्षात्कारणेऽपि तन्निमित्तादृष्टविशेषकालादेरसाक्षात्करणात् । ननु लिंगविशेषात्तत्परिच्छित्तिनिमित्तस्य लैंगिकस्य ज्ञानस्य सद्भावात् तथा स्वादृष्टविशेषाः कुंभकारादयः कुंभादिकार्याणि कुर्वति नेतरे तेषां तथाविधादृष्टविशेषाभावादित्यागमज्ञानस्यापि तत्परिच्छेदनिबंधनस्य सद्भावान् सिद्धमेव कुंभकारादिज्ञानस्य कुंभादिकारकपरिच्छेदकत्वं तत्प्रयोक्तृत्वेन तदधिष्ठाननिबंधनत्वं ततस्तस्य दृष्टांततयोपादानान्नहे तोरन्वयत्वापत्तिरिति चेत् ताहि सर्वसंसारिणां यथास्वं तन्वादिकार्यजन्मनि प्रत्यक्षतोऽनुमानादागमाञ्च तन्निमित्तहष्टादृष्टकारकविषयपरिज्ञानसिद्धेः कथमज्ञत्वं येनात्मनः सुखदुःखोत्पत्ती हेतुत्वं न भवेत् यतश्च सर्वसंसारीश्वरप्रेरित एव स्वर्ग वा श्वभ्रं वा गच्छेदिति समंजसमालक्ष्यते । ततः किमीश्वरपरिकल्पनया दृष्टादृष्टकारकांतराणामेव क्रमाक्रमजन्मनामन्वयव्यतिरेकानुविधातात् क्रमाक्रमजन्मानि तन्वादिकार्याणि भवंतु तदुपभोक्तजनस्यैव ज्ञानवतः तदधिष्ठायकस्य प्रमाणोपपन्नस्य व्यवस्थापनात् । सांप्रतमभ्युपगम्यापि महेश्वरज्ञानं अस्वसंविदितं स्वसंविदितं वेति कल्पनाद्वितयसंभवे प्रथमकल्पनायां दूषणमाह
अस्वसंविदितं ज्ञानमीश्वरस्य यदीष्यते । तदा सर्वज्ञता न स्यात् स्वज्ञानस्याप्रवेदनात् ॥३६॥ ज्ञानांतरेण तद्वित्तौ तस्याप्यन्येन वेदनं । वेदनेन भवेदेवमनवस्था महीयसी ॥३७॥ गत्वा सुदूरमप्येवं स्वसंविदितवेदने । इष्यमाणे महेशस्य प्रथमं ताहगस्तु वः ॥३८॥

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182