Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 36
________________ २२ सनातनजैन ग्रंथमालार्याकथं च धर्मधर्मिणोरिति व्यपदिश्यते । न पुनः सह्यविंध्ययोरिति विशेषहेतुर्वक्तव्यः प्रत्यासत्यंतरं तद्धेतुरिति चेत् तदपि यदि प्रत्यासत्तितद्वद्भ्यो भिन्नं तदा तैव्यपदेशनियमनिबंधनं प्रत्यासत्त्यंतरमभिधानीयं तथा चानवस्थानात्कुतः प्रकृतप्रत्यासत्तिनियमव्यवस्था । प्रत्ययविशेषादेवेति चेत् । ननु स एव विचार्योवर्तते प्रत्ययविशेषः किं प्रत्यासत्तेस्तत्तद्वद्यां सर्वथा भेदे सतीश्वरतदवस्थयोः प्रत्यासत्तिरिति प्रादुर्भवति किं वाऽनीतरभाव एव कथंचित्तादात्म्ये वा । तत्र सर्वथा भेदाभेदयोर्बाधकसद्भावात् कथंचि. तादात्म्यमनुभवतोरेव तथा प्रत्ययेन भवितव्यं तत्र बाधकानुदयात् । ननु चैकानेकयोः कथंचित्तादात्म्यमेव धर्मधर्मिणोः प्रत्यासत्तिः स्याद्वादिभिरभिधीयते तच्च यदि ताभ्यां भिन्नं तदा न तयोर्व्यपदिश्यते तदभिन्नं चेत् किं केन व्यपदेश्यं । यदि पुनस्ताभ्यां कथंचित्तादात्म्यस्यापि परं कथंचित्तादात्म्यमिष्यते तदा प्रकृतपर्यनुयोगस्यानिवृतेः परापरकथंचित्तादात्म्यपरिकल्पनायामनवस्था स्यात् । सैव कथंचित्तादात्म्यपक्षस्य बाधिकेति कथमयं पक्षः क्षेमकरः प्रेक्षावतामझूणमालक्ष्यते । यदि पुनः कथंचित्तादात्म्यं धर्मधर्मिणोनिमेवाभ्यनुज्ञायते ताभ्यामनवस्थापरिजिहीर्षयाऽनेकांतवादिना तदा धर्मधर्मिणोरेव भेदोऽनुज्ञायतां सुदूरमपि गत्वा तस्याश्रयणीयत्वात् । तदनाश्रयणे भेदव्यवहारविरोधादित्यपरः सोऽप्यनवबोधाकुलितांतःकरण एव । कथंचित्तादात्म्यं हिं धर्मधर्मिणोः संबंधः स चाविध्वग्भाव एव तयोर्जात्यंतरत्वेन संप्रत्ययाव्यवस्थाप्यते । धर्मधर्मिणोरविस्वग्भाव इति व्यवहारस्तु न संबंधांतरनिबंधनो यतः कथंचित्तादात्म्यांतरं संबंधांतरमनवस्थाकारि परिकल्प्यते तत एव कथंचित्तादात्म्याद्धर्मधर्मिणोः कथंचित्तादात्म्यमिति प्रत्ययविशेषस्य करणात् । कथंचित्तादात्म्यस्य कथंचिद्भेदस्वीकारत्वात् कथंचिद्भेदाभेदी हि कथंचित्तादात्म्यं । तत्र कथंचिद्भेदाश्रयणाद् धर्मधर्मिणोः कथंचित्ता. दात्म्यमिति भेदविभक्तिसद्भावात् भेदव्यवहारसिद्धिः । कथंचिदभेदाश्रयणात्तु धर्मधर्मिणावेव कथंचित्तादात्म्यमित्यभेदव्यवहारः प्रवर्तते धर्मधर्मिव्यतिरेकेण कथंचिद्भेदाभेदयोरभावात् कथंचिद्भेदो हि धर्म एव कथंचिदभेदस्तु धर्येव कथंचिद्भेदाभेदौ तु धर्मधर्मिणावेव एवं सिद्धौ तावेव च कथंचित्तादात्म्यं वस्तुनोऽभिधीयते । तच्छब्देन वस्तुनः परामर्शात् । तस्य वस्तुनः आत्मानौ तदात्मानौ तयोर्भावस्तादात्म्यं । भेदाभेदस्वभावत्वं कथंचिदिति विशेषणेन सर्वथा भेदाभेदयोः परस्परनिरपेक्षयोः प्रतिक्षेपात्तत्पक्षे निक्षिप्तदोषपरिहारः । परस्परसापेक्षयोश्च परिग्रहात् जात्यंतरवस्तुव्यवस्थापनात् सर्वथा शून्यवादप्रतिक्षेपसिद्धिरिति कथंचिद्भेदाभेदात्मकं कथंचिद्धर्मधात्मकं कथंचिहव्यपयार्यात्मकमिति प्रतिपाद्यते स्याद्वादन्यायनिष्ठैस्तथैव तस्य प्रतिष्ठितत्वात् । सामान्यविशेषवन्मेचकज्ञानवञ्च । तत्र विरोधवैय्यधिकरण्यादिदूषणमनेनैवापसारितमिति किं नश्चितया । नन्वेवं स्याद्वादिनामपि द्रव्यस्य नित्यत्वात्तदन्वयव्यतिरेकानुविधान कार्याणां न स्यादीश्वरान्वयव्यतिरेकानुविधानवत् पर्यायाणां च क्षणिकत्वात्तदन्वयव्यतिरेकानुविधानमपि न घटते नष्टे पूर्वपर्याये स्वयमसत्येवोत्तरकार्यस्योत्पत्तेः सति चानुत्पत्तेरन्यथैकक्षणवृत्तित्वप्रसंगात् । सर्वपर्यायाणामिति तद्भावभावित्वानुपपत्तिः । यदि पुनद्रव्ये सत्येव कार्याणां प्रसृतेस्तदन्वयसिद्धिस्तन्निमित्तपर्यायाणामभावे वानुत्पत्तेर्व्यतिरेकसिद्धिरिति तदन्वयव्यतिरेकानुविधानमिष्यते तदेश्वरस्य तदिच्छाविज्ञानयोश्च नित्यत्वेऽपि तन्वादिकार्याणां तद्भाव एव भावात्तदन्वयस्तत्सहकारिकारणावस्थापाये च तेषामनुत्पत्तेर्व्यतिरेक इति तदन्वयव्यतिरेकानुविधानमिष्यतां विशेषाभावात् ततः सर्वकार्याणां बुद्धिमत्कारणत्वसिद्धिरिति परे प्रत्यवतिष्ठते तेऽपि न कार्यकारणभावविदः । स्याद्वादिनां द्रव्यस्य पर्यायनिरपेक्षस्य पर्यायस्य वा द्रव्यनिरपेक्षस्य द्रव्यपर्याययोर्वा परस्परनिरपेक्षयोः कार्यकारित्वानभ्युपगमात् तथा प्रतीत्यभावात् द्रव्यपर्यायात्मकस्यैव जात्यंतरवस्तुनः कार्यकारित्वेन संप्रत्ययात् कार्यकारणभावस्य तथैव प्रसिद्धेः वस्तुनि द्रव्यरूपेणान्वयप्रत्ययविषये सत्येव कार्यस्य प्रादुर्भावात्तन्निबंधनपर्यायविशेषाभावे च कार्यस्याप्रादुर्भावात्तदन्वयव्यतिरेकानुकरणात्कार्यकारणभावो व्यवतिष्ठते । न च द्रव्यरूपेणापि वस्तुनो नित्यत्वमवधार्यते तस्य १ प्रत्यासत्तिधर्मधर्मिभ्यः। २ धर्मधर्मिप्रत्यासत्तीनामिदं प्रत्यासत्यतमिति न्यपदेशनियमस्य कारणं ।

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182